________________
पीठिका - [भा. ३२४] स्वस्थानं परस्थानं वा निष्पद्यते । तत उक्तं प्राक् “स्वस्थान-परस्थाने वस्तुतो भवतो निष्पने"
गतं सूत्रद्वारम् । अधुना पदद्वारमाह[भा.३२५] नाम निवाउवसग्गं, अक्खाइय मिस्सयं च नायव्वं ।
पंचविहं होइ पयं, लक्खणकारेहिं निद्दिठं ॥ वृ- ‘पञ्चविधं' पञ्चप्रकारं पदं ‘लक्षणकारैः' पदलक्षणविद्भिः 'निर्दिष्टम् आख्यातम् । तद्यथा-अश्व इति नामिकम्, खलुइति नैपातिकम्, परिइत्यौपसर्गिकम्, पचतिइत्याख्यातिकम्, संयत इति मिश्रम् ॥ उक्तं पदम्। अधुना पदार्थद्वारमाह[भा.३२६] होइ पयत्थो चउहा, सामासिय तद्धिओ य धाउकओ।
नेरुत्तिओ चउत्थो, तिण्ह पयाणं पुरिल्लाणं॥ वृ-'त्रयाणांपूर्वाणां पदानां' नाम-निपातौपसर्गिकाणांचतुर्विधः पदार्थो भवति। तद्यथासामासिकः तद्धितो धातुकृतो नैरुक्तश्च चतुर्थः । तत्र सामासिकः सप्तधा
दंदे य बहुव्वीही, कम्मधारय दिगूयए चेव ।
तप्पुरिस अव्वईभावे, एगसेसे य सत्तमे ॥ तत्र द्वन्द्वो यथा-दन्ताश्च औष्ठौ च दन्तोष्ठौ । बहुव्रीहिर्यथा-फुल्ला इमम्मि गिरिम्मि कुडयकयम्बा सो इमो गिरी फुल्लकुडय-कयंबो । कर्मधारयः-श्वेतः पटः श्वेतपटः । द्विगुः-त्रीणि मधुराणि त्रिमधुरम् । तत्पुरुषो-वने हस्ती वनहस्ती । अव्ययीभावः-गङ्गाया समीपं उपगङ्गम् । एकशेषो यथा-पुरुषश्च पुरुषश्च पुरुषश्च पुरुषाः, एवं वृक्षा इत्यादि ॥ . उक्तःसामासिकः । सम्प्रति तद्धित उच्यते-सोऽष्टप्रकारः। उक्तञ्च
कम्मे सिप्पे सिलोगेय, संजोग-समीवओ य संजूहे ।
ईसरियाऽवच्चेण य, तद्धियअत्थो उ अट्ठविहो॥ तत्र कर्मतो यथा-तृणहारकः । शिल्पतो यथा-तन्तुवायः । 'श्लोकतः' श्लाघातो यथाश्रमणः संयत इत्यादि ।संयोगतो यथा-राज्ञः श्वसुरः । समीपेयथा-गिरिसमीपेनगरम् ।संव्यूहतो यथा-मलयवतीकार इत्यादि । ऐश्वर्यतो यथा-राजा युवराज इत्यादि । अपत्यतः-तीर्थकरमाता चक्रवर्त्तिमाता इत्यादि । उक्तस्तद्धितः । सम्प्रति धातुकृत उच्यते-भू सत्तायाम् परस्मैभाषा इत्यादि । नैरुक्तः-मह्यां शेते महिष इत्यादि । आद्यानां त्रयाणां पदानामेष पदार्थः ।
सम्प्रत्याख्यातिकपदस्य मिश्रपदस्य च पदार्थमाह[भा.३२७] कारगकओ चउत्थे, मिस्सपदे मिस्सओ चउत्थो उ ।
सामासिओ सत्तविहो, हवइ पयत्थो उ नायव्यो । वृ-'चतुर्थे' आख्यातिके पदे पदार्थ कारककृतः' क्रियाकृतः । मिश्रपदे मिश्रपदार्थः । तत्र यः सामासिकः पदार्थ स सप्तविधो ज्ञातव्यः, सच प्रागेवोपदर्शितः ।। उक्तः पदार्थः ।
इदानीमाक्षेपं प्रसिद्धिं चाह[भा.३२८] अक्खेवो सुत्तदोसा, पुच्छा वा तत्तो निन्नयपसिद्धी।
आयपया दो सुत्ते, उवरिल्ला तिन्नि अत्थम्मि॥ वृ-आक्षेपो नाम यत्सूत्रदोषाउच्यन्ते पृच्छा वा क्रियते । ततः तदनन्तरं निर्णयप्रसिद्धिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org