________________
उद्देशक : १, मूलं : 9, [भा. ३०१]
१०३
कर्त्तव्या, राज्ञश्च वादिविषये कारणं दीपयंत्यचार्याः, यथाहं कारणवशेन दिनमेकमक्षणिको भविष्यामीति एवं चेन्न कुर्वति तदा प्रायश्चित्तं चतुर्गुरुकाः । तदेवमुक्तः क्षपणोपसंपद्विधिरिदानीं ज्ञानार्थं दर्शनार्थं चारित्रार्थं चोपसंपद्यमानः प्रतीच्छितो नियमादालोचनां दापयितव्यः, स च दाप्यमानः कथमालोचनां ददाति, उच्यते ।
[ भा. ३०२ |
आलोयणं तहचेवय, मूलुत्तरे नवरि विगडिए इमं तुः । इत्थं सारण चोयण, निवेयणंतेवि एमेव ।
वृ- यथा संभोगिकानां विहारालोचनायां मूलगुणातिचारविषये उत्तरगुणातिचारविषये च भणितं, तथात्रापि भणितव्यं, किमुक्तं भवति उपसंपद्यमानोप्यालोचनां ददानः पूर्वं मूलगुणतिचारान् प्रागुक्तक्रमेणालोचयति, पश्चादुत्तरगुणानिति नवरमयं विशेषः, विकटिते आलोचिते एकत्र स्थितान् विभिन्नस्थितान्वा प्रत्येकं वंदित्वा इदं भणति,
आलोयणा मे दिन्ना इच्छामि सारणवारणचोयणंति तेप्येवमेव । प्रतिभणंतों निवेदनं कुर्वति अज्जो अम्हे सारेज्जा, वारेज्जा, चोइज्जा इति ।। गता उपसंपदालोचना सांप्रतमपराधालोचना ययात्र प्रकृतं
[ भा. ३०३ ]
एमेवय अवराहे किं न ते कया तहिं चिय विसोही । अहिगरणादीसाहति गीयच्छो वा तहिं नत्थि ।
वृ- यथा विहारालोचनायामुपसंपदालोचनायां च त्रिधिर्भणित एवमेव तथैव अपराधालोचनायामपि द्रष्टव्यो, यावत् पृष्टो वा अपृष्टो वा ब्रूते अहमपराधालोचकः समागतः तत आचार्यैवैक्तव्यः किं केन कारणेन ते त्वया तत्रैव स्वगच्छ एव न कृता विशोधिः प्रायश्चित्तांगीकरणेन, एवमुक्ते यदि साधयति कथयति अधिकरणादीनि अधिकरणं तैस्सहजातमादिशब्देत् प्रागुक्तविकृतियोगप्रत्यनीकादिकारणपरिग्रहः अथवा वक्ति तत्र गीतार्थो नास्ति तत्राधिकरणादिष्वविशुद्धिकारणेषु समागत एवं प्रतिभणनीयः ।
( भा. ३०४)
नच्छि इहं पडियरगा, खुलखेत्तं उग्गमविय पच्छित्तं संकियमादीवपदे जहक्कमं ते तहवि भासे ।
वृ- अस्तीति निपातो बहुवचनार्थः प्रतिचारका नाम अपराधापन्नस्य प्रायश्चित्ते दत्ते तपः कृर्वतो ग्लानायमानस्य वैयावृत्त्यकरास्ते इह मम पार्श्वेन संति, खुलक्षेत्रं नाम मंदभिक्षं यत्र वा प्रभूतमुपग्रहकारि घृतादि द्रव्यं न लभ्यते, तादृशमिदं क्षेत्रं तथाविधदानं शुद्धश्रावकाभावत् वयमपि स्तोकेप्यपराधे उग्रं प्रायश्चित्तंदद्मः तथागुरुपारंपर्यसमागमात्, तथा यानि नत्थी संकियसंघाडेत्यादि प्रागुक्तगाथोपन्यस्तानि शंकितादीनि पदानि संभवेन यथाक्रमं तथेति समुच्चये विभाषेत ब्रूयात् यथा प्रायश्चित्तसूत्रमनुसृत्त्य प्रायश्चित्तं दीयते, तदिदानीं विस्मृतं शंकितं जातं न चार्थं स्मरामि, ततः कथं प्रायश्चित्तं प्रयच्छामि, अथवा प्रायश्चित्तं पतिपन्ने सति तत्तपस्त्वयेह कर्त्तव्यं तत्र चेयमस्माकं सामाचारी बहिर्भूमिमात्रमपि संघाटकं विना न गंतव्यं, यदि पुनः कोपि गच्छति ततस्तस्मै प्रायश्चित्तमत्युग्रंददामि इत्येव यथासंभवं शंकितादीनि पदानि बूयात् नतु दद्यादालोचनामिति, यस्तु निर्गमनशुद्ध आगमनेन तु शुद्धोऽशुद्धो वा प्रतीच्छ्यते । तस्यालोचनायां विधिर्वक्तव्यः तत्र यदुक्तमधस्तात् अवराहे दिवसतो पसच्छंमि इति तदिदानीं व्याख्यानयंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org