________________
पीठिका - [भा. ९]. च तो एवान्योन्यस्य समीपं गंतुमसमर्थावभूतां, तदान्यतरस्मिन् प्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावेसतिधारणाकुशलमगीतार्थमपिशिष्यगूढार्थान्यतिचारासेवनपदानिकथयित्वा प्रेषयति, यथा
पढमस्सय कजस्सय पढमेणपएणसेवियंजंतु ।
पढमे छक्के अभिंत्तरंतु पढमभवेठ्ठाणं ।। अत्रप्रथमंकार्यदर्पः,तत्रप्रथमं पदंदपस्तन्निमित्तंप्रथमंषट्कंव्रतषट्कंतत्राभ्यंतरमंतर्गतंप्रथम स्थानं प्राणातिपात्तः।
पढमस्सय कजस्सय, पठमेणपएणसेवियं जंतु ।
पढमे छक्के अभिंतरंतुबीयं भवेठाणे ।। अत्र द्वितीयंस्थानं मृपावादः, एवमदत्तादानादिष्वपिभावनीयं ।
___ पढमस्सय कज्जस्सय पढमेणपएणसेवियंजतुं ।
बिइए छक्के अभिंतरं, तुपढमंभवेठाणं ।। वृ- अत्र द्वितीयं षट्कं कायषट्कमित्यदि एवं तेन कथितेन आचार्यो द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं परिभाव्यस्वयं वागमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थं प्रज्ञाप्य प्रेषयति, तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारविशुद्धिं कथयति, धारणाव्यवहारो नाम गीतार्थेन संविग्नेनाचार्येण द्रव्यज्ञेत्रकालभावपुरुषान् प्रतिसेवनाश्चावलोक्य यस्मिन्नपराधे यत् प्रायश्चित्तम् अदायि,तत्सर्वमन्यो दृष्ट्वा तेष्वेव द्रव्यादिषु तादृश एवापराधे तदेव प्रायश्चितं ददाति, एष धारणाव्यवहारः, अथवा वैयावृत्त्यकरस्य गच्छोपग्राहिणः स्पर्द्धकस्वामिनो वादेशदर्शनसहायस्य वासंविग्नस्योचितप्रायश्चित्तदानं धारणमेष कोऽर्थः इत्यत आह बहुजणेत्यादिबहुभिर्जन गीतार्थेश्चीर्ण बहुजनाचीर्णभिति,वाउचितमितिवाजीतमितिवाएकार्थं किमुक्तंभवतिबहुजनाचीर्णनामजीतमिति तमेवजीतव्यवहारदर्शयति ।। [भा.१०] दुरमादिसुकल्लाणगंतु विगलिंदिएसुभत्तट्टो ।
परियावणा एतेसिंचउत्थमायंबिला हुंति ।। वृ- दर्दुरो मंडूकस्तदादिषु तत्प्रभृतिषु मकारालाज्ञणिकः प्राकृतत्वात् तिर्यक्पंचेंद्रियेषुजीविताव्यपरोपितेष्वितिशेषः कल्पाणकं त्विति तुशब्दो विशेषणार्थः, स चैतत् विशिनष्टि, पंचकल्पाणकं प्रायश्चित्तं, विगलिंदिएसु भत्तट्ठी इति विकलान्यसंपूर्नानि इंद्रियाणि येषां ते विकलेंद्रियाएकद्वित्रिचतुरिंद्रियास्तत्रव्याख्यानतो विशेषप्रतिपत्तिरित्येकेंद्रिया अनंतवनस्पतिकायिका दृष्टव्याप्रायश्चित्तं भवतः, इयमत्रभावना यदि दर्दुरादीन् तिर्यक्रपंचेंद्रियान् गाढं परितापयति ततोऽभक्तार्थप्रायश्चितमथ विकलेंद्रियान् अनंतवनस्पतिकाप्रभृतीन् गाढ् परितापयति, तत आचाम्लं, उपलक्षणमेतत्, तेनैतदपिजीतव्यवहारानुगमतमवसेयं, यदि दर्दुरप्रभृतीन तिर्यपंचेंद्रियान् मनाक् संघट्टयति तत एकाशनकमथानागाढंपरितापयति,ततआचाम्लं,तथा अनंतवनस्पतिकायिकद्वित्रिचतुरियाणांसंघट्टने पूर्वार्द्धमेतेषामेवानागाढपरितापने एकाशनं, तथा पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां संघट्टने निर्विकृतिकमनागाढपरितापने पुरिमार्दू, अनाढपरितापनेएकाशनंजीविताद्व्यपरोपणेआचाम्लमिति, इदमपिजीतमेवेतिदर्शयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org