SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७४ बृहत्कल्प-छेदसूत्रम् -१विश्रामस्तस्यदोषोयतिदोषः, यत्र श्लोके गाथायां वृत्ते वा स्वलक्षणप्राप्तः पच्छेदोन क्रियतेऽस्थाने वा क्रियते, जयति जईणं पवरो, गुणनिगरो नाणकिरणउज्जोओ। लोईसरो मुनिवरो, सिरिवच्छधरो महावीरो ।।२२। छविदोषो नाम यत्र परुषा छवि क्रियते २३ । समयविरुद्धं यथा-वैशेषिको ब्रूते प्रधानं कारणम् जैनो वदति 'नास्ति जीवः' इत्यादि २४॥ वचन मात्रं यथा-कश्चित्कीलकं निहत्य ब्रूयात्इदंलोकमध्यमित्यादि २५।अर्थापति दोषो यथा ब्राह्मणोनहन्तव्यःअर्थादापन्नं शेषजनो हन्तव्या इति २६।असमास दोषः यत्र समासे प्राप्ते समासरहितानि पदानि भण्यन्ते २७। [भा.२८१] उवमा-रूवगदोसो, परप्पवत्तीय संधिदोसोय । एए उ सुत्तदोसा, बत्तीसं हुंति नायव्वा ॥ वृ. उपमा दोषो यथा काजिकमिव ब्राह्मणस्य सुरा पेया २८रुपकदोषो यथा - पर्वतो रूप्यमान आत्मीयैरङ्गैः शून्यो वर्ण्यते २९ । 'परप्रवृत्तिदोषः' यत्र सुबहुमप्यर्थं वर्णयित्वा निर्देशं न करोति ३० । ‘पददोषः' स्याद्यन्ते तिवाद्यन्ते वा स्याधन्तं करोति ३१ । 'सन्धिदोषः' यत्र भवन्नपि सन्धिर्न क्रियते विसर्गलोपं वा कृत्वा पुनः सन्धिं करोति ३२ । एते द्वात्रिंशत्सुत्रदोषा भवन्ति ज्ञातव्याः॥ अष्टभिर्गुणैरुपेतमित्युक्तम् अतस्तानेवाष्टौ गुणानाह[भा.२८२] निद्दोसं सारवंतंच, हेउजुत्तमलंकियं । उवणीयं सोवयारंच, मियं महुरमेव य ।। वृ-निर्दोषं १ सारवत् २ हेतुयुक्तम् ३ अलङ्कतम् ४ उपनीतं ५ सोपचारं ६ मितं ७ मधुरम् ८ इति ।। तत्र निर्दोषादिपदव्याख्यानार्थमाह[भा.२८३] दोसा खलु अलियाई, बहुपज्जायं च सारवंसुत्तं । साहम्मेयरहेऊ, सकारणं वा विहेउजुयं ॥ वृ-दोषाः खल्वलीकादयः प्रागभिहितास्तैर्वर्जितं निर्दोषम् १। सारवद्नाम 'बहुपर्यायम्' एकैकस्मिन्नभिधेये यत्रानेकान्यभिधानानीत्यर्थः २ । हेतुयुक्तं साधम्येण वैधम्येण वा हेतुना युक्तम्, अथवा हेतुःकारणं निमित्तमप्यनर्थान्तरम्, ततोयत्सकारणंतद्हेतुयुक्तमिति, यथा"सुत्तत्तं सेयं जागरियत्तं वा सेयं" इत्यादि ३॥ [भा.२८४] उवमाइ अलंकारो, सोवणयं खलु वयंति उवनीयं । काहलमनोवयारं, दंडगममियं तिहा महुरं ।। वृ-अलङ्कृतं यत्रोपमादिरलङ्कारः। तत्रोपमायुक्तम्, यथा-“सूरेवसेणाइसमत्तमाउहे"। आदिग्रहणेन नियमा अक्खरलंभो, माउक्कमनिट्ठरं छवीजमगं । महुरत्तणमत्थघणत्तणंच सुत्ते अलंकारा॥ इति परिग्रहः ४ । उपनीतं खलु वदन्ति ‘सोपनयं' सोपसंहारम् ५। अनुपचारं नाम यत् 'काहलं' फल्गुप्रायम्, तद् विपरीतं सोपचारम् ६। मितं पदैः श्लोकादिभिर्वा, अमितं दण्डकैः७। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy