________________
पीठिका - [भा. २४९]
८७
केन हेतुना सीदेयुः ? नैव सीदेयुरिति भावः । तत एतेन कारणेन कल्प-व्यवहारयोरनुयोगे विशेषत एतादृशेन प्रकृतम्॥ [भा.२५०] अनुओगम्मि य पुच्छा, अंगाई कप्प छक्कनिक्खेवो ।
सुय खंधे निक्खेवो, इक्केको चउव्विहो होइ।। वृ-अनुयोगेऽङ्गादेः पृच्छा वक्तव्या, तदनन्तरंकल्पस्यषट्को निक्षेपः, ततःश्रुते स्कन्धे च एकैकस्मिन् निक्षेपश्चतुर्विधो भवति वक्तव्यः । एष द्वारगाथासमासार्थः॥
साम्प्रतमेनामेव विवरीषुः प्रथमतोऽनुयोगेऽङ्गादेः पृच्छामाह[भा.२५१] जइ कप्पादनुयोगो, किं सो अंगं उयाहु सुयखंधो ।
अज्झयणं उद्देसो, पडिवखंगादिणो बहवो। वृ-यदि कल्पादेः आदिशब्दा व्यवहारस्य ग्रहणम् अनुयोगः ततः किंसोऽङ्गम् ? उताहो श्रुतस्कन्धः? अध्ययनम् ? उद्देशोवा? सोअमीषांचाङ्गानांप्रतिपक्षा बहवोऽङ्गादयो द्रष्टव्याः। इयमत्र भावना-यदि नामैताशेनाचार्येणानुयोगः कल्पस्य व्यवहारस्य च कर्त्तव्यः ततःस कल्पो व्यवहारो वा किमङ्गम् अङ्गानि ? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनम् अध्ययनानि? उद्देश उद्देशाः ? । अत्र सूरिराह[भा.२५२] सुयखंधो अज्झयणा, उद्देसा चेव हुंति निक्खिप्पा।
सेसाणं पडिसेहो, पंचण्ह वि अंगमाईणं ॥ वृ-श्रुतस्कन्धोऽध्ययनानि उद्देशा एते त्रयः पक्षा भवन्ति निक्षेप्याः' स्थाप्या आदरणीया इत्यर्थः । शेषाणां पञ्चानामप्यङ्गादीनांप्रतिषेधः। तद्यथा-कल्पोव्यवहारोवानाङ्गनाङ्गानि श्रुतस्कन्धो नो श्रुतस्कन्धाः अध्ययनं नाध्ययनानि नो उद्देशः उद्देशाः॥ [भा.२५३] तम्हा उ निक्खिविस्सं, कप्प-व्यवहारमो सुयक्खंधं ।
अज्झयणं उद्देस, निक्खिवियव्वं तुजंजत्थ ।। वृ-यस्मादेवं तस्मात् कल्पं निक्षेप्स्यामि व्यवहारं निक्षेप्स्यामि श्रुतं निक्षेप्स्यामि स्कन्धं निक्षेप्स्यामि अध्ययनं निक्षेप्स्यामि उद्देशं निक्षेप्स्यामि । यच्च यत्र निक्षेप्तव्यं नामादि चतुष्प्रकारं षट्पकारंवातत्वक्ष्यामि।तत्र कल्पस्यषड्विधोनामादिको निक्षेपः। यतउक्तंप्रागद्वारगाथायाम्“कप्प छक्कनिक्खेवो" व्यवहारस्य चतुर्विधो नामादिनिक्षेपः ।। एतयोः स्वस्थानमाह[भा.२५४] आइल्लाणं दुण्ह वि, सट्ठाणं होइ नामनिप्फन्ने ।
अज्झयणस्स उ ओहे, उद्देसस्सऽनुगमे भणिओ॥ वृ-'आधयोर्द्वयोः' कल्प-व्यवहारयोर्यथाक्रमंषट्कस्य चतुष्कस्य च निक्षेपस्य स्वस्थानं भवति नामनिष्पन्ने निक्षेपे, ततः स तत्र वक्तव्यः; तत्र कल्पस्य पञ्चकल्पे व्यवहारस्य पीठिकायाम् । अध्ययनस्य चतुष्प्रकारो निक्षेपः ओघनिष्पन्ने निक्षेपेऽभिधास्यते।उद्देशस्य च 'अनुगमे' उपोद्धातनिर्युक्त्यनुगमे भणितःकरिष्यते॥सम्प्रति “सुयखंधेनिक्खेवो" इत्यादिव्याख्यानार्थमाह[भा.२५५] नामसुयं ठवणसुयं, दव्वसुयं चेव होइ भावसुयं ।
एमेव होइ खंधे, पन्नवणा तेसि पुव्वुत्ता।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org