________________
बृहत्कल्प-छेदसूत्रम् -१
गतं निरुक्तद्वारम् । अधुना विधिद्वारावसरः, तत्र प्रथमतो विधेरेकार्थिकान्याह[भा.२०८] अनुपुव्वी परिवाडी, कमो य नायो ठिई य मज्जाया । होइ विहाणं च तहा, विहीए एगट्टिया हुंति ।।
वृ- आनुपूर्वी परिपाटी क्रमो न्यायः स्थिति मर्यादा विधानमित्येतानि विधेरेकार्थिकानि भवन्ति ॥ तत्र येन विधिनाऽनुयोगः कर्त्तव्यस्तमाह
[भा.२०९] सुत्तत्थो खलु पढमो, बिइओ निज्जुत्तिमीसिओ भणिओ । तइओ निरवसेसो, एस विही भणिय अनुयोगे ।।
वृ- प्रथमस्य श्रोतुः प्रथमं तावत् सूत्रार्थ कथनीयः । यथा-"नो कप्पइ निग्गंथाण वा निग्गंथीण वा आमे तालपलंबे अभिन्ने पडिगाहित्तए" इति सूत्रम् । अस्यार्थ-न इति प्रतिषेधे, 'न कल्पते' न वर्त्तते इत्यर्थः, नैषां ग्रन्थो विद्यत इति निर्ग्रन्थाः तेषाम्, वा विभाषायाम्, निर्ग्रन्थीनां वा, ‘आमम्' अपक्वम्, तलो वृक्षः, तले भवं तालं फलमित्यर्थः, प्रलम्बं - मूलम्, तदपि तस्यैव तलवृक्षस्य प्रतिपत्तव्यम्, ततः समाहारः, 'अभिन्नम्' अव्यपगतजीवं प्रतिग्रहीतुमिति । एवं तावत् कथयितव्यं यावदध्ययनपरिसम्पाति । ततो द्वितीयस्या परिपाट्यां 'निर्युक्तिमिश्रितः' पीठिकया सूत्रस्पर्शिकनिर्युक्त्या च समन्वितः सोऽपि यावदध्ययनपरिसमाप्तिस्तावत् कथनीयः । 'तृतीयः' तृतीयस्यां परिपाट्यामनुयोगो निरवशेषो वक्तव्यः, पद-पदार्थ- चालना - प्रत्यवस्थानादिभि सप्रपञ्चं समस्तं कथयितव्यमिति भावः । एष विधिरनुयोगे ग्रहण-धारणादिसमर्थान् शिष्यान् प्रति वेदितव्यः ॥ मन्दमतीन् प्रति प्रकारान्तरेणाऽनुयोगविधिमाह
7
[भा. २१०] मूयं हुंकारं वा, बाढक्कार पडिपुच्छ वीमंसा । तत्तोपसंगपारायणं च परिनिट्ठ सत्तमए ॥
- प्रथमतो मूकं शृणुयात्, किमुक्तं भवति ? प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत । ततो द्वितीये श्रवणे हुङ्कारं दद्यात्, वन्दनं कुर्यादित्यर्थः । तृतीये 'बाढकारं कुर्यात्' 'बाढमेवमेतत्, नान्यथा' इति प्रशंसेदित्यर्थः । चतुर्थे गृहीतपूर्वा ऽपरसूत्राभिप्रायो मनाक् प्रतिपृच्छां कुर्यात्, यथा 'कथमेतद् ?' इति । पञ्चमे गृहीतपूर्वा ऽपरसत्राभिप्रायो मनाक् तदुत्तरोत्तरगुणप्रसङ्गः पारगमनं चाऽस्य भवति । ततः सप्तमे परिनिष्ठा, गुरुवदनुभाषत इत्यर्थः । यत एवं मन्दमेघसां श्रवणपरिपाट्या विवक्षिताध्ययनार्थावगमः ततस्तान् प्रति सप्तवारान् अनुयोगो यथाप्रतिपत्ति कर्त्तव्यः ॥ अत्र परावकाशमाह -
[भा. २११] चोएइ राग-दोसा, समत्थ परिणामगे परूवणया । एएसिं नाणत्तं, वुच्छामि अहानुपुव्वीए ।
वृ- शिष्यः 'नो (चो] दयति' प्रश्नयति- 'समर्थे' - ग्रहण-धारणासमर्थे तथा परिणामके, उपलक्षणमेतत्, ग्रहण-धारणाऽसमर्थेऽतिपरिणामकेऽपरिणामके च या प्ररूपणा तया युष्माकं रागद्वेषौ प्रसजतः । तथाहि - तिसृभिः परिपाटीभिरेकान् ग्राहयतो रागः, अपरान् सप्तभिः परिपाटीभिर्ग्राहयतो द्वेषः; तथा परिणामकान् ग्राहयतो रागः, इतरानतिपरिणामका ऽपरिणामकान परिहरतश्च द्वेषः । ‘एतेषां’ ग्रहण-धारणासमर्था ऽसमर्थानां परिणामकादीनां च 'यथाऽऽनुपूर्व्या' क्रमेण नानात्वं वक्ष्ये ।। तत्र प्रतिज्ञातमेव निर्वाहयन् प्रथमतो ग्रहण - धारणासमर्थाऽसमर्थान्
Jain Education International
For Private & Personal Use Only
५८
www.jainelibrary.org