________________
पीठिका - [भा. ३१६] परियाहरे।" तथा-'आमगंधा' इति “सव्वामगंधंपरिन्नाय निरामगंधो परिव्वए" तथा-'आरं'ति "आरं दुगुणेणं पारं एगगुणेणं' इति । यच्छेकः सः ‘सागारिकं मैथुनं परियाहरे' परिवर्जयति। तथाआमम्-अविशोधिकोटिः, गन्धं-विशोधिकोटिः,परिज्ञा द्विविधा-ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञा च, तत्र ज्ञपरिज्ञया सर्वमामगन्धं परिज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय निरामगन्धः सन् परि-समन्तात् व्रजेत्-अप्रतिबद्धो विहरेदित्यर्थः । आरः-संसारस्तं 'द्विगुणेन' रागेण द्वेषेण च परिवर्जयति, पारं' मोक्षस्तमेकेन गुणेन-राग-द्वेषपरिहारलक्षणेन साधयति ।अथकः संज्ञासूत्रेण गुणः ? इत्यत आह-“उवयारे"त्यादि पूर्वार्द्धम् । संज्ञावचनं हि कचिज्जुगुप्सितेऽर्थे प्रयुज्यमानं तद्विषयमुपचारवचनं भवति । उपचारवचनेन च भण्यमाने तस्मिन् जुगुप्सितेऽर्थ न निष्ठुरतेति अनिष्ठुरता।तथाकार्येसमापतिते स्त्रयाः-साध्व्याः सूत्रदानमाहुः, ततस्तस्याः साधुसमीपेपठन्त्याः सुखेनालापको दीयते, अन्यथा व्यक्तमभिधीयमाने कथा भिन्ना भवति, ततः सा 'नित्थक्का' निर्लज्जाजायते।याशेच कार्येसाध्वी साधुसमीपेपठति तदुपरिष्टाद्वक्ष्यते । तेन संज्ञासूत्रमिष्यते।।
कारगसूत्रं नाम यथा-आहाकम्मन्नं भुंजमाणे समणे निग्गंथे कइ कम्मपगडीओबंधंति? गोयमा !आउवजाओसत्त कम्मपगडीओ।सेकेणद्वेणं भंते! एवं वुच्चइ? इत्यादिप्रज्ञप्तेरालापकः। ननु सर्वज्ञप्रामाण्यादेवैतच्छ्रद्धीयते-यथाऽऽधाकर्मभुञ्जान आयुर्वर्जानां कर्मप्रकृतीनांबन्धकः, ततः कस्मादुच्यते “केनार्थेन भदन्त! एवमुच्यते" इत्यादि ? तत आह[भा.३१७] सव्वन्नुपमाणाओ, जइ विय उस्सग्गओ सुयपसिद्धी।
वित्थरओऽपायाण य, दरिसणमिइ कारगं तम्हा ॥ वृ- यद्यपि सर्वज्ञप्रामाण्यात् 'उत्सर्गतः' एकान्तेन श्रुतस्य सर्वस्यापि प्रसिद्धि तथापि विस्तरतोऽपायानां दर्शनं स्यात् ‘इति' तस्मादधिकृतार्थप्रसिद्धिकारकं “से केणटेण" मित्यादि सूत्रमुपन्यस्यते ।। इदानीं प्रकरणसूत्रमाह[भा.३१८] पगरणओ पुण सुत्तं, जत्थ उ अक्खेव-निन्नयपसिद्धी।
नमि-गोयकेसिज्जा, अद्दग-नालंदइज्जा य॥ वृ-प्रकरणतः सूत्रं नाम यत्र स्वसमय एवाक्षेप-निन (ण)यप्रसिद्धिरुपवर्ण्यते, यथानमिप्रव्रज्या गौतमकेशीयं आर्द्रकीयं नालन्दीयमिति॥तदेवमुक्तंसंज्ञादिभेदतस्त्रिप्रकारंसूत्रम्। अधुनोत्सर्गाऽपवादभेदतो द्विविधमुच्यते । तत्रोत्सर्गसूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीणं पक्केतालपलंबेभिन्नेऽभिन्नेवापडिगाहित्तए ।अथवा त्रिविधंसूत्रम्-उत्सर्गसूत्रमपवादसूत्रमुत्सपिवादसूत्रं च । तत्रौत्सर्गिकमापवादिकं चोक्तम् । उत्सर्गापवादसूत्रं पुनरिदम्-नो कप्पइ निग्गं थाणवा निग्गंधीण वा अन्नमन्नस्स मोयं आदित्तए वा आयमित्तए वा अन्नत्थागाढेहिं रोगायंकेहि। अथवा चतुर्विधं सूत्रम्-औत्सर्गिकमापवादिकमुत्सर्गापवादमपवादौत्सर्गिकम् । तत्राऽऽद्यानि त्रीण्युक्तानि चतुर्थमपवादौत्सर्गिकमिदम्, यथाचम्मं मंसंच दलाहि मा अट्ठियाणि । आह उत्सर्ग इत्यपवाद इति वा कोऽर्थः? उच्यते[भा.३१९] उज्जयसग्गुस्सग्गो, अववाओ तस्स चेव पडिवक्खो।
उस्सग्गा विनिवतियं, धरेइ सालंबमववाओ। वृ-उद्यतः सर्ग-विहार उत्सर्गः । तस्य च' उत्सर्गस्य प्रतिपक्षोऽपवादः । कथम् ? इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org