________________
६८ .
बृहत्कल्प-छेदसूत्रम् -१वृ-श्रुतस्य चतुष्प्रकारोनामादिको निक्षेपः, तद्यथा-नामश्रुतं स्थापनाश्रुतं द्रव्यश्रुतंभावश्रुतं च । एवमेव' अनेनैव प्रकारेणस्कन्धेऽपिचतुःप्रकारोनिक्षेपः, तद्यथा-नामस्कन्धःस्थापनास्कन्धो द्रव्यस्कन्धो भावस्कन्धश्च । एतेषां प्रज्ञापना पूर्वमावश्यके उक्ताऽवधारणीया ॥ गतं कस्येति द्वारम् । अधुना तद्वारद्वारं वक्तव्यम्[भा.२५६] चत्तारि दुवाराइं उवक्कम निक्खेव अनुगम नया य ।
___काऊण परूवणयं, अनुगम-निज्जुत्ति सुत्तस्स ॥ वृ- कल्पस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नयाश्च । एतेषांच प्ररूपणा यथाऽनुयोगद्वारे तथा कर्त्तव्या।साच ताव द्यावत् सूत्रानुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्च । अनुयोगद्वाराणि नाम अनुयोगस्य-अर्थस्य मुखानि उपाया इत्यर्थः ॥ आह किमर्थमनुयोगद्वाराणि कृतानि? किमर्थं वा चत्वारि? एकमेव द्वारमस्तु, अत आह[भा.२५७] अद्दारगं अनगरं, एगद्दारे यहोइ पलिमंथो।
चउदारे तेन भवे, देस पएसे य छिंडीओ॥ वृ- यथा 'अद्वारकम्' अकृतद्वारमनगरम्, एकस्मिंश्च द्वारे कृते भवति ‘परिमन्थः' निर्गच्छद्भिः प्रविशद्भिश्चाश्व-हस्त्यादिभि सङ्घट्टः, तेन कारणेन तन्नगरंचतुरिंभवति। तत्रापि 'देशे' द्वारकुक्ष्यादिलक्षणे प्रदेशे च तत्र तत्रानेकाश्चिण्डिका भवन्ति । एवमकृतानुयोगद्वारमेकान्तेनागम्यम्, अकृतद्वारनगरवत् कृतैकानुयोगद्वारमपि दुरधिगमम्, कृतैकद्वारकनगरवत्; तेन चत्वार्यनुयोगद्वाराणि कृतानि । गतं तदारद्वारम् ॥ इदानीं भेदद्वारम्-यथा नगरस्य देशेषु प्रदेशेषुच छिण्डिका भवन्ति तथाऽनुयोगस्यापि चतुर्णा द्वाराणामवान्तरभेदाः। तत्रोपक्रमोद्विभेदः, तद्यथा-लौकिकः शास्त्रयश्च । लौकिकः षडविधः-नामोपक्रमः स्थापनोपक्रमो द्रव्योपक्रमः क्षेत्रोपक्रमः क्षेत्रोपक्रमः कालोप्रमो भावोपक्रमश्च ।। तत्र नाम-स्थापने प्रतीते । द्रव्योपक्रममाह[भा.२५८] सच्चित्ताई तिविहो, उवक्कमो दब्वि सो भवे दुविहो।
परिकम्मणम्मि एक्को, बिइओ संवट्टणाए उ॥ वृ-नोआगमतो व्यतिरिक्तो द्रव्योपक्रमस्त्रविधः-'सचित्तादि' सचित्तोऽचित्तो मिश्रश्च । एकैको द्विविधः-परिकर्मणि संवर्तनायां च ।। एतदेव व्याख्यानयति[भा.२५९] जेन विसिज्जइ रूवं, भासा व कलासु वा वि कोसल्लं ।
परिकम्मणा उ एसा, संवट्टण वत्थुनासो उ । वृ-येन रूपं 'विशिष्यते' विशिष्टतरं क्रियते, यथा सुवर्णे कटकरूपतापादनं कृष्णवर्णे वा गौरवर्णताजननम्; तथा येन भाषा विशेष्यते-स्पष्टवर्णोच्चारणादिरूपा क्रियते, यथा शुकसारिकादीनाम्; यच्च वा 'कलासु' द्वासप्ततिसङ्ख्यासु कौशलमुपजन्यते एषा परिकर्मणा । संवर्त्तना वस्तुनाशः, यथा-सुवर्णे कटकत्वं भज्यते पुरुषो वा मार्यते । तत्र सचित्ते परिकर्मणा यथा-नटस्य नेपथ्यं क्रियते, शुको वा पाठ्यते, पुरुषो वा द्वासप्ततिकला अवगाह्यते, संवर्तना यथा-पुरुषो मार्यते । अचित्ते परिकर्मणा यथा-सुवर्णे कटकं क्रियते, संवर्तना-कटकं भज्यते । मिश्रेपरिकर्मणा यथा-साभरणो नटो चारुवेषं कार्यते, पुरुषो वासाभरणो द्वासप्ततिकला ग्राह्यते, संवर्तना यथा-सायुधः पुरुषो मार्यते । गतो द्रव्योपक्रमः । सम्प्रति क्षेत्रोपक्रममाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org