________________
पीठिका - [भा. ३५१]
धारयन् मण्डल्यां न शृणोति, किन्तु यदा पर्षदः श्रोतार उत्थिता भवन्ति तदा तेषामनुभाषमाणानां पार्श्वे उपविश्य शृणोति तस्मै न तादव्यम् ।। अधुना जाहक ष्टान्तमाहपाउं थोवं थोवं, खीरं पासाणि जाहगो लिहइ । एमेव जियं काउं, पुच्छइ मइमं न खेएइ ॥
[भा. ३५२]
वृ- जाहकः स्तोकं स्तोकं क्षीरं पीत्वा पार्श्वणि लेढि । एवमेव यो मतिमान् पूर्वगृहीतं जितं कृत्वा पृच्छति न पुनः खेदयति गुरुम्, तस्मिन् जाहकसदृशे दातव्यम् ।। गोध्ष्टान्तमाह[भा. ३५३ ] अन्नो दुज्झिहि कल्लं, निरत्ययं किं वहामि से चारिं । चउचरणगवी य मया, अवण्ण हानी य मरुयाणं ॥
९१
[भा. ३५४] मा ने हुज्ज अवन्नो, गोवज्झा मा पुणो य न दलिज्जा । वयमवि दोज्झामो पुन, अनुग्गहो अन्नदूढे वि ॥
[भा. ३५५] सीसा पडिच्छगाणं, भरो त्ति ते वि य हु सीसगभरो त्ति । न करिति सुत्तहाणी, अन्नत्थ वि दुल्लहं तेसिं ॥
वृ- एकेनाविरतेन चतुर्णां चरणानां चतुर्वेदब्राह्मणानां गौर्दत्ता । ते तां दिने दिने वारकेण दुहन्ति । तत्र यदा यस्य वारको भवति स तदा चिन्तयति-सुपोषितामप्येनां कल्येऽन्यो धोक्ष्यति, ततः पोषणफलं नैवाहमुपजीविष्यामीति किमिति निरर्थिकामस्य (मस्याः) चारिं वहामि ? | एवं चिन्तयित्वा दुग्ध्वा तां मुञ्चति । तत एवं सा चारिरहिता मृता । तेषां च मरुकाणामवर्णो जातः, यथा -मी गोहन्तार इति । पुनर्दानहानिश्च जाता, मारयन्तीति कृत्वा न कोऽपि तेभ्यः पुनर्गोदानं ददातीत्यर्थः । एवं गोस्थानीया आचार्या, धिग्जातिस्थानीयाः शिष्याः, ते चिन्तयन्तिवयं ध्रुवाः, प्रतीच्छकाः सूत्रार्थं गृहीत्वा गन्तुकामाः, ततस्ते करिष्यन्ति प्रत्युपेक्षण- भिक्षापादधावनानि । प्रतीच्छका अपि चिन्तयन्ति- एष शिष्याणां भारः, वयं सत्रा ऽर्थी गृह्णीमः । एवं शिष्यैः प्रतीच्छकैश्चाचार्यस्याक्रियमाणे स सर्वमात्मनाकरोति । ततो वातिक-पैत्तिक - श्लेष्मिकै रोगातङ्कैर्गृहीतः किं ददातु ?, एवं सूत्रा - ऽर्थहानिर्जाता । अन्यत्रापि च गच्छान्तरे तेषां श्रुतज्ञानं दुर्लभम् । तथैकेनाविरतेन चतुर्णां चतुर्वेदानामेका गौर्दत्ता । तत्र यदा यस्य वारको भवति स तदा धार्य भूयो गां न दद्यात्, अन्यच्च वयं पुनरपि स्ववारके धोक्ष्यामः, अन्यदुग्धेऽपि च मम महाननुग्रहः । एवं चिन्तयित्वा प्रभूतं तृणपानीयं ददाति । ईद्दशेष्वाचार्यभक्तिमत्सुदातव्यम् ॥ सम्प्रति भेरीष्टान्तमाह
[ भा. ३५६ ] कोमुइया संगाम्रियया य दुब्भूइया य भेरीओ।
कण्हस्स आसि तइया, असिवोवसमी चउत्थी उ॥
वृ- बारवती नगरी । कण्हो वासुदेवो । तस्स तिण्णि भेरीतो कोमुइया संगामया दुब्भूतिया य गोसीसचंदनमईयातो देवयापरिग्गहियातो । चउत्थी असिवोवसमणी, सा जत्थ तालिजइ तत्थ छम्मासे सव्वरोगा पसमंति जो तं सद्दं सुणति ।। अक्षरगमनिका कृष्णस्य तदा तिस्रो भेर्य आसन्, तद्यथा-कौमुदिकी सङ्गामिकी दुर्भूतिका च । चतुर्थी अशिवोपशमनी ॥ तस्या उत्पत्तिमाह[भा. ३५७ ] सक्क पसंसा गुणगाहि केसवा नेमिवंद सुनदंता । आसरयणस्स हरणं, कुमारभंगे य पुययुद्धं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org