SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ 99 . पीठिका - [भा. १३] परलंचोपचारमंतरेणारक्ताद्विष्टाः संतोन्यायैकनिष्ठतया व्यवहारपरिच्छेत्तारस्ते नोआगमतो लौकिकभावव्यवहारिण इति भावः, अधुना लोकोत्तरिकान् नोआगमतो द्रव्यव्यवहारिणः प्रतिपादयति, उतरदव्वअगीया इत्यादि उत्तरे लोकोत्तरे द्रव्ये विचार्यमाणा नोआगमतो द्रव्यव्यवहारिणीऽगीता अगीतार्थाः ते हियथावस्थितं व्यवहारं न कर्तुमवबुध्यंते, ततस्तद्द्रव्यव्यवहारो द्रव्यव्यहार एवं भावस्य यथावस्थितपरिज्ञानलक्षणस्याभावात् द्रव्यशब्दोऽत्राप्रधानवाची, अप्रधानव्यवहारिणस्ते इत्यर्थः, गीयावालंचपक्खेहिं इति, यदिवागीतार्था अपि संतो ये परलंचामुपजीव्य व्यवहारं परिच्छिदंति, तेऽपि द्रव्यव्यवहारिणोऽथवा विना लंचां गीतार्था अपि ये ममायं भ्राता ममायं निजक इति पज्ञेण पज्ञपातेन व्यवहारकारिणस्तेपि द्रव्यव्यवहारिणः मध्यस्थरुपस्य भावस्यासंभवात् संप्रति नोआगमती लोकोत्तरिकान भावव्यवहारिणः प्राह ।। [ भा. १४ ] पियधम्मादढधम्मा, संविग्गा चेव वज्रभीरुअ । सुत्तत्थतदुभयविऊ अनिस्सियववहारकारी य ।। वृ-प्रियो धम्र्म्मो येषां ते प्रियधर्माणः, धर्मे दृढा दृढधर्माः, राजतंतादित्वात् दृढशब्दस्य पूर्वनिपातः, अत्र चतुर्भगिका प्रियधर्माणो नामैकेनो दृढधर्म्मा इति प्रथमो भंगः, नो प्रियधर्माणो दृढधर्म्मा इति द्वितीयः, अपरे प्रियधर्माणो दृढधर्म्माश्चेति तृतीयः, अन्ये नो प्रियधर्माणो नो दृढदर्मा इति चर्तुर्थः, अत्र तृतीयोभंगोऽधिकृतो न शेषा इतिप्रतिपत्त्यर्थं विशेषणांतरमाह, संविग्नः संविग्न नामोत्त्रस्तास्तेच द्विधा, द्रव्यतो भावतश्च, द्रव्यतः संविग्ना मृगास्तेषां यतस्ततो वा बिभ्यतांप्रायः सदैवोत्त्रस्तमानसत्वात्, भावसंविग्ना ये संसारादुत्त्रस्तमानसतया सदैव पूर्वरात्रादिष्वेच्चिंतयंति, किं मे कडं किं च ममात्थिसेसं, किंसक्कणिज्जं न समायरामि इत्यादि, अत्र भावसंविग्नैरधिकारः भावसंविग्नप्रतिपत्यर्थमेव विशेषणांतरमाह, वज्रभीरुअवद्यं पापं, तस्य भीरवः ये चावद्यभीरवस्ते भावसंविग्ना एवेति, वज्जभीरुग्रहणेन भाव संविग्नः प्रतिपत्तिः एते च यथोक्तविशेषणेन विशिष्टा अपि न गीतार्थत्वमृते भावव्यवहारकारिणो भवतीति, गीतार्थत्वप्रतिपत्त्यर्थमाह; सुतत्थतदुभयविऊसूत्रंच अर्थश्च तदुभयं चेतितच्च तत् सूत्रार्थलज्ञणं, उभयंच तदुभयं च सूत्रार्थतदुभयानितानि विदंतीति सूत्रार्थतदुभयविदः, किमुक्तं भवति ? सूत्रचिंतायां सूत्रमर्थचिंतायामर्थं, तदुभयचिंतायां च तदुभयं, ये विदंति, ते सूत्रार्थतदुभयविद इह सूत्रार्थवेदने चतुर्भगिका, सूत्रविदो नामैको नो अर्थविदः, नो सूत्रविदोऽर्थविदः २ अपरे सूत्रविदो अर्थविदोपि, ३ अन्ये नो सूत्रविदोनाप्यर्थविदः अत्र तृतीभंगेनाधिकारस्तत्रापि सूत्रवेलायां सूत्रविद्भिरर्थवेलायामर्थविद्भिस्तदुभयवेलायां तदुभयविद्भिरिति, सूत्रार्थतदुभयग्रहणं ।। अनिस्सियववहारकारी य इति निश्रारागः निश्रा संजाता अस्येतिनिश्रितो, ननिश्रितोऽनिश्रितः सचासौ व्यवहारश्च अनिश्रितव्यवहारस्तक्तरणशीला अनिश्रितव्यवहारकारिण न रागेण व्यवहारकारिण इति भावः एकग्रहणे तज्जातीयस्यापि ग्रहणमितिन्यायादनुपचितव्यवहारकारिण इत्यपिद्रष्टव्यं तत्र उपश्रा नाम द्वेषः उपश्रा संजाता अस्येति उपनितो न उपनितोऽनुपश्रितः स चासौ व्यवहारश्च तत्करणशीला अनुपश्रितव्यवहारकारिणः न द्वेषेण व्यवहारकारिण इत्यर्थः अथवा एषोऽनुवर्त्तितः स न मह्यमाहारादिकमानीय दास्यतीत्यपेज्ञा निश्रा एष मदीयः शिष्यो यदि वा प्रतीच्छकोऽथवामदीयं मात्रादिकुलमेतत् मदीया वा एते श्रावका इत्यपेज्ञा उपश्राशेषं तथैव, अत्रानिश्रितव्यवहारकारिण इति दियुक्तं भवति ? लंचोपचारनिरपेज्ञाव्यवहारकारिणः न रागेण व्यवहारकारिण इति किमुक्तं भवति For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy