________________
८७
पीठिका - [भा. ३३३] भवति । ततो यकाभ्यां प्रकृतं तौ कल्प-व्यवहारौ प्रासादस्थानीयौ दीयेते । तत्रार्थपदानि यानि तानि रत्ननिभानि ।। गतं तदर्हद्वारम् । अधुना पर्षद्दारम्, यस्याः कल्प-व्यवहारौ दीयेते सा शैलघनादिभिदृष्टान्तैः परीक्षितव्येति तानेव दृष्टान्तानाह[भा.३३४] सेलघण कुडग चालिणि, परिपूमग हंस महिस मेसे य ।
मसग जलूग बिराली, जाहग गो मेरि आभीरी।। वृ-प्रथमः शैलघनेन दृष्टान्तः । तत्रशैल इति मुद्गप्रमाणः पाषाणो मुद्गशैलः, घनः पुष्करसंवतको महामेघः। तद्दष्टान्तभावनाएवम्-मुग्गसेलस्स पुक्खलसंवट्टगस्सयमहामेहस्स विसंवाओ । मुद्गसेलगो भणइ-जइ तुमं मम तिलतुसमित्तमवि सक्केसि खंडिउं तो सच्चं तुम पोक्खलसंवट्टउ ति । सो पडिभणइ-जइ तुम एगधारानिवायमवि सक्के सि सहिउं तो सच्चं तुम मुग्गसेलो त्ति । एवं पडिभणित्ता मुट्ठिपमाणमित्ताहिं धाराहिं वरिसिउं पयट्टो । ततो सत्तरत्तं वरिसित्ता चिंतेइ-सो विराओ होज्जा ।तओ ट्ठिओ। तओ मुग्गसेलो चिगचिगंतो अच्छइ।ताहे सो मुग्गसेलओतंगज्जइआगारेइय, जहा-जंतंभणियंतंकहिंगय? ति।मेहो लजिओ विलक्खीभूओ। एवं सेलसमं सिस्समेगो आयरिओ गाहेउं न सक्को । तओ अन्नो भणइ-अहं गाहेमि । सो वि किलिस्सित्ता निविजइ, न सकइ गाहेउं ।। एतदेवाह[भा.३३५] उल्लेऊण न सक्का, गज्जइ इय मुग्गसेलओ रन्ने।
तंसंवट्टगमेहो, सोउं तस्सोवरिं पडइ॥ वृ-आर्द्राकर्तुं न शक्यः 'इति' एवं मुद्गशैलकोऽरण्ये गर्जयति । 'तच्च' मुद्गशैलवचनं श्रुत्वा संवर्तकमेघस्तस्योपरि ‘पतति' सप्तरात्रं वर्षतीत्यर्थः ।।। [भा.३३६] रविउत्ति ठिओ मेहो, उल्लो य न व त्ति गज्जइय सेलो।
सेलसमं गाहिस्सं, निविजइ गाहगो एवं ॥ वृ-तदनन्तरंद्रावित इति विचिन्त्य स्थितो मेघः ।आज़ेनवा? 'इति' एवं 'शैलः' मुद्गशैलो गर्जयति । एष दृष्टान्तः, उपनयमाह-शैलसमं ग्राहयिष्यामि इति कृतप्रतिज्ञः ‘एवं' पुष्करावर्तकष्टान्तप्रकारेण ग्राहको निर्विद्यते ।
न केवलं निर्विद्यते किञ्चायमपरो दोषः[भा.३३७] आयरिए सुत्तम्मिय, परिवाओ सुत्त-अत्थपलिमंथो।
अन्नेसि पि यहाणी, पुट्ठा वि न दुद्धदा वंझा॥ वृ-आचार्ये परिवादो यथा-अयमयोग्यः शिक्षापयितुम्, कथमन्यथा ईशं शिक्षयति?। सूत्रपरिवादो यथा-नूनमेताद्दशमेवेदं सूत्रं यदेताद्दशः पठति।सूत्रा-ऽर्थपलिमन्त एवम्-यावत्स ग्राह्यते तावदात्मना न गुणयति न चार्थं परिभावयति ततः स्वतः सूत्रा-ऽर्थव्याघातः । तथा 'अन्येषामपि' श्रोतृणां सूत्रा-ऽर्थहानि, निरन्तरं तच्छिक्षणे व्यापृतत्वात् । न च तस्यतथाशिक्षणे कश्चिदुपकारः, केवलं सुबहुरपितत्र क्लेशः क्रियमाणो निरर्थकः । एतदेव प्रतिवस्तूपमयादर्शयतिस्पृष्टाऽपि बन्ध्या गौर्न दुग्धदा भवति, एवं सोऽपि शिष्यमाणो न किञ्चिदवगाहते।
शैलघनप्रतिपक्षे च शिष्ये कृष्णभूमकल्पे दातव्यम् । तथा चाह[भा.३३८] वुढे वि दोणमेहे, न कण्हभोमाउ लोट्टए उदयं ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org