SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १११ उद्देशकः १, मूलं : ५, [भा. ३२४/१] भगवतोवर्द्धमानस्वामिनउत्कृष्टतपः पाण्मासिकं, ततोऽस्यतीर्थेसर्वोत्कृष्टमपिप्रायश्चित्तदानंपण्मासा एवेति, षण्मासिकपरिहारस्थानं प्रतिसेव्य प्रतिकुंचनयाप्यालोचयतो नाधिकमारोपणमतस्त एव षण्मासाः स्थिता उक्ताः । मू. (६) जे भिक्खू बहुसोविमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्समासियं, पलिउंचियं आलोएमाणस्स दोमासियं ।। (एवं) मू.(७) जेभिक्खूबहुसोविदोमासियं - जाव - तेमासियं । मू.(८) जेभिक्खूबहुसोवितेमासियं-जाव- चाउम्मासियं । मू. (९) जे भिक्खू बहुसोविचाउम्मासियं - जाव-पंचमासियं । मू.(१०) जे भिक्खू बहुसोवि पंचमासियं - जाव - आलोएमाणस्स पंचमासियं पलिउचियं आलोएमाणस्सछम्मासियंतेनं परंपलिउचिएवा अपलिउंचिएवातेचेव छम्मासा । वृ.जेभिक्खूबहुसोविमासियं परिहारट्टाणमित्यादियो भिक्षुर्बहुशोपि त्रिप्रभुतिवारानपिआस्तामेकं द्वौ वा वारावित्यपिशब्दार्थः । मासिकंपरिहारस्थानं प्रतिसेव्य आलोचयेत् तस्याप्रतिकुंच्यालोचयतो मासिकमेकंप्रायश्चित्तं, प्रतिकुंच्यालोचयतोद्वितीयोमायानिष्पन्नोगुरुमासोदीयते इति द्वैमासिकंइयमत्र भावना, केनापि गीतार्थेन कारणे अयतनया त्रीन् वारान् बहून् वारान् वा मासिकं परिहारस्थानं प्रतिसेवितमालोचनाकालेचाप्रतिकुंचनयालोचित्तंतस्मै एकमेव मासिकंप्रायश्चित्तं दीयते, नतुयावतो वारान प्रतिसेवना मासिकस्य कृतवान तावंति मासिकानीति कारणप्रतिसेवनायाः कृतत्वात्, अथ प्रतिकुंचनयालोचयति, ततो द्वितीयो मासोमायानिष्पन्नो गुरुर्दीयते । इति द्वैमासिकं, एवं शेषाण्यपि द्वैमासिकादीनि विषयाणि चत्वारि सूत्राणि भावनीयानि, नवरं द्वैमासिकसूत्रे तृतीयो मायानिष्पन्नो गुरुमासो दीयते इति त्रैमासिकं, त्रैमासिकसूत्रे चतुर्थो मायानिष्पन्नो मास इति, चातुर्मासिकं चातुर्मासिकसूत्रेपंचमोमायाप्रत्ययोमासइतिपंचमासिकं, पांचमासिकसूत्रेपष्ठोमायानिष्पन्नोगुरुमास इति षण्मासिकं, ततः षण्मासिके परिहारस्थाने आलोचनाकाले प्रतिकुंचनायामप्रतिकुंचनायां वा त एव स्थिताः षण्मासा इति; अमीषांपंचानामपिसूत्राणां सूचकमिदंगाथायाः पश्चाई । [भा.३२४/२] पंचगमानेयव्वा बहूहिंउक्खडमड्डाहिं वा।। वृ-पंचगमाः सूत्रप्रकारा ज्ञातव्याः । कथमित्याह । बहूहिं इत्यादि । उरकडमड्डा । इति देशीपदमेतत् पुनः पुनः शब्दार्थश्च वारंवारं, ततोयमर्थः । बहुभिवारविशेषता बहुशब्द इति पदविशेषिता इत्यर्थः, । अत्रचोदक आह - [भा.३२५] बहुएसु एगदाने, रागो एक्कक्कदाने दोसो उ। एवमगीते चोयगगीयंमिय अजयसेविम्मि ।। वृ- ननु यूयं न मध्यस्था रागद्वेषकरणात् तथाहि बहुशः प्रतिसेवितेष्वेतेषु पंचसु सूत्रेषु मासिकेषु परिहारस्थानेषु बहुशः प्रतिसेवितेष्वपि एकमेव मासं प्रयच्छथ, द्वैमासिकेषु परिहारस्थानेषु बहुशः प्रतिसेवितेष्वप्येकं द्वैमासिकं, त्रैमासिकेषु परिहारस्थानेषु बहुशः प्रतिसेवितेष्वप्येकं त्रैमासिकं, चातुर्मासिकेषु परिहारस्थानेषुबहुशः प्रतिसेवितेष्वेकंचातुर्मासिकं, पंचमासिकेषुपरिहारस्थानेषु बहुश: प्रतिसेवितेषु एकं पंचमासिकं, एवं बहुकेषु बहुशः प्रतिसेवितेषु मासिकादिषु परिहारस्थानेष्वेकदाने एकैकसंख्याकस्य मासिकादेदनिर्येष्वेवं प्रयच्छथ, तेषु रागः आयेषु पंचसूत्रेषु एकैकदाने एकैकवारं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy