________________
पीठिका - [भा. २८४]
मधुरं त्रिधा [भा. २८५ ]
७५
सूत्रमधुरमर्थमधुरमुभयमधुरम् ८ । एतैरष्टभिर्गुणैरुपेतम् ॥ चशब्दात्अप्पक्खरमसंदिद्धं, सारवं विस्सओमुहं । अत्थोभमणवज्जं च, सुत्तं सव्वन्नुभासियं ।।
वृ- अल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखं 'अस्तोभं' स्तोभकरितं अनवद्यम् इत्थम्भूतं सूत्रं सर्वज्ञभाषितम् । तत्राल्पाक्षरं प्रतीतम् । असन्दिग्धादिपदव्याख्यानार्थमाह
[भा. २८६ ] अत्थेसु दोसु तीसु व, सामन्नभिहाणओ उ संदिद्धं । जह सिंधवं तु आणय, अत्थबहुत्तम्मि संदेहो |
वृ- यस्मिन्नर्थेऽभिधीयमाने द्वयोस्त्रषु चार्थेषु सामान्याभिधानतः सन्हेद उपयते तत् सन्दिग्धम्, यथा-सैन्धवमानयेत्युक्ते किं वस्त्रस्य ग्रहणम् ? आहोश्चित्पुरुषस्य ? उताहो लवणस्य ? इत्यर्थः बहुत्वे सन्देहः । सारवत् नवनीतभूतम् । विश्वतोमुखं यत् सर्वतोऽधिकृतमर्थं प्रयच्छति ।। [भा. २८७] उय-वइकारो ह त्ति य, हीकाराई यथोभगा हुंति । वज्र होइ गरहियं, अगरहियं होइ अनवज्जं ॥
वृ. अस्तोभा ऽनवद्ययोव्याखयानमाह - "उय इत्यादि" उत- वै-हा-हिप्रभृतीनामकारणप्रक्षेपाः स्तोभकाः तद्रहितमस्तोभकम् । अवद्यं भवति गर्हितं तत्प्रतिषेधादगर्हितमनवद्यम् एवंगुणजातीयं सूत्रं कथमुच्चरितव्यं पठनीयं वा ? तत आह
[भा. २८८ ] अहीनऽक्खरं अनहियमविच्चामेलियं अवाइद्धं । अक्खलियं च अमिलियं, पडिपुन्नं चेव घोसजुयं ॥
वृ- अहीनाक्षरम् । ‘अनधिकम्' अधिकाक्षररहितम् । 'अव्यत्याम्रेडितं' नाम यदस्थानेन पदघटनम्, यथा- प्राप्तराज्यस्य रामस्य, राक्षसाः प्रलयं गताः । इत्यत्र “ प्राप्तराज्यस्य रामस्य राक्षसाः" इत्यादि तद्रहितम्। यदि वाऽन्यान्यदर्शनानुगतशास्त्रन्तरपल्लवप्रक्षेपरहितमव्यत्याम्रेडि तम् । ‘अव्याविद्धं’ यत् तस्य सूत्स्याधस्तनपदमुपरि उपरितनमधो न क्रियते । 'अस्खलितं' यद् उपलाकुलभूमौ हलमिव पदादिभिर्न स्खलितम् । 'अमिलितं' यद् ग्रन्थान्तरवर्त्तिभि पदैरमिश्रितम्, यथा-सामायिकसूत्रे दशवैकालिकोत्तराध्ययनादिपदानि न क्षिपतीति । प्रतिपूर्णं पदादिभि । 'घोषयुतं' यथावस्थितैरुदात्तादिभिर्घोषैर्युक्तम् ॥ तत्र यदुक्तमहीनाक्षरमिति तत्र हीनं द्विधाद्रव्यहीनं भावहीनं च । द्रव्यहीने उदाहरणमाह
[भा. २८९ ] तित्त-कडुओसहाई, मा णं पीलिजऊ न ते देइ । पउणइ न तेहि अहिएहि मरइ बालो तहाहारे ।
वृ- एगाए अविरइयाए पुत्तो गिलाणो । तीए विज्जो पुच्छिओ । तेन ओसहाणि दिन्नाणि । सा चिंतेइ - इमाणि कडु - तित्ताणी मा निपीडिज्जा । तओ नाए अद्धाणि अवनीयाणि । सो तेहिं न पगुणीकओ, ओ ॥ तओ एगा ऊणगं पीहगं देइ, तीसे विमओ ॥
अक्षरगमनिका-तिक्त-कटुकौषधानि माऽमुंबालं पीडयेयुरिति न तानि परिपूर्णानि ददाति किन्त्वर्द्धानि । न च तैरर्द्धितैर्बालः प्रगुणति किन्तु म्रियते । तथा आहारे ऊने म्रियते । एष दृष्टान्तः, अयमर्थोपनयः यथा तौ बालावेकभविकं दुःखं प्राप्तौ एवं यो भावहीनं सूत्रमुच्चरि पठति वाऽक्षरैर्हीनमित्यर्थः तस्य प्रायश्चित्तं मासलघु । आज्ञां तीर्थङ्कराणामतिचरतश्चतुर्गुरु । अनवस्थायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org