________________
८४
बृहत्कल्प-छेदसूत्रम् -१चेद् अत आह-उत्सर्गाद् अध्वा-ऽवमौदर्यादिषु विनिपतितं' प्रच्युतं ज्ञानादिसालम्बमपवादो धारयति॥
ननु स उत्सर्गादपवादं गतः सन् कथं न भग्नव्रतो भवति? उच्यते
[भा.३२०] धावंतो उव्वाओ, मग्गन्नू किं न गच्छइ कमेणं । -
किं वा मउई किरिया, न कीरये असहुओ तिक्खं ।। वृ-सर्वोऽप्यस्माकं प्रयासो मोक्षसाधननिमित्तम्, स च मोक्षं तथा साधयति नेतरथा । दृष्टान्तोऽयम्-यथा कोऽपि पाटलिपुत्रंगच्छन्धावन् ‘उद्वातः' श्रान्तो भवति तदा किं न ‘क्रमेण' स्वभावगत्यमार्गज्ञः सन् गच्छति? गच्छत्येवेति भावः, केवलं चिरेण तत् पाटलिपुत्रमवाप्नोति, यदि पुनः श्रान्तोऽपि धावति तदा अपान्तराल एव म्रियते; एवमत्राप्यध्वादौ ताशे कार्येऽपवादमप्रतिपद्यमानो विनश्यति। किं वा रोगिणस्तीक्ष्णां क्रियामसहमानस्य मृद्वी क्रिया न क्रियते ? क्रियत एवेत्यर्थः । यथैतद् एवमत्राप्युत्सर्गात् परिभ्रष्टस्यापवादगमनम् ।।
ननु किमुत्सर्गादपवादप्रसिद्धि ? उतापवादादुत्सर्गस्य ? तत आह[भा.३२१] उन्नयमविक्ख निन्नस्स पसिद्धी उन्नयस्स निन्नाओ।
इय अन्नुन्नपसिद्धा, उस्सग्गऽववायमो तुल्ला ।। वृ- यथोन्नतमपेक्ष्य निम्नस्य प्रसिद्धि निम्नाचोन्नतस्य प्रसिद्धि 'इति' एवम् 'अन्योऽन्यप्रसिद्धौ' उत्सर्गादपवादोऽपवादादुत्सर्ग प्रसिद्ध इति द्वावप्युत्सर्गा-ऽपवादौ तुल्यौ।
तदेवमुत्सर्गापवादद्वारमुक्तम् । इदानीमल्पद्वारमुच्यते । शिष्यः पृच्छति-भगवन् ! किमुत्सर्गा अल्पे ? उतापवादाः? उच्यते-तुल्याः । यत आह[भा.३२२] जावइया उस्सग्गा, तावइया चेव हुंति अववाया।
जावइया अववाया, उस्सग्गा तत्तिया चेव॥ वृ-यावन्त उत्सर्गास्तावन्तोऽपवादाः, यावन्तोऽपवादास्तावन्त उत्सर्गा। कथम् ? इति चेद् उच्यते-सर्वस्यापि प्रतिषेधस्यानुज्ञाभवाद् द्वयेऽपि तुल्याः॥
सम्प्रति “सेय-बलवंते" इति द्वारद्वयं व्याचिख्यासुराह[भा.३२३] सहाणे सट्ठाणे, सेया बलिणो य हुंति खलु एए।
सट्ठाण-परट्ठाणा, य हुंति वत्थूतो निष्फन्ना ।। वृ-शिष्यः पृच्छति-किमुत्सर्ग श्रेयान् बलवाँश्च ? उतापवादः ? । सूरिराह-एते खलु' उत्सर्गा अपवादाश्च स्वस्थाने स्वस्थाने श्रेयांसो बलिनश्च भवन्ति, परस्थाने परस्थानेऽश्रेयांसो दुर्बलाश्च । अथ किं स्वस्थानम् ? किं वा परस्थानम् ? अत आह-स्वस्थान-परस्थाने वस्तुतो निष्पन्ने ।। अथ वस्त्वेव न जानामि, किं तद् वस्तु ? इति उच्यते-पुरुषो वस्तु। तथा चाह[भा.३२४] संथरओ सट्टाणं, उस्सग्गो असहुणो परट्ठाणं ।
इय सट्ठाण परं वा, न होइ वत्थू विना किंचि ।। वृ-'संस्तरतः' निस्तरत उत्सर्ग स्वस्थानम् अपवादः परस्थानम्, ‘असहस्य' असमर्थस्ययः संस्तरीतुंन शक्नोति तस्यापवादः स्वस्थानमुत्सर्गपरस्थानमिति। एवममुना प्रकारेणपुरुषलक्षणं वस्तु विना न किञ्चत् स्वस्थानं परस्थानं वा, किन्तु पुरुषो वस्तु संस्तरति न वेति अतः पुरुषात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org