________________
६६
बृहत्कल्प-छेदसूत्रम् - १
गुणसयकलिओ जुत्तो, पवयणसारं परिकहेउं ॥
वृ- स्वसमय परसमयं वेत्तीति स्वसमय-परसमयवित्, स च परेणाक्षिप्तः सुखेनस्वपक्षं परपक्षं च निर्वहति । 'गम्भीरः' अतुच्छस्वभावः । 'दीप्तिमान्' परवादिनामनुद्धर्षणीयः । ‘शिवः’ अकोपनः, यदि वा यत्र तत्र वा विहरन् कल्याणकरः । 'सोमः ' शान्तदृष्टिः । गुणाः-मूलगुणा उत्तरगुणाश्च तेषां शतानि तैः कलितो गुणशतकलितः । 'युक्तः' समीचीनः प्रवचनस्य - द्वादशाङ्गस्य सारम्-अर्थं कथयितुम् ।। कस्माद्गुणशतकलित इष्यते ? इति चेद् अत आह
[भा. २४५ ] गुणसुट्ठियस्स वयणं, घयपरिसित्तु व्व पावओ भाइ । गुणहीणस्स न सोहइ, नेहविहूणो जह पईवो ॥
वृ- यो मूलगुणादिषु गुणेषु सुस्थितस्तस्य वचनं घृतपरिसिक्तपावक इव 'भाति' दीप्यते । गुणहीनस्य तु न शोभते वचनम्, यथा स्नेहविहीनः प्रदीपः । उक्तञ्चआयारे वट्टंतो, आयारपरूवणा असंकंतो । आयारपरिब्भट्ठो, सुद्धचरणदेसणे भइओ ॥
गतं केन वेति द्वारम् । अधुना कस्येति द्वारमाह
[भा.२४६] जइ पवयणस्स सारो, अत्थो सो तेन कस्स कायव्वो । एवंगुणन्निएणं, सव्वसुयस्साऽऽउ देसस्सा ॥
वृ-यदि प्रवचनस्य सारो अर्थस्तर्हि स तेन एवंगुणान्वितेन कस्य कर्त्तव्यः ? किं सर्वश्रुतस्य ? उत 'देशस्य' श्रुतस्कन्धादेः ? इति । अत्र सूरिराह
[ भा. २४७] को कल्लाणं निच्छइ, सव्वस्स वि एरिसेण वत्तव्वो ।
कप्प - व्ववहाराण उ, पगयं सिस्साण थिजत्थं ॥
वृ- को नाम जगति कल्याणं नेच्छति ? ततः सर्वस्यापि श्रुतस्यानुयोग ईदृशेन वक्तव्यः । केवलं कल्पो व्यवहारश्चापवादबहुलस्तेनैतयोरनुयोगे विशेषत एताध्शेन 'प्रकृतम्' अधिकृतमधिकारः, एवंगुणयुक्तेनैव कल्प- व्यवहारयोरनुयोगः कर्त्तव्य इत्यर्थः । कस्मादेवमुच्यते ? इति चेत्, उच्यते-शिष्याणां स्थिरीकरणार्थम् ॥ तदेव स्थिरीकरणं भावयति
[ भा. २४८ ] एसुस्सग्गठियप्पा, जयणाणुन्नातो दरिसयंतो वि । तासु न वट्टइ नूनं, निच्छयओ ता अकरणिज्जा ।।
वृ- यदा नाम यथोक्तगुणशतकलितः कल्प व्यवहारयोरनुयोगं करोति तदा शिष्या एवमवबुध्यन्ते एष स्वयमुत्सर्गस्थितात्मा, अथ च कल्पे व्यवहारे च यतनया पञ्चकादिपरिहाणिरूपया प्रतिसेवना अनुज्ञाताः प्रदर्शयति, ततः प्रतिसेवना यतनयाऽनुज्ञाता अपि प्रदर्शयन् स्वयं तासु न वर्त्तते, किन्तु केवलमुत्सर्गमाचरति, तदेवं ज्ञायते नूनम् - निश्चयेनैता यतनानुज्ञाता अपि प्रतिसेवनाः 'अकरणीयाः' न समाचरितव्याः ॥ किञ्च
[भा. २४९] जो उत्तमेहि पहओ, मग्गो सो दुग्गमो न सेसाणं । आयरियम्मि जयंते, तदणुचरा केण सीइज्जा ।।
वृ-यः 'उत्तमैः' गुरुभिः 'प्रहतः ' क्षुण्णः 'मार्ग' पन्थाः स शेषाणां दुर्गमो न भवति, किन्तु सुगमः । तत्र आचार्ये 'यतमाने' यथोक्तसूत्रनीत्या प्रयत्नवति 'तदनुचराः' तदाश्रिताः शिष्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org