________________
पीठिका - [भा. ३०७]
८१
इत्यौपम्ये । द्रुगतौ, द्रवति-गच्छति अघ उपरिचेति द्रुमः, औणादिको मक्प्रत्ययः, तस्य द्रुमस्य। पुष्प विकसने, पुष्पन्ति-विकसन्तीति पुष्पाणि, अच्, तेषु। भ्रमअनवस्थाने, भ्राम्यति निरन्तरमिति भ्रमरः, औणादिकोअरःप्रत्ययः । पापाने,आङ मर्यादायामभिविधौवा, तस्य तिपिआपिबतीति रूपम् । रस आस्वादने, रस्यते-आस्वादयत इति रसः, कर्मण्यौणादिकः अकारप्रत्ययः, तम् । अत्रव्यस्तपदत्वाद्विग्रहाभावः, तथाचाह-“तदत्यहेऊ अविग्गहोचेव" तेषां-पदानामर्थस्य हेतुः 'अविग्रह एव' न विग्रहद्वारेणात्र पदार्थ इत्यर्थः । अत्र चालना-नोदक आह-'कः' कीग्लक्षणो द्रुम उक्तः? । सूरिराह-भण्यते, पत्राद्युपेतः' पत्र-पुष्प-फलादिसमन्वितः । उक्तञ्छ
पत्र पुष्प-फलोपेतो, मूल-स्कन्धसमन्वितः ।
एष वृक्ष इति ज्ञेयो, विपरीतमतोऽन्यथा ।। [भा.३०८] तदभावे न दुमुत्ति य, तदभावे वि स दुमुत्ति य पइन्ना ।
तग्गुणलद्धी हेऊ, दिटुंतो होइ रहकारो॥ वृ- यदि पत्राद्युपेतो द्रुमस्तर्हि यदा परिशटितपाण्डुपत्रादिद्रुमो भवति तदा तस्याद्रुमत्वं प्राप्नोति, एषाचालना।अत्र प्रत्यस्थानम्-'तदभावेऽपिस द्रुमः' इति प्रतिज्ञा, 'तद्गुणलब्धित्वात्' इति हेतुः, दृष्टान्तो रथकारः; यथा हि रथकारस्य रथकरणे प्रयत्नमकुर्वाणस्यापि रथकर्तृत्वं तद्गुणलब्धित्वात्, एवं परिशटितपाण्डुपत्रस्यापि द्रुमस्य तद्गुणलब्धेरनिवृत्तत्वादव्याहतं द्रुमत्वमिति । सम्प्रति मतान्तरेणान्यथा व्याख्यालक्षणमाह[भा.३०९] सुत्तं पयं पयत्थो, पयनिक्खेवो य निन्नयपसिद्धी ।
पंच विगप्पा एए, दो सुत्ते तिन्नि अत्थम्मि। वृ-प्रथमतोऽस्खलितादिगुणोपेतंसूत्रमुच्चारणीयम्।ततः पदं' पदच्छेदो विधेयः । तदनन्तरं पदार्थ कथनीयः। ततः ‘पदनिक्षेपः' पदार्थनोदना। तदनन्तरं निर्णयप्रसिद्धिः' निर्णयविधानम्। पदविग्रहः पदार्थेऽन्तर्भूतः । एवमेते पञ्च 'विकल्पाः' प्रकारा व्याख्यायां भवन्ति । अत्र सूत्रं पदमिति द्वौ विकल्प सूत्रे प्रविष्टौ । 'त्रयः' पदार्थ-तदाक्षेप-निर्णयप्रसिध्यात्मका अर्थ इति ॥ यदुक्तमधस्तात् “सूत्रनिरुक्तमुपरि वक्ष्यामि" इति तद्द्वक्तुकाम आह[भा.३१०] सुत्तं तु सुत्तमेव उ, अहवा सुत्तं तु तं भवे लेसो।
अत्थस्स सूयणा वा, सुवुत्तमिइ वा भवे सुत्तं ॥ वृ-अर्थेन अबोधितंसुप्तमिव सुप्तप्राकृतशैल्या सुत्तं । अथवा सूत्रनामतद्भवति 'श्लेषः' तन्तुरूपमित्यर्थः, तथा (यथा) तन्तुना द्वे त्रीणि बहूनि वा वस्तूनि एकत्र संहन्यन्ते एवमेकेनापि सूत्रेण बहवोऽर्था सङ्घात्यन्त इति सूत्रमिव सूत्रम् । अर्थस्य सूचनाद्वा सूत्रम् । सुष्ठु उक्तमिति वा सूक्तम्, प्राकृतशैल्या तु सुत्तमिति ।। सम्प्रति सूत्रशब्दस्यैव निरुक्तान्याह[भा.३११] नेरुत्तिया तस्स उ, सूयइ सिव्वइ तहेव सुवइ त्ति ।
अनुसरति त्ति य भेया, तस्स उ नामा इमा हुति॥ वृ-'तस्य' सूत्रस्य निरुक्तान्यमूनि-सूचयतीति सूत्रम्, अथवा सीव्यतीति सूत्रम, यदि वासुवतीति सूत्रम्, अथवाऽनुसरतीति सूत्रम् इति निरुक्तस्य भेदाः। नामानि पुनस्तस्य ‘इमानि' | 186
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org