________________
८६
बृहत्कल्प-छेदसूत्रम् -१
प्रत्यवस्थानम् । एतेषु च सूत्र - पदादिषु पञ्चसु मध्ये आद्ये द्वे पदे सूत्रेऽन्तर्भवतः, 'उपरितनानि त्रीणि' पदार्थप्रभृतीनि पदानि अर्थे भवन्ति ॥ अथ पदस्य किं परिमाणम् ? अत आह[भा. ३२९] अत्थवसा हवइ पयं, अत्थो इच्छियवसेण विन्नेओ । इच्छा य पकरणवसा, पगरणओ निच्छओ सत्थे ॥
वृ-यत्रार्थोपलब्धिस्तत् पदम्, अतोऽर्थवशाद्भवति पदम् । अर्थस्य किं परिमाणम् ? अत आह-अर्थ ईप्सितवशेन विज्ञेयः, इच्छावशेनेत्यर्थः । इच्छायाः किं प्रमाणम् ? अत आहइच्छा च 'प्रकरणवशात्' प्रकरणानुरोधत इच्छायाः परिमाणम् । प्रकरणस्य च निश्चयः 'शास्त्रे शास्त्रानुसारतः ।। गतं लक्षणद्वारम् । एवंगुणयुक्तस्य सूत्रस्य कोऽर्ह ? इत्यनेन सम्बन्धेन तदर्हद्वारमापतितम् । तत्र सोऽर्ह उण्डिकादिदृष्टान्तस्योपनयभूतस्तत आह
[भा. ३३०] उंडिय भूमी पेढिय, पुरिसग्गहणं तु पढमओ काउं । एवं परिक्खियम्मी, दायव्वं वा न वा पुरिसे ॥
वृ- नवे नगरे निवेश्यमाने प्रथमतः 'उण्डिका' या यस्य योग्या भूमिस्तस्य तत्प्रदानार्थं मुद्रा पात्यते, ततो भूमिशोधनम्, तदनन्तरं पीठिका । एवमत्रापि प्रथमतः पुरुषग्रहणं कृत्वा तदनन्तरं परीक्षा कर्त्तव्या किमयमपरिणामकः ? अतिपरिणामकः ? परिणामको वा ? इति । एवं पुरुषे परीक्षिते दातव्यं न वा ? अपरिणामिकेऽतिपरिणामिके वा न दातव्यं परिणामिके दातव्यमिति गाथासङ्क्षेपार्थः । साम्प्रतमेनामेव विवरीषुराह
[भा.३३१] अभिनवनगरनिवेसे, समभूमिविरेयणऽक्खरविहन्नू । पाडेइ उंडियाओ, जा जस्स सठाणसोहणया ।
वृ- अभिनवे नगरे निवेश्यमाने प्रथमतो भूमि परीक्ष्यते । परीक्ष्य च तस्याः समभूमिविरेचनं विधीयते। तदनन्तरमक्षरविधिज्ञो या यस्य योग्या भूमिस्तस्य तस्याः प्रदानार्थं 'उण्डिकाः’ अक्षरसहिता मुद्रिकाः पातयति । ततः स्वस्थानस्य शोधनता-शोधनम् ॥
[भा. ३३२] खणणं कोट्टण ठवणं, पेढं पासाय रयण सुहवासो । इय संजम नगरुंडिय, लिंगं मिच्छत्तसोहणयं ॥
-
वृ- ततः स्वस्याः स्वस्याभूमेः खननम् । तदनन्तरं द्रुघणैरिष्टकाशकलानि प्रक्षिप्य तेषां कुट्टनम् । ततस्तस्योपरि इष्टकानां स्थापनम्, तच्च यावत् पीठम् । ततस्तस्य पीठकस्योपरि प्रासादकरणम् । तदनन्तरं तेषां प्रासादानां रत्नैरापूरणम् । ततः सुखेन वासः परिवसनम् । एष दृष्टान्तः, अयमर्थोपनयः-भूमिग्रहणस्थानीयं पुरुषग्रहणम्, शुद्धं पुरुषं परीक्ष्य तस्य प्रव्रज्यादानमित्यर्थः। ततः ‘इति' एवमुक्तप्रकारेण नगरस्थानीये संयमे स्थाप्यते । तत उण्डिकास्थानीयं रजोहरणादि लिङ्गं दीयते । तदनन्तरं मिथ्यात्वस्याज्ञानस्य च कचवरस्थानीयस्य शोधनम् ॥ [भा. ३३३] वय इट्टगठवणनिभा, पेढं पुन होइ जाव सूयगडं । पासाओ जहि पगयं, रयणनिभा हुंति अत्थपया
वृ- ततः शोधयित्वा मिथ्यात्वं समूलमुत्खत्य स्थिरीकरणनिमित्तं सम्यक्त्वद्रुघणैर्यच्छेषमवतिष्ठते मिथ्यात्वपुद्गलात्मकं तत् कुट्टयित्वा भस्मच्छन्नाग्निमिव कृत्वा तत उपरि इष्टकास्थापननिभानि व्रतानि दीयन्ते । तत आवश्यकमादिं कृत्वा यावत् सूत्रकृतं तावत् पीठं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International