________________
बृहत्कल्प-छेदसूत्रम् - १
केवलं यद् अनुपयुक्तस्याचार्यस्य कथनम् अथवा परः श्रोता अपात्रं तद् आसाद्य गुणा अपि सर्पमुखे प्रविष्टं दुगधमिव दोषीभवन्ति ॥ सम्प्रति हंस दृष्टान्तभावनामाह[भा. ३४७] अंबत्तणेन जीहाइ कूइया होई खीरमुदगम्मि । हंसो मोत्तूण जलं, आपियइ पयं तह सुसीसो ॥
९०
वृ- परिपूणकप्रतिपक्षो हंसः । तथाहि - हंसस्य जिह्वा अम्ला, ततो जिह्वाया अम्लत्वेन तत्सम्पर्कतः क्षीरमुदते कूचिका भवन्ति, ततो जलं मुक्त्वा यत् 'पयः' क्षीरं कूचिकाभूतं तद् आपिबति । एवं यो गुणान् गृह्णाति दोषान् त्यजति तस्य हंससमानस्य दातव्यम् ॥
महिषध्ष्टान्तमाह
[भा.३४८] सयमवि न पियइ महिसो, न य जूहं पिबइ लोलियं उदयं । विग्गह-विकहाहि तहा, अथक्क पुच्छाहि य कुसीसो ॥
वृ-यथा महिषस्तृषापीडितः पानीयं पास्यामीति बुध्या कञ्चिद् ह्रदमवतीर्णः । स प्रथममेव प्रविष्टः सन् सर्वमुदकं लोलयति-कलुषयति तावद् यावत् कर्दमीभवति । तच्च तथाकर्दमीभूतं नात्मना पिबति नापि यूथं पिबति । एवं यः शिष्यः प्रारब्धे व्याख्याने विग्रहेण यथा अमुको भिक्षायां न गच्छति अमुक एतादृशस्तादृश इति विकथाभिर्नानाप्रकाराभि यदि वा 'अथक्क पृच्छाभि' अप्रस्तावपृच्छाभिराचार्यं तथा परिश्रमयति यथा न तस्य कथयति नाप्यन्यस्य गणस्य स एष कुशिष्यस्तस्मै न कथनीयम् ॥ यस्तु महिषसध्शप्रतिपक्षो मेषसदृशस्तस्मै कथनीयम् । तथा चाह[भा. ३४९] अवि गोपयम्मि वि पिबे, सुढिओ तनुयत्तणेण तुंडस्स ।
न करेइ कलुस तोयं, मेसो एवं सुसीसो वि ॥
वृ-‘मेषः' एडकः सः ‘अपि’ सम्भावनायां गोष्पदेऽपि 'तोयं' पानीयं जानुभ्यामधो निपत्य "सुढिओ "त्ति सुष्ठातो भूत्वा 'तुण्डस्य' वदनस्य तनुत्वेन पिबति, न च तथा पिबन् तत् तोयं कलुषं करोति । एवं यः सुशिष्य आचार्यमनुत्तेजयन् गृह्णाति स मेषसद्दश इति तस्मै दातव्यम् ॥
सम्प्रति मसकदृष्टान्तमाह
[ भा. ३५० / १] मसगो व्व तुदं जच्चाइएहि निच्छुटभई कुसीसो वि ।
वृ-यथा मसगो लगन्नेव दुःखापयति, ततः पश्चादुड्डाप्यते । एवं यः शिष्यो जात्यादिभिस्तुदतिहीलयति स तुदन् निष्काश्यते, तादृशस्य दानेऽसङ्घडादिदोषप्रसङ्गात् ।
[भा. ३५०/२] जलुगा व अदूमिंतो, पियइ सुसीसो वि सुयनाणं ।। वृ-मसकप्रतिपक्षो जलौका, यथा सा शरीरे लग्ना अदुःखापयन्ती रुधिरमापिबति, उकतञ्चदंसो तिक्खनिवारण, अफअफणो वहमिच्छई । जलुगा वि तदेवत्थं, मद्दवेणोपसप्पई ||
एवं यः शिष्य आचार्यम् ‘अदूनयन्' अदुःखापयन् श्रुतज्ञानमापिबति तस्मिन् सुशिष्ये दातव्यम् । अधुना बिडालीष्टान्तमाह
[भा. ३५१] छड्डेउं भूमीए, खीरं किल पिवइ मुद्ध मज्जारी ।
परिसुट्ठियाण पासे, सिक्खइ एवं विनयभंसी ॥
वृ- 'मुग्धा' अपण्डिता मार्जारी किल क्षीरं भूमौ छर्दयित्वा पिबति । एवं यो गौरवमात्मनो
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International