________________
पीठिका - [भा. २२३]
शिष्यास्तेषां परिहारे राग-द्वेषाभावे दृष्टान्ता अभिहिताः । सम्प्रति कालान्तरयोग्यानपरिणतान् क्रमेण परिणामयतो राग-द्वेषाभावे दृष्टान्तमाह[भा.२२४] अग्गी बाल गिलाणे,सीहे रुक्खे करीलमाईया ।
अपरिणयजने एए, सप्पडिवक्खा उदाहरणा ।। वृ- 'अपरिणते जने' कालान्तरयोग्ये एतानि ‘सप्रतिपक्षाणि' पूर्वमयोग्यतायां पश्चाद् योग्यतायामित्यर्थः उदाहरणानि । तद्यथा-अग्निर्बालो ग्लानः सिंहो वृक्षः 'करीलं' वंशकरीलम्, आदिसब्दाद्वक्ष्यमाणहस्त्यादिदृष्टान्तपरिग्रहः ।। तत्र प्रथममग्निदृष्टान्तमाह[भा.२२५] जह अरणीनिम्मविओ, थोवो विउलिंधणं न चाएइ ।
दहिउंसो पज्जलिओ, सव्वस्स वि पच्चलो पच्छा ।। वृ-यथा अरणिनिर्मापितः स्तोको वह्निर्विपुलमिन्धनं न दग्धुं शक्नोति, स एव पश्चात् प्रज्वलितः सर्वस्यापीन्धनजातस्य दहने 'प्रत्यलः' समर्थः ।। [भा.२२६] एवं खुथूलबुद्धी, निउणं अत्थं अपच्चलो घेत्तुं ।
सोचेव जणियबुद्धी, सव्वस्स वि पच्चलो पच्छा ।। वृ-एवमग्निदृष्टान्तेन प्रथमतः शिष्यः स्थूलबुद्धि सन् निपुणमर्थं ग्रहीतुमप्रत्यलः । पश्चात् स एव शास्त्रन्तरैः ‘जनितबुद्धिः' उत्पादितबुद्धि सर्वस्यापि शास्त्रस्य ग्रहणप्रत्यलो भवति ।। बालदृष्टान्तमाह[भा.२२७] देहे अभिवढते, बालस्स उ पीहगस्स अभिवुड्डी ।
अइबहुएण विणस्सइ, एमेवऽहुणुट्ठिय गिलाणे॥ वृ. 'बालस्य देहे' अभिवर्द्धमाने तदनुसारेम दातव्यस्य ‘पीहकस्य' आहारस्यापि (स्याभिः)वृद्धिर्भवति, देहवृद्यनुसारतः पीथकमपि क्रमशो वर्द्धमानं दीयते इति भावः । यदि पुनरतिबहुदीयतेतदास विनश्यति।ग्लानदृष्टान्तमाह-एवमेव' बालगतेन प्रकारेणाधुनोत्थितेऽपि ग्लाने वक्तव्यम्-यथा ग्लानोऽप्यधुनोत्थितःक्रमेणाभिवर्द्धमानमाहारंगृह्णाति, एकवारमतिप्रभूतग्रहणे विनाशप्रसङ्गात् । एवं शिष्योऽपि क्रमेण योग्यतानुरूपं शास्त्रमादत्ते, प्रथमत एवातिनिपुणार्थशास्त्रग्रहणे बुद्धिभङ्गप्रसक्तेः ॥ सिंहादिष्टान्तानाह[भा.२२८] खीर-मिउपोग्गलेहिं, सीहो पुट्ठो उ खाइ अट्ठी वि।
रुक्खो बिवन्नओ खु, वंसकरिल्लो य नहछिज्जो ।। [भा.२२९] तेचेव विवढंता, हुंति अछेज्जा कुहाडमाईहिं।
तह कोमला विबुद्धी, भज्जइ गहणेसु अत्थेसु ।। वृ-सिंहःप्रथमतः क्षीर-मृदुपुद्गलैः स्वमात्रा पोष्यते।तत पुष्टः सन्अस्थीन्यपिस खादति। तथा वृक्षो द्विपर्णो वंशकरीलम्एतौ द्वावपिप्रथमतोनखच्छेद्यौ, ततः पश्चादभिवर्द्धमानौ यतस्ततः कुठारादिभिरप्यच्छेद्यौ भवतः ।एवं शिष्यस्यापिप्रथमतः कोमला बुद्धिर्भवति, ततः सा गहनेष्वर्थेषु 'भज्यते' भङ्गमुपयाति । क्रमेण तु शास्त्रन्तरदर्शनतोऽभिवर्द्धमाना कठोरा कठोरतरोपजायते इति न कचिदपि भङ्गमुपयाति ।। एतदेवोपदिशन्नाह
[भा.२३०] निउणे निउणं अत्थं, थूलत्थं थूलबुद्धिणो कहए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org