________________
बृहत्कल्प-छेदसूत्रम् -१जोएउमणिम्मविउं, तच्छण-दल-वेह-कुस्सेहिं ।।। वृ-'यदपि वस्तु 'यस्य वस्तुनः' अक्षादेर्योग्यंदारुतदपि तक्षण-दल-वेध-कुशैरनिर्माप्य योजयितुमशक्यं किन्तु निर्माप्य, एवमिहापी योग्योऽपियावदक्तिनैः सूत्रैर्न परिकर्मितस्तावन्न कल्पं व्यवहारं वाऽध्यापयितुं योग्यः । तत्र तक्षणं प्रतीतम्, दलानि द्विधा त्रिधा वा काष्ठस्य पाटनम्, वेधः प्रतीतः, कुशो यो वेधे प्रान्तः प्रवेश्यते ॥ सम्प्रति धातुष्टान्तमाह[भा.२१८] एमेव अधाउं उज्झिऊण धाऊण कुणइ आयाणं ।
नय अक्कमेण सक्का, धाउम्म वि इच्छियं काउं ।। वृ- ‘एवमेव' राग-द्वेषौ विना अधातुं त्यक्त्वा धातूनामादानं करोति, न च धातावप्यक्रमेणेप्सितं कर्तुं शक्यं किन्तु क्रमेण; एवमिहाप्योग्यान् परिहरतो योग्यानपि क्रमेण ग्राहयतो न द्वेषः । अधुना व्याधिष्टान्तामाह[भा.२१९] सुहसज्झो जत्तेणं, जत्तासज्झो असज्झवाही उ।
जह रोगे पारिच्छा, सिस्ससभावाण वि तहेव ।। वृ-यथा रोगे वैद्येन परीक्षा क्रियते, यथा-एष सुखसाध्यः, एष यत्नेन साध्यः, एष चासाध्यव्याधिः यत्नेनाप्यसाध्यः । परीक्षाऽनन्तरं च राग-द्वेषौ विना तदनुरूपा प्रवृत्ति, एवं शिष्यस्वभावानामपि तथैव' राग-द्वेषाभावेन परीक्षा क्रियते, तदनुरूपा च प्रवृत्ति॥
अधुना बीजष्टान्तमाह[भा.२२०] बीयमबीयं नाउं, मोत्तुमबीए उ करिसतो सालिं।
ववइ विरोहण जोग्गे, न यावि से पक्खवाओ उ । वृ-यथा कर्षको बीजमबीजंच ज्ञात्वा अबीजानि मुक्त्वा 'शालिं' शालिबीजानि वपति, नचतस्मिन् विरोहणयोग्ये बीजे "से" तस्यकर्षकस्य पक्षपातः' रागः, एवमत्रापि भावनीयम्।।
सम्प्रति काङ्कटुकदृष्टान्तमाह[भा.२२१] कंकडुए को दोसो, जं अग्गी तंतुन पयई दित्तो।
को वा इयरे रागो, एमेव य सूवकारस्स ।। वृ-को द्वेषोऽग्नेः काङ्कटुके यदग्निर्दीप्तोऽपितं न पचति?, को वा इतरस्मिन् रागो यत् पाचयति?, नैव कश्चित् । एवमत्रापि भावनीयम् ॥अधुना लक्षणहष्टान्तमाह[भा.२२२] जे उ अलक्खणजुत्ता, कुमारगा ते निसेहिउं इयरे ।
रज्जरिहे अनुमन्नइ, सामुद्दो नेय विसमो उ॥ वृ-यथा सामुद्रः' सामुद्रलक्षणपरिज्ञाताराज्ञि व्यपगतेतस्ययेकुमाराअलक्षणयुक्तास्तान् निषिध्य 'इतरान्' लक्षणोपेतान् राज्यानिनुमन्यते, न च स तथाऽनुमन्यमानः 'विषमः' रागद्वेषवान्, एवमत्रापि द्रष्टव्यम् ।। स्वप्नदृष्टान्तमा (न्ताना) ह[भा.२२३] जो जह कहेइ सुमिणं, तस्स तह फलं कहेइ तन्नाणी।
रत्तो वा दुट्ठो वा, न यावि वत्तव्वयमुवेइ ।। वृ-यो यथास्वप्नं कथयतितस्य तथा 'तज्ञानी' स्वप्नज्ञानी स्वप्नफलं कथयति, नचस तथा कथयन् रक्त इति वा द्विष्ट इति वा वक्तव्यतामुपैति, एवमत्रापि ।। एवमेकान्तेनायोग्या ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org