________________
बृहत्कल्प-छेदसूत्रम् -१वर्षाराने हेमन्ते वोह्यमानं काललघु।। तदेवं यतः स्खलिताधुच्चारणे प्रायश्चित्तमाज्ञा-ऽनवस्थामिथ्यात्व-विराधनाश्च दोषाः तस्मात् सूत्रं स्खलितादिदोषररहितमुच्चारणीयं पठनीयं च । एवं च पठितस्य सूत्रस्य व्याख्या कर्तव्या । तत्र व्याख्यालक्षणमाह[भा.३०२] संहिया य पयं चेव, पयत्थो पयविग्गहो।
चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥ वृ-संहिता १ पदं २ पदार्थं ३ पदविग्रहः ४ चालना ५ प्रसिद्धिश्च ६ । एवं षड्विधं' षटप्रकारं व्याख्यालक्षणं विद्धि' जानीहि ॥ तत्र संहितेति कोऽर्थः ? इत्याह - [भा.३०३] सन्निकरिसो परो होइ संहिया संहिया व जं अत्था ।
लोगुत्तर लोगम्मि य, हवइ जहा धूमकेउ ति॥ वृ-यो द्वयोर्बहूनां वा पदानां ‘परः' अस्खलितादिगुणोपेतो विविक्ताक्षरो झटिति मेघाविनामर्थप्रदायी ‘सन्निकर्ष' सम्पर्कः स संहिता। अथवा यद् अर्थासंहिता एषासंहिता। सा द्विधा-लौकिकी लोकोत्तरा च । तत्र लौकिकी 'यथा धूमकेतुः' इति, यथा इति पदं धूम इति पदं केतुरिति पदम्॥ [भा.३०४] तिपयंजह ओवम्मे, धूम अभिभवे केउउस्सए अत्थो ।
को सुत्ति अग्गि उत्ते, किंलक्खणो दहण-पयणाई। वृ-'यथा धूमकेतुः' इति संहितासूत्रं त्रिपदम् । सम्प्रति पदार्थ उच्यते-यथेत्यौपम्ये, धूम इत्यभिभवे, “धूविघूनने" इतिवचनात्, केतुरित्युच्छ्रये। एषपदार्थःघूमः केतुरस्येतिधूमकेतुरिति पदविग्रहः । कोऽसौ ? इति चेत् अग्नि । एवमुक्ते पुनराह- किंलक्षणः ? । सूरिराह-'दहनपचनादि' दहन-पचन-प्रकाशनसमर्थोऽर्चिष्मान् । अत्र चालनांप्रत्यवस्थानं चाह[भा.३०५] जइ एव सुत्त-सोवीरगाई वि होति अग्गिमक्खेवो ।
नविते अग्गि पइना, कसिणग्गिगुणनिओ हेऊ॥ [भा.३०६] दिटुंतो घडगारो, न विजे उक्खेवणाइतक्कारी ।
जम्हा जहुत्तहेऊसमन्निओ निगमणं अग्गी॥ वृ- यदि नाम दहन-पचनादिस्तर्हि शुक्ल-सौवीरकादयोऽपि दहन्ति, करीषादयोऽपि पचन्ति, खद्योत मणिप्रभृतयोऽपि प्रकाशयन्ति ततस्तेऽप्यग्निर्भवितुमर्हन्ति, एषः 'आक्षेपः' चालना ।अत्र प्रत्यवस्थानमाह-"नैव शुक्लादयोऽग्निर्भवन्ति' इति प्रतिज्ञा, 'कृत्स्नगुणसमन्वितत्वात्' इति हेतुः, दृष्टान्तोघटकारः, यथा हिघटकर्ता मृत्पिण्ड-दण्ड-चक्र-सूत्रोदक-प्रयलहेतुकस्य घटस्य कात्स्नपेभिनिर्वर्तकः, अभिनिवृर्तकः, अभिनिवर्तकः । एवमत्रापि यो दहति पचति प्रकाशयति च यथास्वगतेन लक्षणेनासाधारणः स एव यथोक्तहेतुसमन्वितः परिपूर्णोऽग्निर्न शुक्लादय इति निगमनम् ।। सम्प्रति लोकोत्तरे संहितादीनि दर्शयति[भा.३०७] उत्तरिए जह दुमाई, तदत्थहेऊ अविग्गहो चेव ।
को पुन दुमुत्ति वुत्तो, भण्णइ पत्ताइउववेओ। वृ-लोकोत्तरे “जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं" इति संहिता । अत्र पदानियथा इति द्रुम इति पुष्पेष्विति भ्रमर इति आपिबतीति रसमिति । अधुना पदार्थ उच्यते-'यथा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org