SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ १०२ तदा प्रायश्चित्तं तदेवाह [ भा. २९८ ] पढमदिनंमि न पुच्छे, लहूओ मासो उ बिइय गुरुओ य, तइयंमि होंति लहुगा, तिण्हं तु अतिक्कमे गुरुगा । वृ- यदि प्रथमे दिने न पृच्छेत्, तर्हि तस्याचार्यस्य प्रायश्चित्तं लघुमासः, द्वितीये गुरुमासः, तृतीये भवंति चत्वारो लघुमासाः त्रयाणां तु दिनानामतिक्रमे चतुर्थादिषु दिवसेषु प्रायश्चित्तं चतुर्गुरुकाश्चत्त्वारो गुरुमासाः, अधुनापवादो भण्यते यदि कार्यादिप्रयोजनवशादास्तामेकं द्वे त्रीणि वा दिनानि षण्मासानपि यावन्न पृच्छति, तथापि न प्रायश्चित्तभाक् तथा चाह - [ भा. २९९ ] कज्जे भत्तपरिण्णा गिलाणरायायधम्मक हवादी, छम्मासा उक्कोसा तेसिं तु वइक्कमे गुरुगा । वृ- कार्ये कुलगणसंघविषये व्यापृतो भवेदाचार्यः तथा केनापि साधुना भक्तपरिज्ञा कृता, तस्य समीपे लोको भूयानागच्छति, तत्राचार्यो धर्म्मकथने व्यापृतः गिलाणत्ति ग्लानप्रयोजने वा व्यापृतः रायाएधम्भकहीति राजा वाधम्र्म्मार्थी प्रतिदिवसमेति, ततस्तस्य धर्मः कथयितव्य इतिधर्म्मकथिकत्वेन व्यापृतः, वादी वा कश्चन प्रबलः समुत्थितः स निगृहीतव्यस्तत एतैः कारणैर्व्यापृतः सन् आचार्योजधन्यत एकंद्वे त्रीणिवा दिनानि उत्कर्षतो यावत् षणमासास्तावदागंतुकं प्रष्टुमालोचनां वा प्रदापयितुंन प्रपारयेत् इत्थमप्रपारणे च दोषाभावस्तेषां षण्मासानां पुनर्व्यतिक्रमे किमुक्तं भवति एण्मासेभ्यः परतोपि यदि न पृच्छति नापि दापयत्यालोचनां, ततः प्रायश्चित्तमाचार्यस्य गुरुकाश्चत्वारो गुरुमासाः अन्ये तु ब्रुवते, षण्मासानां परतो प्रथमदिने न प्रतीच्छत्यालोचनां तदा लघुमासः द्वितीयदिनेप्यप्रतीच्छने मासगुरु, तृतीयदिने चतुर्लघु, दिनत्रयातिक्रमे चतुर्थादिषु दिनेष्बप्रतीच्छने च चतुर्गुरुका इति; कार्यादिप्रयोजनवशतो व्यापृत इमां यतनां कुर्यात् । [ भा. ३०० ] अन्नेण पडिच्छावे, तस्सासति सयं पडिच्छते रत्तिं, उत्तरवीमंसाए खिन्नोय, निसिंपि न पडिच्छे । व्यवहार - छेदसूत्रम् - १-१ /१ , वृ- यद्यन्यो गीतार्थस्तस्याचार्यस्य समीपेऽस्त्यालोचनार्हस्तर्हिस संदेशनीयो, यथायमापृच्छ्यतामालोचनां वा प्रतीष्यतामिति, अथ नास्त्यन्यो गीतार्थस्तदा तस्य गीतार्थस्यासति भावप्रधानीयं निर्देशोऽभावे स्वयमेव रात्रौ प्रतीच्छत्यालोचनां, अथ यथा श्रीगुप्तेन षडुलूकः षण्मासान् यावत् वादं दत्वा निर्जित एवं दीर्घकालावलंबिनि विवादे रात्रावप्युत्तरविमर्शेन प्रत्युत्तरचिंतया खिन्नः श्रांतो निशायामपि न प्रतीच्छतीत्यालोचनां दत्तामिति अथवा अत्राप्यपवादस्तमेवाह - दोहिं तिहिं वादिनेहिं जइ विज्जइ इत्तो न होइ पच्छितं; तेन परमणुन्नवण, कुलाइररन्नोव दीवंति । [ भा. ३०१ ] Jain Education International वृ- यदि षण्णां मासानां परतो द्वाभ्यां त्रिभिर्वा दिनैः परप्रवादी नियमात् पराजेष्यते, कुलादिकार्यं वा समाप्तिमुपयास्यतीत्येवं निश्चीयते, ततस्तेष्वपि दिनेष्वप्रच्छने आलोचनाया अप्रतीच्छेन वा न प्रायश्चित्तं भवति अथ ज्ञायते तेष्वप्येकद्वित्र्यादिषु दिवसेषुन कुलादिकार्यसमाप्तिर्भविष्यति, न च परवादी जेष्यते तदा षण्माससमाप्तोवेव राज्ञः समीपे गत्वा ज्ञापनीयं यथाहं दिनमेकमऽक्षणिको भविष्यामि, नान्यथा गृह्णिथा इति कुलादिकार्येष्वपि कुलादीन्यनुज्ञापयति तथा चाह तेनपरमित्यादि तेनेत्यव्ययं, तत इत्यर्थे ततः षण्मासेभ्यः परं कार्यापरिच्छित्तौ संभाव्यमाना या अनुज्ञापना कुलादेर्दिनमेकं यावत् For Private & Personal Use Only www.jainelibrary.org
SR No.003325
Book TitleAgam Suttani Satikam Part 21 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy