SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२८ व्यवहार -छदसूत्रम्-१-१/१४ आरोपणास्थानेचनपंचकवृद्धि पिपंचकापकृष्टिः, किंतुवृद्धि निर्वाएकोत्तरा, ततो यद्यपितद्भावना .धिकृतगाथाक्षराननुयायिनी तथापि विनेयजनानुग्रहाय क्रियते ।। तद्यथा, चतुर्थ स्थापनास्थाने जघन्या स्थापना एकदिना, अन्या मध्यमा द्विदिना, अन्या त्रिदिना, एवमेकैकं प्रक्षिपता तावद्गंतव्यं, यावदेकोनाशीत्यधिकदिनशततमा स्थापनेति, तथा चतुर्थस्थाने जघन्यारोपणा एकदिना, ततोऽन्या मध्यमा द्विदिना, ततोऽन्या त्रिदिना, एवमेकैकं परिवर्धयता तावद्नंतव्यं, यावदेकोनाशीत्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीत्यधिकशततमा आरोपणेति, संप्रति संवेधभावना एकदिनायां स्थापनायां जघन्यारोपणा एकदिना, ततोऽन्या द्विदिना, मध्यमा ततोऽन्या त्रिदिना एवमेकदिनांस्थापनाममुंचता एकैकं परिवर्धयता तावद्तव्यं यावदेकोनाशीत्यधिकदिनशतमाना सर्वोत्कृष्टा एकोनाशीतिशततमारोपणा अस्यामेकोनाशीत्यधिकशतप्रमाणान्यारोपणास्थानानि, तथाहि द्विदिनायां स्थापनायां जघन्यारोपणा एकदिना, ततोऽन्या द्विदिना मध्यमा, ततोऽन्या त्रिदिना एवं द्विदिनांस्थापनाममुंचता एकैकंपरिवर्धयता तावन्नेयं,यावदष्टसप्तत्यधिकदिनशतमाना सर्वोत्कृष्टा अष्टसप्ततिशततमा आरोपणा, अस्यामष्टसप्ततिशतप्रमाणान्यारोपणास्थानानि, पूर्वस्थापनातोऽस्यां स्थापनायामेकस्य परिवृद्धते एकस्य त्रुटितत्वात् ।। ___ एवमुत्तरोत्तरस्थापनास्थानसंक्रांतौ तदंतिममंतिमं स्थानं परिहरता तावद्यातव्यं, यावदेकोनाशीत्यधिकशततमायां स्थापनायामेकैव जघन्या एकदिना आरोपणेति, तथा एकदिनायामारोपणायां जघन्यास्थापनाएकदिना,ततोन्या मध्यमा द्विदिना,ततोऽन्या त्रिदिना, एवमेकदिनामारोपणाममुंचता एकैकं परिवर्घयता तावद्नंतव्यं,यावदेकोनाशीत्यधिकदिनशतमाना सर्वोत्यकृष्टा एकोनाशीतिदिनशततमास्थापना, अस्यामेकोनाशीत्यधिकशतसंख्यानिस्थापनास्थानानि,तथा द्विदिनायामारोपणायां जधन्यास्थापनाएकदिना, ततोऽन्या द्विदिनामध्यमा, ततोऽन्यात्रिदिनाएवं द्विदिनामारोपणाममुंचता एकैकंपरिवर्धयतातावद्तव्यं,यावदृष्टसप्तत्यधिकदिनशतमानासर्वोत्कृष्टा अष्टसप्ततिशतमानास्थापना अस्यामष्टसप्ततिप्रमाणानि स्थापनास्थानानि, कारणं प्रागुक्तमनुसर्त्तव्यं, एवमुत्तरोत्तरारोपणास्थानसंक्रांतावंतिममंतिमं स्थानं परिहरता तावद्नंतव्यं, यावदेकोनाशीत्यधिकशततमायामारोपणायामेकैव जघन्या एकदिना स्थापनेति, इह एकैकस्मिन् स्थापनास्थाने आरोपणा जघन्या मध्यमा उत्कृष्टा च प्रतिपादिता, ततःसांप्रतमुत्कृष्टारोपणापरिज्ञानार्थमाह ।। [भा.३६१] जो ठणवणा उद्दिट्टा, छम्मासा ऊणिया भवेताए । आरोवणउक्कोसा तीसे ठवणाएनायव्वा ।। वृ- षण्णां मासानामशीतदिवसशतं भवति, तत् स्थापयित्वा या स्थापना उदिष्टेति, यस्याः स्थापनायाः उत्कृष्टा आरोपण ज्ञातुमिष्टा सा उदिष्टेत्यभिधीयते, उहिष्टा ईप्सिता, इत्यनांतरं तया षण्मासाः षण्मासदिवसा ऊनकाः क्रियते, किमुक्तं भवति तामुद्दिष्टां स्थापनां षण्मासादिवसेभ्यो अशीत्यधिकशतप्रमाणेभ्यः शोधयेत्,ततो यच्छेषभवतिष्ठते,तत्तस्याः ईप्सितायाः स्थापनाया उत्कृष्टा आरोपणा भवति ज्ञातव्या० ।। यथा विंशतिदिनायाः स्थापनाया उत्कृष्टा आरोपणा ज्ञातुमिष्टा, ततो विंशतिरशीत्यधिकशतात पण्मासदिवससंख्याभतातशोध्यते.जातंषष्ठयधिकंशतं.एषा विंशिकायाः स्थापनायाउत्कृष्टा आरोपणा,ततः परमारोपणाया असंभवात्, विंशत्यासह षष्णांमासानां परिपूर्णानां भावात्, षण्मासाधिकस्य च प्रायश्चित्तस्यादानात् । । तथा पंचविंशतिदिनायाः किलोत्कृष्टा आरोपणा www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy