SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ उद्देशक : 5:9, मूलं : १४, [ भा. ३५८ ] १२५ भावः । । उत्कृष्टा भवति स्थापना पंचषष्ठं शतं पंचपष्टयधिकं रात्रिदिवानां शतं, शेषाणि तु स्थानानि मध्यमानि संप्रति प्रथमे आरोपणस्थाने या जघन्या आरोपणा या चोत्कृष्टा तां प्रतिपादयिषुराह - आरोवणा जहन्नापन्नरसराइंदियाई पुन्नाई । उक्कोसं सहिसयं, दोसुवि पक्खेवगो पंच ।। [ भा. ३५९ ] वृ- प्रथमे आरोपणास्थाने जघन्या आरोपणा पूर्णानि परिपूर्णानि पंचदश रात्रिंदिवानि, उत्कृष्टां पुनरारोपणां जानीयातः पष्ठिशतं षष्ट्यधिकं रात्रिंदिवशतं शेषाणि तु स्थानानि मध्यमानि तत्परिज्ञानार्थमाह दोसुवि पखेवगो पंच, द्वयोरपि स्थापनारोपणयोः प्रत्येकं जघन्यपदादारभ्योत्तरोत्तरे मध्यमेस्थाने प्रक्षेपकः पंच पंच परिणामो ज्ञातव्यो, यावदुत्कृष्टं पदं, इयमत्र भावना, प्रथमे स्थापनास्थाने जघन्या स्थापना विंशतिका, ततः पंचकप्रक्षेपेऽन्या द्वितीया पंचविंशतिदिनमाना, ततः पुनः पंचकप्रक्षेपे तृतीया त्रिंशद्दिना, एवं पंच पंच परिवर्धयता तावन्नेतव्यं, यावत् पंचषष्ठरात्रिंदिवशतप्रमाणा त्रिंशत्तमा स्थापनेति, तथा प्रथमे आरोपणास्थाने जघन्यारोपणा पक्षप्रमाणा ततः पंचकप्रक्षेपे विंशतिदिनप्रमाणा द्वितीया, ततोपि पंचकप्रक्षेपे पंचविंशतिदिनमाना तृतीया, एवं यथोत्तरं पंच पंच परिवर्धयता तावन्नेयं यावत् षष्ट्यधिकरात्रिंदिवशतप्रमाणा त्रिंशत्तमेति, एतदेव सुव्यक्तमाह पंचण्हपरिवुड्डी, उक्कठ्ठी चेव होइ पंचन्हं । एएण पमाणेणं, नेयव्वं जाव चरिमंति ।। [ भा. ३६०] " - वृ- स्थापनायामारोपणायां च प्रत्येकं जघन्यपदादारभ्योत्तरोत्तरस्थान जिज्ञासायां पंचानां परिवृद्धिर्ज्ञातव्या; प्रत्येकमेवमेवतिमस्थापनादारभ्य क्रमेणाधोऽधः स्थानचिंतायां पंचानामपकृष्टिर्हानिभवत्यऽव सातव्या तद्यथा- पंचपष्ठ्यधिकरात्रिंदिवशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा स्थापना, ततः पंचानामपसारणे रात्रिं दिवषष्ठ्यधिकशतमाना एकोनत्रिंशत्तमा मध्यमा, ततोपि पंचानामपगमे पंचपंचाशदधिकशतप्रमाणा अष्टांविंशतितमा, एवं क्रमेणाधोधस्तात् पंच पंच परिहापयता तावन्नेतव्यं, यावत् विंशतिदिनप्रमाणा प्रथमा स्थापना, तथा पष्ठ्यधिकरात्रिंदिवशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा आरोपणा, ततः पंचानामपगमे पंचपंचाशदधिकशतम्माना एकोनत्रिंशत्तमा मध्यमा, ततोपि पंचानामपगमे पंचाशच्छतप्रमाणा अष्टाविंशतितमा, एवं क्रमणाधोधः पंच पंच परिहापयता तावन्नेयं, यावत् प्रथमा पक्षप्रमाणेति, तथा चाह, एएणेत्यादिएतेन पूर्वानुपूर्व्या पंचकपरिवृद्धिरूपेण पश्चादनुपूर्व्या पंचकापकृष्टिरूपेण प्रमाणेन पूर्वानुपूर्व्यं जघन्यपदादारभ्य पश्चादनुपूर्व्यामुत्कृष्टात् स्थानात् प्रभृति तावन्नेतव्यं यावच्चरमं स्थानं परिवृद्धौ सर्वातिमं स्थानं चरममपकृष्टौ जघन्यमादिमं चरममिति, अथवेय गाथा अन्यथा आख्यायते, पूर्वं किल स्थापनायामारोपणायां च प्रत्येकं जघन्यमध्यमोत्कृष्टभेदभिन्नानि स्थानानि उक्तानि, सांप्रतमेकैकस्मिन् स्थापना स्थाने जघन्यादौ किंयत्यारोपणास्थानानि एकैकस्मिन् वारोपणास्थाने कियंति स्थापनास्थानानीत्येतत् प्रतिपादियति पंचण्ह परिवुड्डि इत्यादि पूर्वस्मात् स्थापनास्थनादारोपणास्थानाद्वा उत्तरस्मिन्नुत्तरस्मिन् स्थापनास्थाने आरोपणस्थाने वा वृद्धिर्भवति, यस्मिंश्च यदपेक्षया स्थापनास्थाने आरोपणास्थाने वा पंचानां वृद्धिर्भवति, तस्मिन् तदपेक्षया स्थापनास्थाने आरोपणाचिंतायामारोपणास्थाने वा स्थापनास्थानचिंतायामंते पंचानामपकृष्टिर्हानिर्भवति एतेन प्रमाणेन पंचकपरिवृद्धिरूपेण पंचकहानिरूपेण च तावन्नेयं यावदेकत्रांतिमं चरममपरत्रादिमं चरममिति, तथाहि विंशिकायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततीऽन्या " For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy