________________
पीठिका- [भा. २७७]
७३
"जीभूते इति वा अञ्जणे इति वा" इत्यादिभिर्बहुभिरक्षरैर्वर्णव्यावर्णनम्, महाक्षरं महार्थम्यथादृष्टिवादः । तत्र यद् अल्पाक्षरं महार्थं तादृशं सूत्रमिष्यते । तथा यद् द्वात्रिंशद्दोषविरहितं तदिष्यते।तेच द्वात्रिंशद्दोषावक्ष्यमाणाः । तथाऽष्टभिर्गुणैर्वक्ष्यमाणैर्यद् उपेतं तदिष्यते । एवम्भूतं सूत्रं लक्षणयुक्तम् । अधुना द्वात्रिंशद्दोषानाह[भा.२७८] अलियमुवघायजणयं, अवत्थग निरत्थयं छलं दुहिलं ।
निस्सारमहियमूणं, पुनरुत्तं वाहयमजुत्तं ॥ वृ- अलीकं द्विविधम्-अभूतोद्भावनं भूतनिह्नवश्च । तत्राभूतोद्भावनं यथाश्यामाकतन्दुलमात्रो जीव इत्यादि । भूतनिह्नवो यथा-नास्ति जीव इत्यादि १ । 'उपघातजनक' यत् परस्योपघाते वर्तते, यथा-"न मांसभक्षणे दोषः" इत्यादि २ । 'अपार्थकं यस्यावयवेष्वर्थो विद्यते न समुदाये, असम्बद्धमित्यर्थः, यथा-"शङ्खः कदल्यां कदली च भेर्याम्" अथवा॥३॥ वंजुलपुप्फुम्मीसा, उंबर-वडकुसुममालिया सुरभी।
वरतुरगस्स विरायइ, ओलइया अग्गसिंगेसु॥ 'निरर्थकं' यस्यावयवेष्वर्थो न विद्यते, यथा-डित्थः डवित्थः वाजनः ४ । छलं यथाअस्त्यात्मा यद्यस्तिआत्मा तर्हि यद्यदस्ति स स आत्मा प्राप्नोति, नवकम्बलो देवदत्त इत्यादि वा ५।द्रोहणशीलंद्रुहिलंयत् पुण्य-पापापलपनादि, यथा-एतावानेव लोकोऽयं,यावानिन्द्रियगोचरः। इत्यादि ६ । 'निस्सारं यत्र सारः-अर्थो न विद्यते, यथा-अस्थि-चर्मशिलापृष्ठं वृद्धाः७। अधिकं' यत् पञ्चानामवयवानामन्यतरेण समधिकम् ८ । 'ऊनम् एषामन्यतमेन हीनम् ९ । पुनरुक्तं त्रिविधम्-अर्थपुनरुक्तं यथा-सैन्धवमानय लवणं सैन्धवमानयेत्यादि, उभयपुनरुक्तं यथा-क्षीरं क्षीरम् १० । 'व्याहतं' यत्र पूर्वमपरेण बाध्यते, यथा-कर्म चास्ति फलं चास्ति, भोक्ता नास्तिच निश्चयः । ११ । 'अयुक्तं' यद् बुध्या विचिन्त्यमानं न युक्ति सहते, यथा
तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः ।
प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१२॥ [भा.२७९] कमभिन्न वयणभिन्नं, विभत्तिभिन्नं च लिंगभिन्नं च ।
अनभिहियमपयमेव य, सभावहीणं ववहियं च ॥ वृ-क्रमभिन्नं यथा-धरणीधरेन्द्र-चन्द्र-पद्म-सागरान्गम्भीर-नयन-मुख-बल-स्थैर्यगुणैर्जयति १३। 'वचनभिन्नं' यत्रैकवचनप्रसङ्गे द्विवचन बहुवचनं वा क्रियते, द्विवचन-बहुवचनव्यत्यासो वा १४ । 'विभक्तिभिन्नं' यत्र विभक्तेरन्यथा प्रयोगः १५ । 'लिङ्गभिन्नं' यत्र स्त्रलिङ्गे पुल्लिङ्गं नपुंसकलिङ्गंवा क्रियते, एवं शेषयोरपि द्रष्टव्यम् १६। 'अनभिहितं' नामयत्स्वसमयेऽनुक्तमात्मन इच्छया भण्यते १७ । 'अपदं' नाम यत्र गाथापदे गीतिकापदं वानवासिकापदं वा क्रियते १८। 'स्वाभावहीनं' यस्य यो यत्रात्मीयः सवभावस्तेन तत् शून्यमभिधीयते, यथा-स्थिरो वायुः १९ । 'व्यवहितं' नाम यत्र किञ्चिद् निर्दिश्याऽन्यद् विस्तरेण वर्णयित्वा पुनस्तत्प्रकृतमभिधीयते २०॥ [भा.२८०] काल-जइ-च्छविदोसो, समयविरुद्धं च वयणमित्तं च ।
____ अत्थावत्तीदोसो, हवइ य असमासदोसो उ॥ वृ- कालदोषो यत्रातीता-ऽनागत-वर्तमानकालव्यत्यासकरणम् २१ । यति नाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org