________________
१०४
[ भा. ३०५ ]
दव्यादिचउरभिग्गह, पसत्थमपसत्थे ते दुहेक्केके । अपसत्थे वज्जेउं, पसत्थएहिं तु आलोए ।
वृ- अपराधालोचनायां दीयमानायां द्रव्यादयो द्रव्यक्षेत्रकालभावाश्चत्वारश्चतुःसंख्याका अपेक्षणीया भवंति, तथा अभिग्गहत्ति दिशामभिग्रहः कर्त्तव्यस्ते च द्रव्यादयो दिशश्च एकैकप्रत्येकं द्विधा द्विप्रकारास्तद्यथा, प्रशस्ता अप्रशस्ताश्च तत्राप्रशस्तान् द्रव्यादीन प्रशस्ताश्च दिशो वर्जयित्वा प्रशस्तैर्द्रव्यादिभिर्दिग्विशेषैश्च, किमुक्तं भवति ? प्रशस्तेषु द्रव्यादिषु प्रशस्ताश्च दिशोऽभिगृह्य आलोचयेत्, आलोचनां दद्यात् तत्राप्रशस्तद्रव्यादिप्रतिपादनार्थमाह - भग्गधरे कुडेय, रासीय य जे दुमाय अमणुना ।
[ भा. ३०६ ]
तत्थ न आलोएज्जा, तप्पडिवक्खे दिसा तिनि ।
व्यवहार - छेदसूत्रम् - १-१ /१
7
वृ-यत्रस्थंभतुलाकुड्यादीनामन्यतम् किमपि पतितं तत् भग्नग्रहं तत्र तथा कुड्डेसु इति कुड्यग्रहणात् कुड्यमात्रावशेषं तत्र पाठांतरं रुद्देसुय इति तत्र रुद्रेषु रुद्रग्रहेषु तथा राशिषु अमनोज्ञतिलमाषकोद्रवादिधान्यराशिषु ये च द्रुमा अमनोज्ञा निष्प त्रककंट किप्रभृतयोऽमनोज्ञा अप्रशस्तास्तत्र तेष्वप्याश्रयभूतेषु उपलक्षणमेतत् अप्रशस्तासु तिथिषु अप्रशस्तेषु संध्यागतादिषु नक्षत्रेषु अप्रशस्ताश्च याम्यादीर्दिशाभिगृह्य नालोचयेत् किंतु तत्प्रतिपक्षे प्रशस्तद्रव्यादिरूपे आलोचयेत्, तथा प्रशस्ताश्च तिस्रो दिशः पूर्वामुत्तरां चरंतीं चाभिगृह्य आलोचयेत् इदानीममनोज्ञधान्यराश्यादिषु द्रव्यादित्वयोजनामाह - [ भा. ३०७ ] अमनधन्नरासी, अमणुनदुम्मा य होति दव्वंमि ।
भग्गधरे रुद्दऊसर, पवायदड्ढाइ खित्तंमि ।
वृ- अमनोज्ञा धान्यराशयो अमनोज्ञद्रुमाश्च भवंति, द्रव्ये द्रष्टव्याः, भग्नग्रहं प्रागुक्तस्वरूपं, रुद्दत्ति रुद्रग्रह, ऊसरत्ति ऊषरं यत्र तृणादि नोद्गच्छति, च्छिन्नटंकातटीप्रपातः भृगुप्रपातादिकं वा; दग्धं दवदग्धमादिशब्दात् विद्युत्हतादिपरिग्रहः, इत्यादि सर्वं क्षेत्रे द्रष्टव्यं तत्र यत् अमणुनदुमा य हाँति दव्वंमीत्युक्तं तदेतत् व्याख्यानयति -
[ भा. ३०८ ]
निपत्त कंटइल्ले, विज्जुहते खारकडुयदड्डेय । अयतउयतवसीसग, दव्वे धम्माय अमणुणा ।
वृ- निःपत्रा स्वभावयतः पत्ररहिताः करीरादयः, कंट किनो बदरीबब्बूलप्रभृतयः, विद्युद्धता विद्युत्प्रपातभग्नाः, क्षाररसामोरडप्रभृतयः, कटुकाः कटुकरसा रोहिणीकुटजलिंबादयः, दग्धाश्च दवदग्धाः, एतान् द्रुमान् अमनोज्ञान् जानीहीतिवाक्यशेषः । न केवलममनोज्ञकुधान्यराशयोऽमनोज्ञा द्रुमाश्च द्रव्ये वर्जनीयाः किंतु अवस्त्रपुताम्रसीसकराशयो द्रव्ये वर्जयितव्याः । अमणुना धन्नरासी इति व्याख्यानयति, अमनोज्ञानि धान्यानि पुनश्च शब्दः पुनरर्थे अमनोज्ञधान्यराशयः, संप्रति कालतो ये दिवसा वर्जनीयास्तानाह - [ भा. ३०९ |
'पडिकुट्ठेल्लगदिवसे, वज्जेज्जा अट्ठमिंच नवमिं च छट्टि च चउत्थिं च बारसिं दोणहंपि पक्खाणं ।
वृ- इह इल्लप्रत्ययः पाकृते स्वार्थे प्रतिकृष्टा एव प्रतिकुष्टेल्लकाः । तेच दिवसाश्च प्रतिकुष्टेल्लकदिवसाः प्रतिषिद्धा दिवसास्तान् वर्जयेत्, तानेव नामत आह द्वयोरपि शुक्लकृष्णरूपयोः पक्षयोरष्टमी नवमी षष्ठी चतुर्थी द्वादश च एता हि तिथयः शुभप्रयोजनेषु सर्वेष्वपि स्वभावत एव प्रतिकूलास्ततो वर्जनीयाः,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International