________________
पीठिका- [भा. २११] प्रति राग-द्वेषावाह[भा.२१२] मच्छरया अविमुत्ती, पूयासक्कार गच्छइ य खिन्नो।
दोसो गहणसमत्थे, इयरे रागो उ वुच्छेयो । वृ- ग्रहण-धारणासमर्थं शिष्यं तिसृभिः परिपाटीभिग्राहयत एतावन्ति कारणानि स्युःएष बहुशिक्षितो मम सपनो भविष्यति, ततो मत्सरतया तिसृभिः परिपाटीभिस्तस्य ग्रहणम्, अन्यथा एकया परिपाट्यातं ग्राहयेत्। 'अविमुक्ति' इति एष सूत्रा-ऽर्थेषु समाप्तेषु मां मोक्ष्यते, इतरथातुशिष्यपरिवारत्वेन वर्ततइत्यविमुक्तिकारणम्। अथवा गृहीतसूत्राऽर्थस्यास्यपूजासत्कारो भविष्यति । 'खिन्नोवा' परिश्रान्तोऽन्यं गणंगमिष्यति। “वोच्छेय(यो)"त्तिमद्वसतौचानुयोगस्य व्यवच्छेदो भविष्यति, अन्यस्य तथाविधशिष्यस्याभावात्। एवं कारणानि चानुयोगस्य व्यवच्छेदो भविष्यति, अन्यस्य तथाविधशिष्यस्याभावात् । एवं कारणानि सम्भाव्य ग्रहण-धारणासमर्थे तिसृभिः परिपाटीभिरनुयोगं वदतो द्वेषः । 'इतरस्मिन्' जडे रागः, यथातदवबोधमनुयोगस्य प्रवर्तनात् । अत्राऽऽचार्य प्राह[भा.२१३] निरवयवो न हु सक्को, सयं पगासो उ संपयंसेउं ।
कुंभजले विहु तुरिउझियम्मि नहु तिम्मए लिट्टू ।। वृ. 'न हु' नैव सूत्रस्य 'प्रकाशः' अर्थ 'सकृद्' एकया परिपाट्या 'निरवयवः' समस्तः सम्प्रदर्शयितुं शक्यः, तस्य ग्रहण-धारणासमर्थस्यापि तथाऽवधारयितुमशक्यत्वात् । एतदेव प्रतिवस्तूपमया द्रढयति-नहि कुम्भजलेऽपि त्वरितमुज्झिते लेष्टुसर्वात्मना तिम्यते, एवमेषोऽपि, ग्रहण-धारणासमर्थोऽपि नैकया परिपाट्याऽवधारयितुमीश इति तिसृभि परिपाटीभिरनुयोगकथनमित्यदोषः।। साम्प्रतमतिपरिणामका-ऽपरिणामकान् परिहरतो द्वेषाभावमाह[भा.२१४] सुत्त-ऽत्थे कहयंतो, पारोक्खी सिस्सभावमुवलब्भ ।
अनुकंपाए अपत्ते, निज्जूहइ मा विणस्सिज्जा ॥ वृ-'परोक्षी' परोक्षजानोपेतः शिष्येभ्यः सूत्रा-ऽर्थो कथयन् विनया-ऽविनयकरणादिना तेषांशिष्याणां भावम्-अभिप्रायमुपलभ्य अपात्राणि' अपात्रभूता शिष्यान् अनुकम्पया 'निर्दूहयति' अपवदति-न तेभ्यः सूत्राऽर्थो कथयति, श्रुताशातनादिना मा विनश्येयुरिति कृत्वा ।। अत्रैवार्थे दृष्टान्तमा(न्ताना)ह[भा.२१५] दारुं धाउं वाही, बीए कंकडुय लक्खणे सुमिणे ।
एगंतेण अजोग्ग, एवमाई उदाहरणा ।। वृ-'एकान्तेनायोग्ये' अपरिणामकेऽतिपरणामकेच दारुधातुः व्याधि बीजानि काङ्कटको लक्षणं स्वप्न इत्येवमादीनि ‘उदाहरणानि' दृष्टान्ताः । तत्र दारुद्दष्टान्तमाह[भा.२१६] को दोसो एरंडे, जं रहदारुंन कीरए तत्तो।
को वा तिनिसे रागो, उवजुज्जइ जं रहंगेसु॥ वृ- “एरण्डे' एरण्डद्रुमे को द्वेषो यत् तस्मात् 'रथदारु' रथयोग्यं दारु न क्रियते?, को वा तिनिशे रागो यदुपयुज्यते स रथाङ्गेषु? ॥ [भा.२१७] जं पि य दारुंजोग्गं, जस्स उ वत्थुस्स तं पि हुन सक्का ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org