SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०६ व्यवहार - छेदसूत्रम् - १-१ /१ सर्वेषामपि च ग्रहाणामात्मीयादुच्चैः स्थानात्यत् सप्तमं स्थानं तत् नीचैः स्थानं । अथवा भावतः प्रशस्ताये सोमग्रहा बुधशुक्रबृहस्पतिशशिन एतेषां संबंधिषु राशिषु एतैरवलोकितेषु च लग्नेषु आलोचयेत्, तथा तिस्रो दिशः प्रशस्ता ग्राह्याः, तद्यथा पूर्वोत्तरा चरंती चरंती नाम यस्यां भगवानर्हन् विहरति सामान्यतः केवलज्ञानी मनःपर्यवज्ञानी अवधिज्ञानी चतुर्दशपूर्वी त्रयोदशपूर्वी यावन्नवपूर्वी, यदिवा यो यस्मिन् युगे प्रधान आचार्यः सवा यया विहरति एतासां तिसृणां दिशामन्यतमस्या दिशोभिमुख आलोचनार्होऽवतिष्ठते तस्येयं सामाचारी । [ भा. ३१५ ] निसज्जासति पडिहारिय, किइकम्मं काउ पंजलुक्कुडुओ; बहुपडिसेवरिसा सुय अनुन्ना वेउं निसिंज्जगतो । वृ- आत्मीयकल्पैरपरिभुक्तैराचार्यस्य निषद्यां करोति । असति आत्मीयकल्पानामभावे अन्यस्य सत्कान् प्रातिहारिकान् कल्पान् गृहीत्वा करोति । कृत्वा च यद्याचार्यः पूर्वाभिमुखो निषीदति, तत आलोचको दक्षिणत उत्तराभिमुखो अवतिष्ठते, अथाचार्य उत्तराभिमुखो निषन्नाः । तत आलोचको वामपार्श्वे पूर्वाभिमुखस्तिष्ठति, चरंतीं वा दिशं प्रत्यभिमुखो भवति ततः कृतिकर्म्म द्वादशावर्त्तं वंदनकं दत्वा प्रबद्धोंजलिर्येन स प्रांजलिः उत्सर्गत उत्कुडुकः स्थितः सन् आलोचयेत् । यदि पुनर्बहुप्रतिसेवितमस्तीति चिरेणालोचना समाप्तिमुपयास्यति तावंतं च कालमुत्कुटुकः स्थातुं न शक्नोति, यदिवा अर्शोरोगवत उत्कुटुकस्य सतो अर्शासि क्षोभमुपयांति । ततो बहुप्रतिसेवी अर्शःसु च सत्सु गुरुमनुज्ञाप्य निषद्यायामौपग्रहिकपादप्रोंछने वा अन्यस्मिन्वा यथार्ह आसने स्थित आलोचयति, किं पुनस्तदा आलोचनीयं उच्यते चतुर्विधद्रव्यादि तथाचाह - [ भा. ३१६ ] चेयणमचित्तदव्वं जनावय मट्टाणा य होइ खेत्तंमि, दिननिसिसु भिक्खदुभिक्खकाले भावंमि हद्वेयरे । वृ- द्रव्यतश्चेतनं सचित्तमुपलक्षणमेतत् मिश्रं वा अचित्तमचेतनं वा अकल्पिकं यत् प्रतिसेवितं, क्षेत्रतो जनपदे वा, कालतो दिने निशि वा सुभिक्षे दुर्भिक्षे वा भावे हवेयरे इति सप्तमी तृतीयार्थे दृष्टेन इतरेण वा ग्लानेन सता यतनया वा दर्प्पतः कल्पतो वा तत् आलोचयति कथमित्याह - जह बाली जंपतो जंपतो कज्जमकज्जं च उज्जुयं भणइ; तं तह आलोएज्जा मायामयविप्पमुक्कोउ । • यथा बाली मातुः पितुर्वा पुरतो जल्पन् कार्यमकार्यं च ऋजुकमकुटिलं भणति । तथा आलोचकोपि मायामदविप्रमुक्तः सन् तत् आलोचयेत्; यथा क्रजुकभावेनालोचयेत् आलोचनायाश्चेमे गुणाः । [ भा. ३१८ ] लहुयाहलादीजननं अप्पपरनियतिश्रज्जवं सोही । दुक्करकरणं विनाओ सिल्लत्तं वसोहिगुणा । वृ- लघोर्भावो लघुता यथा भारवाही अपहृतभारो लघुर्भवति । तथा आलोचकोप्युद्धृतशल्यो लघुर्भवति इति लघुता । तथाह्लादनं ह्लादिरौणादिक इप्रत्ययः । प्रल्हत्तिस्तस्य जननमुत्पत्तिहर्लादिजननं प्रमोदोत्पाद इति यावत् तथा ह्यतिचारधर्म्मतप्तस्य चित्तस्य मलयगिरिपवनसंपर्केणेव आलोचनाप्रदानेनातीचारघर्म्मापगमतो भवति संविग्नानां परममुनीनां महान् प्रमोद इति, तथा अप्पपरनियत्तित्ति आलोचना प्रदानतः स्वयमात्मनो दोषेभ्यो निवृत्तिः कृतांतं च दष्वा अन्येप्यालोचनाभिमुखा भवंति इति अन्येष्यामपि दोषेभ्यो निवर्त्तन मिति तथा यदतिचारजातं प्रतिसेवितं तत् परस्मै प्रकटता आत्मन For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy