SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १०८ व्यवहार - छेदसूत्रम् - १-१/१ ततो ज्ञातव्यमेषो अप्रतिकुंची अमायावी अथ विसदृशं तर्हि ज्ञातव्यमेष परिणामतः कुंची कुटिलो मायावी अथैकं द्वौ वा वारावालोचनादापनेन मायावी अमायावी वा किन्नोपलभ्यते, येन त्रीन् वारानित्युक्तं, उच्यते, उपलभ्यते, परं स्फुटतरोपलब्धिनिमित्तं त्रीन्वारानालोचाप्यते, तस्यापि च प्रत्ययो भवति यथाहं विसदृशभणनेन मायावी लक्षितस्ततो मायानिष्पन्नं मासगुरुप्रायश्चित्तं पूर्वं दातव्यं । तदनंतरमपराधनमित्तिं प्रायश्चित्तमित; अत्रैवार्थे दृष्टांतमाह - भा. ३२१] तिन्निउ वारा जह दंडियंस्स पलिउंचियंमि अस्सुवमा; सुद्धस्स होइ मासो, पलिउंचिइतंचिमंवऽनं ।। वृ- दंडको नामकरणपतिस्तस्य यथा अपन्यायपीडितं करणमुपस्थितं करणमुपस्थितं किं मायाव्येषोऽमायावी चेति पिरज्ञानाय त्रीन् वारान् अपन्यायमुच्चारायितुमभियोग, एवं श्रुतव्यवहारिणोपि अतिचारशल्यपीडितं प्रायश्चित्तव्यवहारार्थमुपस्थिमेषप्रतिकुंचनापरो न वेति परिज्ञानार्थं त्रीन् उच्चारयितुं संरंभः, ततो यदा श्रुतव्यवहरिभिस्त्रिकृत्व आलोचनाप्रदापनेनागमव्यवहारिभिः प्रथमवेलायामप्यागमबलेन तस्य प्रतिकुंचितकौटिल्यं ज्ञातं भवति, तदा तस्मिन् प्रतिकुंचिते ज्ञाते अश्वोपमा अश्वदृष्टांतः क्रियते, यथा आर्य शृणु, तावदिदमुदाहरणं । जहा कस्सइ रणे एगो आसो सव्वलखणसंजुत्तो धावणपवणसमथ्यो, तस्स आसस्स गुणेणं अजेयो, सो राया सव्वे सामंतराइणो आज्ञापयति, ताहे सामंतराइणो अप्पणो सभासु भणंति, नत्थि एरिसो कोइ पुरिसो जो तमवहारितो आनेति, सव्वेहिं भणियं, सो पुरसिपंजरत्थो चिट्ठइ, गच्छइवान पवनो सक्को हरिउं, एगस्स रनो एगेन पुरिसेण भणियं, जइसो मारेयव्वो तो मारेमि, ताहे रना भणियं, मा अम्हं तस्स वा भवर वाहएहत्ति, ततो सो तत्थ गतो, तेन छन्नपदे संठिएण श्लक्ष्णाया इषीकाया अग्रभागे क्षुद्रकीकंटकं प्रोतं कृत्वा दिक्करुयधनुएण मेल्लइ तेन सो आसो विद्धो इषीका अश्वमाहत्य पतिता, रिंगिणिकाकंटको अश्वशरीरेऽनुप्रविष्टः, ततोसौ आसो, तेन अव्वत्तसल्लेण परिहायइ पभूयगुणजोग्गासणमपि चरंतो, ततो वेज्जरस अक्खातो वेज्ज्रेण पिरिचिंतिऊण भणियं; नत्थि अन्नो कोइ रोगो, अवस्समव्वत्तो कोइ सल्लो, ताहे वेज्ज्रेण सो आसो जमगसमगं पुरिसेहिं चिक्खल्लेण आलिंपावितो, ततो जत्थ पढमं सुक्कं दिट्टंतं फालेत्ता अवनीतो सो क्षुद्रकंटकीसल्लो जहा सो आसो ससल्लोन सक्केइ सामंतरायाणी निञ्जिणिउं पुव्वं एवं तुमंपि किरियाकलावं करेंतो वि संजमवुड्डिमकरेमाणो न कम्माणं जयं करेसि, ता सव्वं सम्मं आलोएहि इति, यदि पुनर्न किमपि तस्य प्रतिकुंचितं ज्ञातं भवति तदा नासावश्वदृष्टांतः क्रियते, स्वभावत एव तस्य सम्यगालोचकत्वात् तस्य तु शुद्धस्य मासिकं परिहारस्थानं प्राप्तस्य प्रायश्चित्तं भवति मास इतरस्य तुकृतप्रतिकुंचनस्य तथापन्नमासिकं प्रायश्चित्तमिदंचान्यत्मायानिष्पन्नं मासगुरु इतिगाथार्थः । संप्रति यदुक्तं, जहदंडियस्सेति तद्विभावयति अत्थुप्पत्ती असरिस निवेयणे दंडो पच्छववहारो; इय लोउत्तरियंमिवि, कुंचियभावं तु दंडंति । । [ भा. ३२२ ] वृउत्पद्यते यस्मादिति उत्पत्तिः । अर्थस्योत्पत्तिरर्थश्चोत्पद्यते व्यवहारादिति अर्थोत्पतिव्यवहार उच्यते, तस्यायमर्थोत्पत्तौ करणव्यवहारे असद्दशनिवेदने दंड:, इयमत्र भावना यथा कोऽपि पुरुषोऽपन्यायपीडितो राजकरणमुपस्थितो निवेदयते, हं देवदत्तेनापन्यायेन पीडितः । ततः कारणिकाः पृच्छंति कथमन्यायः संवृत्तः, सोऽकथयत् कथिते करणपतिब्रूते, पुनः कथय, ततो भूयः कथयति, ततः पुनरपि कथय, तत्र यदि तिसृष्वपि वेलासु सदृशं वक्ति, ततो ज्ञायते यथा अनेन यथावस्थितः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy