SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११२ व्यवहार - छेदसूत्रम् - १-१ / १० यत् प्रतिसेवितं मासिकादि तस्य परिपूर्नस्य दानेष्वेवं प्रयच्छ्थ, तेषु विषये द्वेष एव, तुः शब्दः एवकारार्थः न च रागद्वेषवंतः परेषां शोधिमुत्पादयितुं क्षमाः सम्यक् प्रायश्चित्तदानविधिरकरणादिति । अत्र सूरिराह एवमित्यादि । अहो चोदक एवमादिमेषु पंचसु सूत्रेषु यावन्मात्रं प्रतिसेवितं तावन्मात्रस्य परिपूर्णस्य दानमगीते अगीतार्थे प्रतिसेवके, यत् पुनर्बहुशः शब्दविशेपितेषु पंचसु सूत्रेषु बहुशः प्रतिसेवितेष्वपि मासिकादिषु स्थानेष्वेकैकेन संख्यांकस्य मासिकादेर्दानं तत् गीतार्थे अयतनासेविनि अयतनया प्रतिसेवके ततो गीतार्थागीतार्थभेदेन प्रतिसेवकस्य भेदादित्थं प्रायश्चित्तविधानमित्यदोषः अत्रैवार्थे दृष्टांतमाह - [भा. ३२६ ] जो जत्तिएण रोगो, समइ तं देह भेसजं वेज्जो; एवागमसुयनाणी, सुज्झइ जेणं तयं दति । वृ- यो रोगो यस्मिन् पुरुषे अल्पो महान्वा पुरुषप्रकृतिमपेक्ष्य यावन्मात्रेण प्रशाम्यति, तस्य पुरुषस्य तत् तावन्मात्रभेषजं वैद्यः प्रयच्छति नाधिकं, एवममुना दृष्टांतप्रकारेण, मकारस्य लोपः प्राकृतत्वात् । आगमसुयनाणीति, ज्ञानिशब्दः प्रत्येकमभिसंबंध्यते, आगमज्ञानिनः श्रुतज्ञानिनश्च यो गीतार्थोऽगीतार्थश्च येन यावन्मात्रेण प्रायश्चित्तेन परिणामवशात् शुध्यति, तस्मै तत्तावत्प्रमाणं प्रायश्चित्तं ददाति ततो यथौचित्यप्रवृत्तेर्न रागद्वेववत्तेति न काचित्क्षतिः, संप्रति वक्ष्यमाणार्थसूचिकामिमां संग्रहणिगाथामाह । [भा. ३२७] सुत्तं चोयग मा गद्दभत्ति कोद्वारतिय दुवेय खल्लाडा; अद्धाणे सेवियंमी सव्वेसिं घेत्तुणं दिनं । वृ- प्रथमतः प्रमाणत्वेन सूत्रमुपन्यसनीयं ततश्चोदकवचनमुत्क्षिप्य मा इति प्रतिपेधो वक्तव्यस्तदनंतरं गर्दभदृष्टांतः ततोऽध्वनि सेवितेऽनेकवारं मासिके परिहारस्थाने तेषां समविपमतया दिवसान् गृहीत्वा दत्तमेकं मासिकं प्रायश्चित्तमित्युक्ते चोदकवचनमुत्क्षिप्य कोष्ठांगास्त्रयं दृष्टांतत्वेनोपन्यस्तव्यं, तदनंतरंच भूयः परवचनमाशंक्य द्वौ खल्वाडौ दृष्टांतौ करणीयाविति गाथाक्षरयोजना, भावार्थं स्वयमेव भाष्यकृद्वक्ष्यते, तत्र सुत्तं चोयग मा इत्येतत् व्याख्यानयन्नाह अवियहुसुत्ते भणियं सुत्तं विसमंति मा भणसु एवं; [भा. ३२८ ] संभव न साहेऊ अत्ता जेनालियं व्बूया । = बृ- अपिचेति रागद्वेषवत्ता भावहेत्वंतरसमुच्चये न आस्तां गीतार्थागीतार्थभेदेनयथौचित्यप्रायश्चित्तदानतो न वयं रागद्वेषवंतोऽपि च अन्यच्च सूत्रमेवंविधेष्वर्थेषु प्रमाणं, सूत्रे बहुनिश्चितं विषमास्वपि प्रतिसेवनासु तुल्यं प्रायश्चित्तं भणितं, ततो न कश्चिद्दोषः एतावता सूत्रमिति व्याख्यातं, अत्र चोदक आह । ननु सूत्रमेव विषमं न समीचीनं परस्परविरुद्धत्वात्, तथाह्यादिमेषु पंचसु सूत्रेषु यावत् प्रतिसेवितं तावत् परिपूर्नस्य दानमुत्तरेषु तु पंचसूत्रेषु बहुशः प्रतिसेवितेष्वपि मासिकादिष्वेकैकसंख्याकस्य मासिकादेर्दानं नच विषमासु प्रतिसेवनासु समं प्रायश्चित्तदातुमुचितमिति । एतावता चोदक इति व्याख्यातमिदानीमेतदेव चोदकवचनमुतक्षिप्यमिति व्याख्यानयति, सुत्तंविसमंतीत्यादि एवमुवदर्शितेन प्रकारेण सूत्रं विषममिति, मा भण मा वादीः, यतः सूत्रस्य अर्थतः कर्त्तारो भगवंतो वीतरागाः सर्वज्ञाः अत्थं भासइ अरिहा इति वचनात् एवं च परमार्थतः आप्ताः क्षीणरागादितया परिपूर्णयथावस्थिताप्तत्वलक्षणसद्भावात् न च तेषामित्थंभूतनामाप्तानां स हेतुः कारणं संभवति, येन ते आप्ता अलीकं ब्रूयुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy