SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२४ व्यवहार - छंदसूत्रम्-१-१/१४ कुजा व अइपसंगंबहुएसेवितुमाविगडे ।। वृ-अतिपरिणामकेपियदिबहुकेपुमासेषुप्रतिसेवितेष्वेको मासःस्थापनारोपणाद्वयतिरेकेणदीयते, ततः सोप्येवं चिंतयत्, भाषेत वा, यथा यदेतदागमे गीयते आरोवणेत्ति प्रायश्चित्तमिति, ततः स्थापनामात्रं, मात्र शब्दस्तात्पर्यार्थविश्रांतस्तुल्यवाची यदाह, निशीथचूर्णिकृत्, मात्रशब्दस्तुल्यवाचीति, यथाहि स्थापना शक्रादेः शक्रादिलक्षणतात्विकार्थशून्या एवमारोपणाप्यागमे गीयमाना तात्विकार्थशून्या बहुष्वपि मासेषु प्रतिसेवितेष्वेकस्य मासस्य प्रदानात्, यद्वा स्थापनामात्रमारोपणेति ज्ञात्वाऽतिपरिणामोऽतिप्रसंगं कुर्यात्, पुनःपुनस्तत्रैव प्रवर्त्तते; बहुकेष्वपिमासेषु प्रतिसेवितेष्वेकस्य प्रायश्चित्तं लभे इति बुद्धेः, यदिवा अकल्प्यप्रतिसेवनया बहून्मासान् प्रतिसेव्य सर्वान् मासान् नाविकटयेत्, नालोचयेत् किंत्वेकमेव बहुष्वपि मासेषु प्रतिसेवितेष्वेकमासस्तत्त्वतः प्रायश्चित्तमित्यवगमात् ।। तस्मादपिरणामकेऽतिपरिणामकेचसकलमाससफलीकरणाय स्थापनारोपणाप्रकारणप्रायश्चित्तंदातव्यंइहस्थापनायाश्चत्वारिस्थानानितद्यथा, प्रथमंत्रिंशत्स्थानात्मक, द्वितीयं त्रयस्त्रिंशत्स्थानात्मकं, तृतीयं पंचत्रिंशत्स्थानात्मकं चतुर्थमेकोनाशीत्यधिकस्थानशतात्मकमारोपणाया अपिचत्वारि स्थानानितद्यथा, प्रथमं त्रिंशत्रस्थानात्मकंद्वितीयं त्रयस्त्रिंशत्स्थानात्मकं तृतीयं पंचत्रिंशत्स्थानात्मकं चतुर्थमेकोनाशीत्यधिकस्थानकशतप्रमाणमतः सांप्रतमेतेषां चतुर्णा स्थापनास्थानानां चारोपणास्थानानां यानि जघन्यानिस्थानानि तानि प्रतिपादयति । [भा.३५६] ठवणा वीसिय पक्खियपंचिय एगाहिया उबोधव्वा । आरोवणाविपक्खियपंचिय तह पंच एगाही ।। वृ-स्थापनायाः प्रथम स्थाने जघन्ये स्थापना विंशिका विंशतिरात्रिंदिवसप्रमाणा द्वितीये पाक्षिकी तृतीये पंचिका पंचदिवसात्मिका चतुर्थे च एकाहिका एकाहमात्रा; आरोपणापि प्रथमस्थाने जघन्या पाक्षिकी द्वितीये पंचिका पंचदिनप्रमाणा तृतीयेपि पंचिका चतुर्थे एकाहिका सर्वजघन्यान्येतानि स्थापनारोपणास्थानानि ।। आहच चूर्णिकृत् । । एयाणिसव्वजहन्नगाणिठवणारोवणा ठाणाणिइति; इह न ज्ञायते, कस्मिन् जघन्येस्थापनास्थाने किंजघन्यस्थापनास्थानं भवति,तत्परिज्ञानार्थमिदमाह [भा.३५७] वीसाए अद्धमासं पक्खे पंचाहमारोहिज्जा हि । पंचाहे पंचाहंएगाहेचेवएगाहं ।। वृ- विंशिकायां विंशिकारूपे जघन्ये स्थापनास्थाने जघन्यमारोपणास्थानमर्धमासमारोहयेत्, स्वबुद्धावारोपयेत्, जानीयादित्यर्थः ।। तथा पक्षे पक्षप्रमाणेजघन्ये स्थापनास्थाने पंचाहपंचाहप्रमाणं जघन्यमारोपणास्थानं, तथा पंचाहे पंचाहप्रमाणे जघन्येस्थापनास्थाने पंचाहप्रमाणमेव जघन्यमारोपणास्थानमेकाहे एकदिनप्रमाणे जघन्ये स्थापनास्थाने जघन्यमारोपणास्थानमेकाहमेव, एकदिनप्रमाणमेव; संप्रति प्रथमेस्थापनामेकाहे एकदिनप्रमाणे जघन्ये स्थापनास्थाने जघन्यमारोपणास्थानमंकाहमेव, एकदिनप्रमाणमेव;संप्रतिप्रथमेस्थापनास्थाने या जघन्यास्थापना, याच उत्कृष्टा तांप्रतिपादयति । [भा.३५८] ठवणा होइ जहन्ना वीसइराइंदियाइंपुन्नाई। पणठंचेव सयंठवणा उक्कोसिया होति ।। वृ- प्रथम स्थापनास्थाने जघन्या स्थापना भवति, पूर्णानि परिपूर्णानि विंशतिरात्रिंदिवसप्रमाणेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy