SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उद्देशक : 5: १, मूलं : १४, [ भा. ३४७] १२१ दशदशेत्यादिना इहैकसंयोगे भंगाः पंच साक्षात् सूत्रे एव दर्शिता इति नोक्ताः, सामर्थ्यात्त्ववसंया स्ततोऽयमर्थः । पंच पंञ्च दश दश पंचक इति तेम्योऽवसेयाः यथावसातव्या स्तथा प्रागेवोक्ताः । । अव अनेगा तो एयाओ इति । अथवा न केवलमेतावत्य एवैताः प्रतिसेवना, किंत्वन्या सामपि भावादनेका एता दृष्टाः, ताश्चान्याः प्रतिसेवना इमाः । जे भिक्खू पंचराइंदियं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स पंचराईदियं मासिवं, एवं दश पंचदश विंशति पंचविंशति रात्रिंदिवेष्वपि सूत्राणि वक्तव्यानि एवमेव पंचसूत्राणि बहुशः शब्दाभिलापनाभिधातव्यानि ।। तदनंतरं तृतीयसंयोगसूत्रं षड्विंशतिसूत्रात्मकं वक्तव्यं ततश्चतुर्थे संयोगसूत्रं षड्विशतिसूत्रात्मकं बहुशः शब्दविशेषितमेवमेतानि सामान्यतो द्वाषष्टिः सूत्राणि भणित्वा तदनंतरमुद्घातानुद्घातमिश्रमूलोत्तरदर्पकल्पैः प्रागुक्तप्रकारेण तावत् सूत्राणि वक्तव्यानि यावदष्टौ सहस्राणि चत्वारि शतानि द्वात्रिंशदधिकानि परिपूर्णानि भवंति, ।। अत्र पंचकादीनि मासिकद्वैमासिकादिभिः सह न वारयितव्यानि यत उपरि पंचसातिरेकसूत्रं वक्ष्यति ।। तत्रच सातिरेकता पंचकादिभिरिति पुनरुक्तता स्यादिति सांप्रतमेतेषां सूत्राणामर्थावगमेनोत्कलितप्रज्ञः सन् शिष्यः पृच्छति; [ भा. ३४८ ] हमने बहुसो मासियाई सेवितुं बढइ उवरिं, तह हेठ्ठा परिहायइ दुविहं तिविहं च आमंति ।। बृ - इह मासिक द्वैमासिकादिप्रायश्चित्तापत्तिः, प्रतिसेवक परिणामानुरूपा, ततोहं मन्ये चिंतयामि, यथा येन प्रकारेण बहूनिमासिकानिप्रतिसेव्य कदाचित् मासिकमेव प्रायश्चित्तमापद्यते । । मंदाध्यवसायेन प्रतिसेवनात् कदाचिदुपरि वर्द्धते, तद्यथा कदाचित् द्वैमासिकं तीव्रेणाध्यवसायेन प्रतिसेवनायाः करणात् त्रैमासिकं वा, यावत् षाण्मासिकं वा कदाचिदतिदुष्टाध्यवसायेन प्रतिसेवनात् छेदं वा कदाचिन्मूलं वा यावत् कदाचित् पारांचितं वा; तथा तेन प्रकारेणाधस्तादपि परिहीयते हानिमुपगच्छति ।। तद्यथा मासिकं प्रतिसेव्य कदाचित भिन्नमासमापद्यते, कदाचित पंचविंशतिरात्रिंदिवं यावत रात्रिंदिवपंचकंटुविहं तिविहं चेति, द्विविधौ प्रकारौ मासलक्षणौ यस्य तत् द्विविधं द्वैमासिकमित्यर्थः । । तदेवं त्रिविधं त्रैमासिकं, च शब्दात्चातुर्मासिकं पांचमासिकं षाण्मासिकंच प्रतीत्योक्तरूपेण प्रायश्चित्तवृद्धिहानी वक्तव्ये, तद्यथा द्वैमासिकं स्थाने प्रतिसेविते कदाचित् तदेव द्वैमासिकमापद्यते कदाचित् त्रैमासिकंकदाचित् चातुर्मासिकमेवं यावत् पारांचितं अधस्ताद्भानिरेवं द्वैमासिकं प्रतिसेव्य कदाचित् मासिकप्रायश्चित्तं लभते, कदाचित् भिन्नमासमेवं यावत् पंचरात्रिदिवं एवं त्रैमासिकं चातुर्मासिक पांचमासिक षण्मासिकेष्वपि भावनीयं । अत्राचार्य आह, आमंति, आम शब्दोऽनुमतौ संमतमेतत् तदस्माकं सर्वमिति भावः । । केन पुन कारणेणं जिनपन्नत्तानि कानि पुन तानि । [भा. ३४९ ] जिन जाणंति उ ताइं चोयग पुच्छा बहु नाउं ।। वृ- शिष्यः प्रच्छति केन पुनः कारणेन मासिकादौ प्रायश्चित्तस्थाने प्रतिसेवितेप्रायश्चित्तस्य वृद्धिहानी भवतः । । आचार्य आह, अत्र कारणानि जिनप्रज्ञप्तानि सर्वज्ञोपदिष्टानि कानि पुनस्तानीति चेदुच्यते । रागद्वेषहर्षादीनि, तथाहि रागाध्यवसायानां चोपर्युपरि वृद्ध्या यदिवा सिंहव्यापादकस्येव पञ्चाद्धर्प वृद्धया मासिक प्रतिसेवनाया मप्युत्तरोत्तर प्रायश्चित्त वृद्धिर्भवति, तथा प्रथमत एव रागाध्यवसायहानितो द्वेषाध्यवसायहानितो वा, यदिवा पश्चात् ।। हा दुगुकयं, हा दुट्टुकारियं दुट्टुअनुमयं चेत्यनुतापकरणतो मासिकप्रतिसेवनायामपि भिन्नमासः, पंचविंशतिर्वा रात्रिंदिवानि एवम धोऽधस्तात् प्रायश्चित्त For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy