________________
७२
बृहत्कल्प-छेदसूत्रम् -१वृ- “एकैकम्' अध्ययनादिकं यथा अनुयोगद्वारे तथा नामादीनां भेदतश्चतुर्धा विभाष्य चतुर्ध्वपि 'तत्र' तेष्वध्ययनादिषु 'भावे' भावविषये तु कल्पाध्ययनमिदं समवतरति । गत ओघनिष्पन्नो निक्षेपः । सम्प्रति नामनिष्पन्नमाह[भा.२७३] नामे छव्विह कप्पो, दव्वे वासि-परसादिएहिं तु ।
खेत्ते काले जहुवक्कमम्मि भावे उ पंचविहो । वृ-नामनिष्पन्ने निक्षेपे कल्प इति नाम । स च षोढा, तद्यथा-नामकल्पः स्थापनाकल्पो द्रव्यकल्पः क्षेत्रकल्पः कालकल्पोभावकल्पश्च। तत्र नाम-स्थापने प्रतीते। द्रव्यकल्पोयेन वासीपरश्वादिनाद्रव्येणकल्प्यतेतद्रष्टव्यम् । क्षेत्रकल्पोयथाक्षेत्रोपक्रमः।कालकल्पोयथाकालोपक्रमः। भावकल्पः 'पञ्चविधः पञ्चप्रकारः॥ तमेवाह[भा.२७४] छव्विह सत्तविहे वा, दसविह वीसइविहे य बायाला ।
जस्स उ नत्थि विभागो, सुव्वत्त जलंधकारो से। वृ-भावतः कल्पः षड्विधः सप्तविधो दशविधो विंशतिविधो द्वाचत्वारिंशद्विधश्च । एते पञ्चापिप्रकाराः पञ्चकल्पे व्याख्यातास्तथा ज्ञातव्याः । यस्य त्वेषः 'विभागः पञ्चप्रकारभावकल्पपरिज्ञानं नास्ति 'से' तस्य सुव्यक्तं जडान्धकारः।। गतो नामनिष्पन्नो निक्षेपः।
सम्प्रति सूत्रालापकनिष्पन्नं प्रत्याह[भा.२७५] पत्तो विन निक्खिप्पइ, सुत्तालावस्स इत्थ निक्खेवो।
सुत्तानुगमे वुच्छं, इति अत्थे लाघवं होइ । वृ-यद्यपिसूत्रालापकस्य निक्षेपः 'प्राप्तः' प्राप्तावसरस्तथापिसप्राप्तोऽपि अत्र' निक्षेपप्रक्रमे ननिक्षिप्यते, किन्वितोऽस्ति तृतीयमनुयोगद्वारमनुगमइतितत्रसूत्रानुगमे वक्ष्ये । यतः ‘इति’एवं सति अर्थे लाघवं भवति । तथाहि-सूत्रालापकनिक्षेपः सूत्रगतानामालापकानां निक्षेपः, ते च सूत्रगताआलापाःसूत्रेसति सम्भवन्ति, ततः सूत्रानुगम एव तन्निक्षेपोज्यायान्, इहतुतन्निक्षेपकरणे महत्प्रतिपत्तिकष्टम् । अनुगमे च त्रीणि द्वाराणि, तद्यथा-लक्षणं तदर्हा पर्षत् सूत्रार्थश्च । प्रथम लक्षणद्वारमाह[भा.२७६] लक्खणओ खलु सिद्धी, तदभावे तं न साहए अत्थं ।
सिद्धमिदं सव्वत्थ वि, लक्खणजुत्तं सुयं तेन ॥ वृ-इह लक्षणहीनं सूत्रंन भवति, यतो लक्षणयुक्तस्य सूत्रस्यार्थ लक्षणहीनस्य त्वर्थाभावः, ततो यन्निमित्तमुपनिबद्धं सूत्रं तस्याप्रसिद्धिरेव । तथा चाह-लक्षणतः खलु विवक्षितस्यार्थस्य सिद्धि, 'तदभावे' लक्षणाभावे 'तत्' सूत्रंन साधयति विवक्षितमर्थम् । इदं च ‘सर्वत्रापि' लोके सिद्धम्-यत् किञ्चिन्मण्यादि द्रव्यं लाभार्थं क्रीतं तल्लक्षणहीनं लाभं न साधयति । तेन कारणेन लक्षणयुक्तं सूत्रमिप्यते ॥अथ कीशं लक्षणयुक्तं सूत्रम् ? अत आह[भा.२७७] अप्पग्गंथ महत्थं, बत्तीसादोसविरहियं जं च ।
___ लक्खणजुत्तं सुत्तं, अट्ठहि य गुणेहि उववेयं ।। वृ- 'अल्पग्रन्थम्' अल्पाक्षरम् महार्थम्, अत्र चत्वारो भङ्गाः-अल्पाक्षरमल्पार्थम् यथाकार्पासादिकम्, अल्पाक्षरं महार्थम् यथा-सामायिक-कल्प-व्यवहारादि, महाक्षरमल्पार्थम्यथाJain Education International
For Private & Personal Use Only
www.jainelibrary.org