________________
उद्देशक : १, मूलं : १, [ भा. ३१७]
आर्जवं सम्यग्विभावितं भवति आर्जवं नाम अमायाविता तथा अतिचार पंकमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेन अतिचारपंकप्रक्षालनतो निर्मलताशोधिः तथा दुष्करकरणं दुष्करकारिता तथाहि यत् प्रतिसेवनं तन्न दुष्करं, अनादिभवाभ्यस्तत्वात् यत् पुनरालोचनयति तत् दुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणौव तस्य कर्तुं शक्यत्वात् तथा विणओ इति आलोचयता चारित्रविनयः सम्यगुपपादितो भवति निस्सल्लत्तमिति सशल्य आत्मा निःशल्यः कृतो भवतीति निःशल्यता एते शोधिगुणाः आलोचनागुणा आलोचनाशोधिरित्यनर्थांतरत्वात् अथ कस्य समीपे आलोचना दातव्या उच्यते । आगमव्यवहारिणः श्रुतव्यवहारिणो वा तथाचाह आगमसुयववहारी आगमतो छव्विहो उ बवहारोः
[ भा. ३१८ ]
केवलमनोहिचोद्दसदसनव्वपुव्वी नायव्वो ।
वृ- आगमसुयववहारीति व्यवहारशब्दः प्रत्येकमभिसंबध्यते आलोचनार्हो द्विविधस्तद्यथा आगमव्यवहारी श्रुतव्यवहारी च तत्रागमव्यवहारी षड़विधस्तद्यथा केवली केवलज्ञानी । मनोहित्ति पदैकदेशे पदसमुदायोपचारात् मनः पर्यायज्ञानी अवधिज्ञानी, चोदसदसनवपुब्वी इति पूर्विशब्दः प्रत्येकमभिसंबंध्यते चतुर्द्दशपूर्वी दशपूर्वी नवपूर्वी ज्ञातव्याः एते चागमव्यवहारिणः प्रत्यक्षज्ञानिन उच्यंतेः चतुर्द्दशादिपूर्वबलसमुत्थस्यापि ज्ञानस्य प्रत्यक्षतुल्यत्वात् तथाहि येन यथा योतिचारः कृतस्तं तथा सर्वमेते जानतीति ।
[ भा. ३१९ ]
पम्हुठ्ठे पडिसारण, अपडिवज्जं तयं न खलु सारे । जइ पडिवज्जइ सारे दुविहतियारंपि पच्चक्खी ।
-
Jain Education International
वृ- प्रत्यक्षाप्रत्यक्षज्ञानी आगमव्यवहारीत्यर्थः द्विविधमपि मूलगुणविषयमुत्तरगुणविषयं वातिचारमालोचयतो यत् किमप्यालोचनीयं पम्हुट्ठेत्ति विस्मृतं भवति तस्मिन् विस्मृते प्रतिसारणं करोति यथाऽमुकं तवालोचनीयं विस्मृतमिति, तदप्यालोचयेति, केवलं यदि केवज्ञानादिबलेनैतत् जानाति, यथैव भणितः सन् शुद्धभावत्वात् सम्यक् प्रतिपद्यते, वर्तमानबद्वेति वचनतो भविष्यति वर्त्तमानाभिधानात्प्रतिपत्स्यतेइति तदा स्मारयति, यदिपुनरेतदवगच्छति यथैष भणितोपि सन् न सम्यक् प्रतिपत्स्यतेइति, तदातमप्रतिपद्यमानं अप्रतिपत्स्यमानं न खलु नैव स्मारयति निष्फलत्वात् अमूढलक्ष्यो हि भगवानागमव्यवहारी; अत्र एव दत्तायामप्यालोचनायां यथालोचकः सम्यगावृत्तो ज्ञातस्ततस्तस्मै प्रायश्चित्तं प्रयच्छति, अथ न प्रत्यावृत्तस्तती न प्रयच्छतीति; श्रुतव्यवहारिणः प्राह कप्पपकप्पी उसुए, आलोययावेति तेउ तिक्खुत्तो ।
[ भा. ३२० ]
सरिसत्थमपलिउंची विसरिसपरिणामतो कुंची ।।
१०७
-
वृ- कल्पग्रहणेन दशाश्रुतस्कंधकल्पव्यवहारा गृहीताः प्रकल्पग्रहेणन निशीथः कल्पश्च प्रकल्पश्च कल्पप्रकल्पं, तदेषामस्तीति कल्पप्रकल्पिनः, दशाकल्पव्यवहारादिसूत्रार्थधरास्तु शब्दात् महाकल्पश्रुतमहानिशीथनियुक्तिपीठिकाधराश्च श्रुते श्रुतव्यवहारिणः प्रोच्यंते, ते चालोचकं त्रिः कृत्वस्त्रीन्वारान् आलोचापयंति ते ह्येकंद्वौ वारावालोचिते अनेन प्रतिकुंचनयालोचितमप्रतिकुंचनया वेति विशेषं नावबुध्यते । ततस्त्रीन् वारान् आलोचापयंति कथमिति चेत् उच्यते, प्रथमवेलायां निद्रायमाण इव श्रृणोतिततो ब्रूते निद्राप्रमादं गतवानहमितिन किमप्यश्रौषमतो भूयोप्यालोचय, द्वितीयवारमालोचिते भणति न सुष्ठुमयावधारितमनुपयोगभावादतः पुनरप्यालोचय, एवं त्रिष्वपि वारेषु यदि सध्शार्थमालोचितं
For Private & Personal Use Only
www.jainelibrary.org