________________
पीठिका-[भा. १७४]
५१
पन्नवणमागमे इय, एगट्ठा पज्जवा सुत्ते ॥ कृ-श्रुतं सूत्रे ग्रन्थः सिद्धान्तः शासनम् आज्ञा वचनम् उपदेशः प्रज्ञापना आगमः ‘इति' एते दश ‘पर्यायाः' एकार्था सूत्रस्य ।। एतेषां च सर्वेषामपि पदानां नामादिकश्चतुष्को निक्षेपः । तत्र सर्वत्रापिनाम-स्थापने द्रव्यतआगमतो नोआगमतोज्ञशरीर-भव्यशरीरे प्रतीते। शेषंवक्तव्यम् । तत्र श्रुतमधिकृत्याह[भा.१७५] दव्वसुर्य पत्तग-पुत्थएसुजं पढइ वा अनुवउत्तो ।
____ आगम-नोआगमओ, भावसुयं होइ दुविहं तु ।। वृ-नोगआगमतो द्रव्यश्रुतंज्ञशरीर-भव्यशरीरव्यतिरिक्तंपत्रक-पुस्तकेषु न्यस्तम्, यच्च बाऽनुपयुक्तः पठति तद् नोआगमतो द्रव्यश्रुतम् । भावश्रुतं द्विविधम्-आगमतो नोआगम
तश्च॥
[भा.१७६] आगमओ सुयनाणी, सुओवउत्तो य होइ भावसुयं ।
सो सुयभावाऽणनो, सुयमवि उवओगओऽणन्नं ।। वृ-तत्राऽऽगमतो भावश्रुतं श्रुतज्ञानी 'श्रुतोपयुक्तः' श्रुतज्ञानोपयोगवान्, “उपयोगो भावनिक्षेपः" इति वचनात् । अथ कथं श्रुतज्ञानी श्रुतोपयुक्तो भावश्रुतम्? अत आह-यस्मात् 'सः' श्रुतज्ञानी श्रुतभावानन्यः, श्रुतमपि जीवस्वभावादुपयोगादनन्यत्, ततः स एव श्रुतज्ञानी भावश्रुतम् ।। नोआगमतो भावश्रुतमाह[भा.१७७] जंतंदुसत्तगविहं, तमेव नोआगमो सुयं होइ।
सामित्तासंबद्धं, समिईसहियस्स वा जंतु॥ वृ- यत् 'तत्' प्रागभिहितं 'द्विसप्तविधं' चतुर्दशविधमक्षरश्रुतादि, यदि वा द्वादशप्रकारमङ्गप्रविष्टमाचारादि द्विविधमङ्गबाह्यं कालिकमुत्कालिकंचेति चतुर्दशविधं श्रुतज्ञानंतदेव 'खामित्वासम्बद्धं' पुरुषेषु स्वामित्वेनासम्बद्धम्, पुरुषेभ्यः पृथग्विवक्षितमित्यर्थः, नोआगमतो भावश्रुतम्। यदि वा समितिसहितस्य पुरुषस्योपयुक्तस्य यत्' श्रुतं तद् नोआगमतो भावश्रुतम्। अत्र नोशब्दो मिश्रवाची ।। अधुना सूत्रद्वारमाह
[भा.१७८/१] पंचविहं पुन दव्वे, भावम्मि तमेव होइ सुत्तं तु ।
वृ.द्रव्यतोनोगआगमतो व्यतिरिक्तंसूत्रंपञ्चविधम्, तद्यथा-अण्डजंहंसगर्भादि, बोण्डजं कासिकम्, कीटजं कृमिरागम्, वालजमूर्णामयम्, वल्कजंसनसूत्रादि । नोआगमतो भावसूत्रं 'तदेव' यदनन्तरं नोआगमतो भावश्रुतमुक्तम् ॥ ग्रन्थद्वारमाह
[भा.१७८/२] सच्चत्ताई गंथो, दव्वे भावे इमं चेव ।।
वृ-द्रव्यतो नोआगमतोव्यतिरिक्तो ग्रन्थस्त्रविधः ‘सचित्तादि' सचित्तः अचित्तो मिश्रश्च। एष त्रिविधोऽप्युपरि प्रथमसूत्रे वक्ष्यते । भावे ग्रन्थः ‘इदमेव' कल्पाध्ययनम् ॥
अधुना सिद्धान्तद्वारमाह[भा.१७९] जेन उ सिद्धं अत्थं, अंतं नयतीति तेन सिद्धंतो।
सो सव्व-पडीतंतो, अहिगरणे अब्भुवगमे य । वृ-येन कारणेन प्रमाणतः सिद्धमर्थम् अन्तंनयति' प्रमाणकोटिमारोहयतीतितेन कारणेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org