SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२६ व्यवहार - छेदसूत्रम् - १-१/१४ विंशतिका, ततोप्यन्या पंचविंशतिदिनमाना, ततोप्यन्या त्रिंशिका एवं पंच पंच आरोपयता तावन्नेयं, यावत्तस्यामेव विंशिकायां सर्वोत्कृष्टषष्ठयधिकदिनशतप्रमाणा त्रिंशत्तमा आरोपणा, तथा पंचविंशतिकायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिका ततोप्यन्या । पंचविंशतिदिनमाना ततोप्यन्या त्रिंशद्दिना एवं पंच पंच आरोपयता तावन्नेयं, यावत्तस्यामेव विंशतिकाया सर्वोत्कृष्टा षष्ठयधिकदिनशतप्रमाणा त्रिंशत्तमा आरोपणा, तथा पंचविंशतिकायां स्थापनायां जघन्या पाक्षिकी आगेपणा ततोन्या विंशतिका ततोप्यन्या पंचविंशतिदिना ततोन्यात्रिंशद्दिना एवं च परिवर्धयता तावद्गंतव्यं, यावदेकोनत्रिंशत्तमा पंचपंचाशदधिकदिन शतमाना सर्वोत्कृष्टा आरोपणा, अस्यामेकोनत्रिंशदारोपणास्थानानि, पूर्वस्थानापेक्षया अस्याः स्थापनायाः पंचभिर्दिनैः परिवर्धमानतया पर्यंते पंचानां दिनानां त्रुटित्वात् एवमुत्तत्रापिभावनीयं, तथा त्रिंशद्दिनायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिदिना ततोप्यन्या पंचविंशतिदिना एवं पंच पंच परिवर्धयता तावन्नेतव्यं यावत्सर्वोत्कृष्टा पंचाशत्शतदिनाऽष्टाविंशतितमारोपणा, अस्यामष्टाविंशतिरारोपणास्थानानि तथा पंचत्रिंशद्दिनायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या विंशतिदिना ततोप्यन्या पंचविंशतिदिना एवं पंच पंचारोपयता तावद्गंतव्यं, यावत्सर्वोत्कृष्टा पंचचत्वारिंशद्दिनशतमाना सप्तविंशतितमारोपणा, अस्यां सप्तविंशतिरारोपणास्थानानि कारणं प्रागेवोक्तं, एवमुत्तरोत्तरस्थापनासंक्रांतावंतिममंतिमं स्थानं परिहरता तावन्नेतव्यं, यावत् पंचषष्ठिदिनशतायां त्रिंशत्तमायां स्थापनायामेकैव जघन्या पाक्षिकी आरोपणा नान्येति, तथा पाक्षिक्यामारोपणायां जघन्या विंशतिदिना स्थापना ततोऽन्या पंचविंशतिदिना मध्यमा, ततोप्यन्या त्रिंशद्दिना, एवं पंच पंच परिवर्धयता तावन्नेतव्यं, यावत्पंचषष्ठिदिनशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा स्थापना, तथा विंशिकायामारोपणायां जघन्या स्थापना विंशतिदिना, ततोन्या मध्यमा पंचविंशतिदिना, ततोप्यन्या त्रिंशद्दिना एवं यथोत्तरं पंच पंच विलगयता तावदंतव्यं,, यावत् षष्ठयधिकदिनशतमाना सर्वोत्कृष्टा एकोनत्रिंशत्तमा स्थापना, पूर्वारोपणातो ह्यस्यामारोपणायां पंच दिनान्यधिकानि तानि चोपरि त्रुटितानीत्येकीन त्रिंशदेवास्यामारोपणायां स्थापनास्थानानि, तथा पंचविंशतिदिनायामारोपणायां जघन्या विंशिका स्थापना, ततोऽन्या पंचविंशतिदिना मध्यमा, ततोप्यन्या त्रिंशद्दिना एवं पंच पंच परिवर्धयता तावन्नेयं, यावत् पंचपंचाशद्दिनशतमाना सर्वोत्कृष्टाऽष्टाविंशतितमा स्थापना, अस्यां हि प्रागुक्तयुक्त्याष्टाविंशतिस्थापनास्थानानि, एवमुत्तरोत्तरारोपणासंक्रांतावंतिममंतिमं स्थापनास्थानं परिहरता तावद्गतव्यं, यावत् षष्ठिदिनशतमायारोपणायां जघन्या विंशिका स्थापनेति, यथा च प्रथमे स्थापनास्थाने आरोपणास्थाने च प्रत्येकं संवेधतश्च स्थापना कृता, तथा द्वितीये तृतीये च कर्त्तव्या, तद्यथा द्वितीये स्थापनास्थाने जघन्या स्थापना पाक्षिकी, ततः पंचकप्रक्षेपेऽन्या विंशतिदिना तत्रापि पंचकप्रक्षेपेऽन्या पंचविंशतिदिना एवं पंच पंच प्रक्षिपता तावद्गंतव्यं, यावत् पंचसप्ततिरात्रिंदिवशतप्रमाण त्रयस्त्रिंशत्तमा स्थापनेति, तथा द्वितीये स्थाने जघन्यारोपणा पंचाहिका, ततः पंचकप्रक्षेपे दशाहिका ततोपि पंचकप्रक्षेपे पाक्षिकी, एवं पंच पंच परिवर्धयता तावन्नेयं, यावत्पंचषष्ठिदिनशतमाना त्रयसिंस्त्रशत्तमा सर्वोत्कृष्टा आरोपणेति, इदानीं संवेधभावना पाक्षिक्यांस्थापनायां जघन्या पंचाहिका आरोपणा, ततोऽन्या दशदिना मध्यमा, ततोप्यन्या पाक्षिकी, ततोप्यन्या विंशतिदिना, एवं पंच पंच परिवर्धयता तावर्द्धतव्यं, यावत्रयस्त्रिंशत्तमा पंचषष्ठिदिनशतमाना सर्वोत्कृष्टा आरोपणा, अस्यां त्रयस्त्रिंशदारोपणास्थानानि तथा विंशिकायां For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy