SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं: १४, [भा. ३६१] १२९ ज्ञातुमिष्टा ततोऽशीत्यधिकशतात् पंचविंशतिः शोध्यते जातं पंचपंचाशदधिकं शतं एषा पंचविंशदिनायाः स्थापनाया उत्कृष्टा आरोपणा, एवं सर्वत्र भावनीयं, सांप्रतमारोपणास्थाने उत्कृष्टस्थापनापरिज्ञानार्थमाह[भा.३६२] आरोवणा उद्दिट्ठा, छम्मासा ऊणागाभवेताए । आरोवणाए तीसे, ठवणा उक्कोसिया होइ ।। वृ-आरोवणा उद्दिठाया आरोपणाउदिष्टा स्थापना किलज्ञातुमिष्टेतिभावः,तथाषण्मासा ऊनकाः क्रियतन्ते, सा षण्मासदिवसेभ्यः शोध्यते इत्यर्थः, ततो यच्छेषभंवतिष्ठते, तत्तस्या ईप्सिताया आरोपणाया उत्कृष्टा स्थापना भवति, यथा पंचदशदिनायाः आरोपणाया उत्कृष्टा स्थापना ज्ञातुभिष्टा, ततः पंचदश अशीत्यधिकशतादपनीयंते, जातं पंचषष्ठयधिकं शतं तावत्प्रमाण पंचदशदिनाया, आरोपणाया उत्कृष्टा स्थापना भवति, तथा विंशतिदिनाया आरोपणाया उत्कृष्टा स्थापना किल ज्ञातुभिष्टेति, विंशतिरशीत्यधिकशतादपनीयते, जातं षष्ठ्यधिकशतं एतावती विंशतिदिनाया आरोपणाया उत्कृष्टा स्थापना, एवं सर्वत्रापिभावनीयं, सांप्रतं प्रथम स्थाने कियंतिस्थापनास्थानानि कियंत्यारोपणास्थानानि कियंतो वास्थापनारोपणास्थानानां संवेधतः संयोगा इत्येत्प्ररूपणार्थमाह[भा.३६३] तीसंठवणाठाणातीसं आरोवणाएठाणाइं। ठवणाणंसंवेहोचत्तारिसयाउपन्नठा ।। वृ-प्रथम स्थाने त्रिंशत् स्थापनास्थानानि, त्रिंशच्चारोपणायाः स्थानानि, एतच्च प्रागेवानेकशो भावितमिति न भूयो भाव्यते, ठवणाणमित्यादि स्थापनानामारोपणाभिः सह संवेधाः संयोगाः सर्वसंख्ययाः चत्वारि शतानि पंचषष्ठानि भवंति; तथाहि प्रथमे विंशतिदिनरूपे स्थापनास्थाने त्रिंशदारोपणास्थानानि, द्वितीये पंचविंशतिदिनरूपएकोनत्रिंशत् तृतीयेऽष्टाविंशतिरेवमेकैकरूपहान्या तावद्वक्तव्यं, यावत् पंचषष्टिदिनशतरूपे त्रिंशत्तमे स्थापनास्थाने एकमारोपणास्थानमेतानि च सर्वाण्यप्येकत्र लिखितानि, यथोक्तसंख्याकानि भवंति; स्थापनाग्रहणे चारोपणापि गृह्यते; अनयोः परस्परसंवेधात्, तत एतदपि द्रष्टव्यमारोपणास्थानानां स्थापनाभिः सह संवेधाः, सर्वसंख्या चत्वारि शतानिपंचष्टीनिभवंति; तथाहिप्रथमपंचदशदिनरूपेआरोपणास्थानेत्रिंशत्स्थापनास्थानानि, द्वितीये विंशतिदिनरूपे एकोनत्रिंशत्, तृतीयेऽष्टाविंशतिरेवमेकैकरूपहान्या तावत् वक्तव्यं यावत् षष्ठिदिनशतप्रमाणे त्रिंशत्तमे आरोपणास्थाने एकविंशतिदिनं स्थापनास्थानमेतच्चसर्वं प्रागेव सप्रपंचं भावितमेतानि च सर्वाण्यप्येकत्र मिलितानि यथोक्तसंख्याकानि भवंति, यथोक्तसंवेधसंख्यापरिज्ञानार्थमेव करणगाथामाह। [भा.३६४] गच्छुत्तरसंवग्गो, उत्तरहीनंमि पक्खिवे आई। अंतिमधनमादिजुयं, गच्छद्धगुनं तुसव्वघनं ।। वृ-इह यद्यपि प्रथमे स्थाने त्रिंशदारोपणास्थानानि, द्वितीये एकोनत्रिंशत् तृतीये अष्टाविंशतिरिति क्रमस्तस्तथापि संकलनायां यथोत्तरमंका निवेश्यंते, इत्येकद्वित्र्यादिक्रमः, तत्र गच्छः त्रिंशत् त्रिंशतोऽकस्थानानांभावादुत्तरमेकं, एकोत्तराया वृद्धर्भावात्, आदिरप्येकंसाकस्थानानामादावेकस्य भावात्गच्छस्य त्रिंशत्उत्तरणएकेनसंवर्गोगुणनं,गच्छोत्तरसंवर्गस्तस्मिन् किमुक्तंभवति; त्रिंशदेकेन नाश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy