________________
१२२
व्यवहार - छेदसूत्रम् - १- १/१४ हानिर्भवति, ततोरागद्वेषहर्षादीन्येव वृद्धिहानिमंतिकरणानि; । । पुनः शिष्यः पृच्छति, ननुयदिप्रायश्चित्त वृद्धि हानिषु रागद्वेषहर्षादीनि वृद्धिहानिमंति करणानि ततस्तानि प्रतिसेवकगतानि परमार्थतो जिना एव तु शब्द एवकारार्थो भिन्नक्रमत्वादत्र संबंध्यते, केवल्यवधिमनःपर्यायज्ञानिचतुर्दशदशनवपूर्विणो जानंति, केवलादिबलात् (भावात्); ये पुनः कल्पप्रकल्पव्यवहारिणस्तं कथं जानंति ? तेषामतिशयाभावात्, अत्राचार्य प्रतिवचनं, तेऽपिजानंति तदुपदिष्टश्रुतज्ञानप्रमाणतस्तथाहि । । तेऽपि वास्त्रयमालोचनां दापयंतः श्रुतोपदेशानुसारेसाऽवबुध्यंते: रागद्वेषाद्यध्यवसायस्थानानां वृद्धिं हानिं चेति, चोयगपुच्छा बहुनाउंति । । बहुशः शब्दविशेषितेषु सूत्रेषु बहुशब्दोऽस्ति, तमर्थतो ज्ञातुं चोदकस्यपृच्छा, यथा भगवन् तेषु सूत्रेषूपात्तस्य बहुशब्दस्य कोर्थ ? इति, आचार्य आह - तिविहं च होति बहुगं, जहन्नयं मज्झियं च उक्कोसं । जहन्नेण तिन्नि बहुगा, उक्कोसो पंच चुलसीया ।।
[ भा. ३५० ]
वृ-त्रिविध बहुकं भवति, तद्यथा जघन्यं मध्यमं उत्कृष्टं च, तत्र जघन्येन त्रीणि बहूनि किमुक्तं भवति, जघन्येन यो मासा बहव उक्ताः, उत्कर्षतः पंचमासशतानि चतुरशीत्यधिकानि एतेषां मध्ये बानि । प्रायश्चित्तस्थानानि चतुरादीनि यावत् पंचशतानि त्र्यशीत्य अधिकानि तानि मध्यमतः । । संप्रति यथा प्रायश्चित्तं दीयते, तथा भणनीयं; तत्र मासादारभ्य यावत् षण्मासास्तावत् स्थापनारीपणा व्यतिरेकेणापि सूत्रेणैव दीयते, ततः पराणि तु यानि सप्तमासादीनि प्रायश्चित्तानि मध्यमानि, उत्कृष्टं यत् प्रायश्चित्तं तत् स्थापनारोपण प्रकारेणैव दीयते, इति तत् प्रतिपादनार्थमिदमाह -
[ भा. ३५१]
ठवणा संचयरासी, माणाइपभूयकित्तिया सिद्धा ।
दिठा निसीह नामे सव्वेवि तहा अनाया
वृ- स्थाप्यते इति स्थापना वक्ष्यमाणेनारोपणाप्रकारेण शुद्धी भूतेभ्यः संचयमासंभ्यो ये शेपा मासास्तेषां प्रतिनियतदिवसपरिमाणतया व्यवस्थापनं; ताभ्यां स्थापनारोपणाभ्यां संचयन-संकलनं संचयः, किमुक्तं भवति ? षण्णां मासानामुपरि प्रतिसेवनायां कृतायां कुतोपि मासात् पंचदश रात्रिंदिवसानि कुतोपि दश कुतोपि पंच गृहीत्वा स्थापनारोपणाविधानेन पण्मासपूरणं संचयः । । तथा रासित्ति एष प्रायश्चितराशिः, कुत उत्पद्यते ? इति वक्तव्यं, तथामानानि प्रायश्चित्तस्य वक्तव्यानि, यथा प्रथम तीर्थकृतस्तीर्थे प्रायश्चित्तमानं संवत्सरः, मध्यमानामष्ट मासाः, चरमस्य पण्मासाः तथा प्रभवः प्रायश्चित्तदाने स्वामिनः केवलिप्रभृतयो वक्तव्याः । । तथा कत्तियासिद्धा; इति कियंतः खलु प्रायश्चित्तभेदाः सिद्धा इति वक्तव्यंः, तथा एते सर्वेपि प्रायश्चित्तभेदा दृष्टा निशीथनाम्नि अध्ययने न केवलमेते, किंतु तथा सर्वेप्यनाचार अतिचार अतिक्रमादयो निशीथनाम्नि दृष्टाः, एष द्वारगाथासंक्षेपार्थः । संप्रति प्रतिद्वारं व्यासार्थो भणनीयस्तत्र यान् प्रति स्थापनारोपणे क्रियेते तानुपदर्शयतिबहुपडिसेवी सोयो, वि अगीतो अविय अपरिणामोवि ।
,
[ भा. ३५२ ]
अहवा अतिपरिणामो तप्पच्चय कारणे ठवणा ।।
बृ- इह प्रायश्चित्तप्रतिपत्तारः पुरुषा इमे तद्यथा, गीतार्थोऽगीतार्थः परिणामकोऽपरिणामकोऽतिपरिणामकश्च, तत्यः प्रायश्चितप्रतिपत्ता बहूनां मासिकस्थानानां प्रतिसेवी एकस्मिन् हि मासिके स्थाने प्रतिसेविते प्रायो न स्थापनारोपणाविधिस्ततो बहुसेवीत्युक्तं सोपि च गीतोऽगीतार्थः ।। गीतार्थे हि प्रायश्चित्तप्रतिपत्तरिच बहुष्वपि मासेषु प्रतिसेवितेषु न स्थापनारोपणे क्रियेते, तस्य गीतार्थतया ताभ्यां
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International