SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -१ सुप्तादीनि वक्ष्यमाणार्थानि भवन्ति ॥ तान्येवार्थतो व्याख्यानयति[भा.३१२] पासुत्तसमं सुत्तं, अत्थेनाबोहियं न तंजाणे । लेससरिसेण तेनं, अत्था संघाइया बहवे॥ वृ-यथा द्वासप्ततिकलापण्डितो मनुष्यः प्रसुप्तः सन् न किञ्चित्तासां कलानां जानाति, एवमर्थेनाबोधितंन किञ्चिदर्थविशेषंजानाति ।यदात्वर्थेन प्रबोधितं भवति तदासर्वेषांतदन्तर्गतानां भावानां ज्ञायकमुपजायते, यथा स एव पुरुषःप्रबोधितस्तासांकलानाम्, अतःप्रसुप्तसमंसूत्रम्। अथवा श्लेषसशंतत् सूत्रं, तथाहि-तेन ‘श्लेषसशेन' तन्तुसहक्षेण बहवोऽर्था सङ्घातितास्ततः श्लेषसध्शम् ।। सम्प्रति 'अर्थस्य सूचनात्' इति व्याख्यानयति[भा.३१३] सूइज्जइ सुत्तेणं, सूई नट्ठा वि तह सुएणऽत्यो । सिव्वइ अत्थपयाणि व, जह सुत्तं कंचुगाईणि॥ वृ-यथा सूची नष्टा ‘सूत्रेण सूच्यते' सूत्रेणैवोपलक्ष्यते तथा श्रुतेनार्थः सूच्यत इति अर्थस्य सूचनात्सूत्रम्। एतेन 'सूचयति' इति निरुक्तंव्याख्यातम्।अधुना ‘सीव्यति' इतिव्याख्यानयतियथासूत्रं कञ्चुकादीनि सीव्यति एवमर्थपदान्यनेकानिसीव्यतीत्यर्थःस्य सीवनात्सूत्रम्। “सुवति त्ति" अस्य व्याख्यानमाह[भा.३१४] सूरमणी जलकंतो, व अत्थमेवं तु पसवई सुत्तं । वणियसुयंध कयवरे, तदनुसरंतो रयं एवं ॥ वृ-यथा सूर्यकान्तोऽग्नौ जलकान्तो जले दीप्ति श्रवति एवं सूत्रमर्थं प्रसवतीति सूत्रम् । अनुसरणं द्विधा-द्रव्यतो भावतश्च। तत्र द्रव्यतो वणिक्सुतोऽन्धः कचवरे दृष्टान्तः एकस्य वणिजः पुत्रोऽन्धः । वणिजा चिन्तितम्-मा एष वराकोऽनिर्विष्टं भक्तं भुङ्काम्, 'परिभवस्थानमन्यथा गाढतरं भविष्यति' इति द्वौ स्तम्भौ निहत्य तत्ररज्जुर्बद्धा । ततः सोऽन्धपुत्रो रज्ज्वनुसारेण कचवरं बहिस्त्याज्यते ।। एष दृष्टान्तोऽयमर्थोपनयः-वणिक्स्थानीय आचार्यः, अन्धस्थानीयाः साधवः, रज्जुस्थानीयं सूत्रम्, कचवरस्थानीयमष्टप्रकारं कर्म । तथा चाह-‘एवं' वणिक्सुतान्धदृष्टान्तप्रकारेण 'तत्' सूत्रमनुसरन् ‘रजः' अष्टप्रकारं कर्मकचवरस्थानीयमपनयति, ततः सरणात् सूत्रम् । सुष्ठुक्तं सूक्तमिति नाम तु सुप्रतीतमिति न व्याख्यातम् ।। अथ तत् सूत्रं कतिविधम् ? इत्यत आह[भा.३१५] सन्नाय कारगे पकरणे यसुत्तं तु तं भवे तिविहं । उस्सग्गे अववाए, अप्पे सेए य बलवंते॥ वृ-सूत्रं त्रिविधम्, तद्यथा-सञ्जज्ञासूत्रकारकसूत्रं प्रकरणसूत्रं च ।अथवा द्विविधं सूत्रम्"उस्सग्गे"त्ति औत्सर्गिकं “अववादि"त्तिआपवादिकम्।तत्र किंउत्सर्गाअल्पे? उतअपवादाः? तथा उत्सर्गोऽपवादो वा स्वस्थाने श्रेयान् बलवाँश्च, अपरस्थानेऽबलवाँश्चाश्रेयाँश्च । एष द्वारगाथासमासार्थः। साम्प्रतमेनामेव विवरीषुः प्रथमतः संज्ञासूत्रमाह[भा.३१६] उवयार अनिदुरया, कज्जित्थीदाणमाहु नित्थक्का । जे छेए आमगंधादि, आरं सन्ना सुयं तेनं ।। वृ- यत् सामयिक्या संज्ञया सूत्रं भण्यते तत् संज्ञासूत्रम् । यथा-"जे छेए से सागारियं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy