SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ १० व्यवहार -छेदसूत्रम्-१भा.११ अपरिणाकालाइस, अपडिकंतस्स निव्विगइयंत । निव्वीतियं पुरिमड्डो अंबिलखवणाय आवासे ।। वृ-अपरिज्ञा-प्रत्याख्यानपरिज्ञाया अग्रहणंगृहीतायावाभंगः,ततः सूत्रे विभक्तिलोपआर्षत्वात् तथा कालादिषु अप्रतिक्रामतो अव्यावर्तमानस्य प्रायश्चित्तं निर्विकृतिकं, किमुक्तं भवति, यदि नमस्कारपौरुष्यादिदिवसप्रत्याख्यानं वैकालिकंचपानाहारप्रत्याख्यानंन गृह्णाति,गृहित्वा विराधयति, तथा स्वाध्यायं प्रस्थाप्य यदि कालस्य न प्रतिक्रामति, न कालप्रतिक्रमणनिमित्तं कायोत्सर्ग कराती, आदिशब्दात् येषु स्थानेष्वीर्यापथिकया प्रतिक्रमेतव्यं, तेषु चेत् तथा न प्रतिक्रामति, तर्हि प्रायश्चित्तं निर्विकृतमिति, तथा निव्वीतिय इत्यादि आवासे आवश्यके एकादिकायोत्सर्गे सर्वावश्यकाकरणेच यथासंख्यं निर्विकृतिकपूर्वार्धाचाम्लक्षपणानि, इयमत्रभावना आवश्यके यद्येकं कायोत्सर्गनकरोति ततः प्रायश्चित्तंनिर्विकृतिकं, कायोत्सर्गद्वायाकरणेपूर्वार्द्धं, त्रयाणामपिकायोत्सर्गाणामकरणेआचाम्लं, सर्वस्यापिवावश्यकस्याकरणे अभक्तार्थमिति; [भा.१२] जंजस्सच पच्छितं आयरियपरंपराए अविरुद्धं । जोगाय बहु विगप्पाएसोखलु जीयकप्पो।। वृ- यत्प्रायश्चित्तं यस्याचार्यस्य गच्छे आचार्यपरंपरागतत्वेनाविरुद्धं, न पूर्वपुरुषमर्यादातिक्रमण विरोधभाक्, यथान्येषामाचार्याणां नमस्कारपौरुष्यादिप्रत्याख्यानस्याकरणे कृतस्य वा भंगे प्रायश्चित्तमाचाम्लं, तथा आवश्यकगतेककायोत्सर्गाकरणे पूर्वार्द्ध कायोत्सर्ग द्वयाकरणे एकाशनक मित्यादी तथायेयोगाउपधानानिबहुविकल्पागच्छभेदेन बहुभेदाआचार्यपरंपरागतत्वेनचाविरुद्धायथा नागिलकुलवंशवर्तिनांसाधूनामाचारादारभ्ययावदनुत्तरोपपातिकदशाः, तावन्नास्तिआचाम्लं, केवलं निर्विकृतिकेन ते पठंति आचार्यानुज्ञाताश्च विधिना कायोत्सर्ग कृत्वा विकृतीः परिभुंजते, तथा कल्पव्यवहारयोः चंद्रप्रज्ञप्तिसूर्यप्रज्ञप्त्योश्च केचिदागाढं योगं प्रतिपन्ना अपर त्वनागाढमिति, एस खलु जीयकप्पो उइति एष सर्वोपिखलु गच्छभेदेन प्रायश्चित्तभदो योगभेदश्चाचार्यपरंपरागतो जीतकल्पो जीतव्यवहारो वेदितव्यः उक्तो व्यवहारः संप्रति व्यवहारिणः इति द्वितीयं द्वारमभिधित्सुराह[भा.१३] दव्वंमि लोइयाखनु, लंचिल्ला भावतो उमज्झत्था । उत्तरदव्वअगीयागीयावालंचपक्खेहिं ।। वृ- व्यवहारिणश्चतुर्दा तद्यथा नामव्यवहारिणः, स्थापनाव्यवहारिणः, द्रव्यव्यवहारिणी, भावव्यवहारिणश्च,तत्रनामस्थापनेसुज्ञातेद्रव्यव्यवहारिणो द्विधाआगमतोनोआगमतश्च, तत्रागमतो व्यवहारिशब्दार्थज्ञास्ते चानुपयुक्ता, नोआगमतस्त्रिविधाज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्, तत्र ज्ञशरीरभव्यशरीर द्रव्यव्यवहारिणः प्रतीताः, तद् व्यतिरिक्ता द्विविधा लौकिका लोकोत्तरिकाश्च, भावव्यवहारिणोऽपि द्विधा आगमतो नोआगमतञ्च आगमतो व्यवहारिशब्दार्थज्ञास्तत्रैवोपयुक्ताः नोआगमतो द्विधा लौकिका लोकोत्तरिकाश्च तत्र पूर्वार्द्धन नांआगमतो द्रव्यभाव लोकिकव्यवहारिणः प्रतिपादयति, द्रव्ये विचार्यमाणे नोआगमता ज्ञशरीभव्यशरीव्यतिरिक्तालौकिकाव्यवहारिणः खलु लंचिल्लाइति, लंचाउत्कोच इत्यनांतरं तद्वन्तः किमुक्तं भवति ? परलंचामुपजीव्य ये सापेक्षाः संतो व्यवहारपरिच्छेदकारिणस्ते द्रव्यतो लौकिका व्यवहारिणः, भावतो उ मज्झत्थाइति भावतः पुनर्नो आगमतो व्यवहारिणो मध्यस्था मध्य रागद्वेषयोरपांतराले तिष्ठंतीति मध्यस्थाः ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy