________________
बृहत्कल्प-छेदसूत्रम् -१सिद्धान्त उच्यते । स एष द्रव्यतो नोआगमतो व्यतिरिक्तः पुस्तक-पत्रन्यस्तः ।भावतश्चतुर्विधः, तद्यथा-सर्वतन्त्रसिद्धान्तः प्रतितत्रसिद्धान्तः अधिकरणसिद्धान्तः अभ्युपगमसिद्धान्तश्च ।।
तत्र सर्वतन्त्रसिद्धान्तमाह[भा.१८०] संति पमाणाति पमेयसाहगाई तु सव्वतंतो उ ।
थेजवई य वसुमई, आपोय दवा चलो वाऊ ।। वृ-सन्ति 'प्रमाणानि प्रत्यक्षादीनि प्रमेयसाधकानि, तथास्थैर्यवती पृथिवी, आपोद्रवाः, चलोवायुः, एष सर्वतन्त्रसिद्धान्तः, सर्वेषुतन्त्रेष्वस्यार्थस्य सिद्धत्वात् । प्रतितन्त्र सिद्धान्तमाह[भा.१८१] जो खलु सतंतसिद्धो, न य परतंतेसु सो उपडितंतो।
निच्चमनिच्च सव्वं, निच्चानिच्चं च इच्चाई॥ कृयःखल्वर्थस्वतन्त्रसिद्धोनपरतन्त्रेषुसप्रतितन्त्रसिद्धान्तः। यथा-सर्वंनित्यं साङ्ख्यानाम्, सर्वमनित्यं क्षणिकवादिनाम्, सर्वं नित्याऽनित्यमार्हतानामित्यादि ॥अधिकरणसिद्धान्तमाह[भा.१८२] सो अहिगरणो जहियं, सिद्धे सेसं अनुत्तमवि सिज्झे ।
जह निच्चत्ते सिद्धे, अन्नत्ता-ऽमुत्तसंसिद्धी ।। वृ-यस्मिन् सिद्धे शेषमनुक्तमपि सिध्यति, यथा आत्मनो नित्यत्वे सिद्धे शरीरादन्यत्वसंसिद्धिरमूर्तत्वसंसिद्धिश्च । एषोऽधिकरणसिद्धान्तः । अभ्युपगमसिद्धान्तमाह[भा.१८३] जं अब्भुविच्च कीरइ, सिच्छाए कहा स अब्भुवगमो उ।
सीतो वन्ही गयजूह तणग्गे मग्गु-खरसिंगा॥ वृ-यत् 'अब्भुपेत्य' स्वेच्छया अभ्युपगम्य वादकथा क्रियते, यथा-शीतो वह्नि, गजयूथं तृणाग्रे, मद्गोः-जलकाकस्य खरस्य च शृङ्गमिति । स एषोऽभ्युपगमसिद्धान्तः॥
सम्प्रति शासनमाज्ञां चाह[भा.१८४] कडकरणं दव्वे सासनं तु दव्वे व दव्वओ आणा ।
दव्वनिमित्तं वुभयं, दुनि वि भावे इमं चेव ॥ वृ-नोआगमतो द्रव्यशासनं व्यतिरिक्तं 'कृतकरणं' मुद्रा इत्यर्थः । आज्ञाऽपि द्रव्यतो नोआगमतो व्यतिरिक्ता सैव मुद्रा । अथवा 'द्रव्यनिमित्तं' द्रव्योत्पादननिमित्तं यत् 'उभयं' शासनमाज्ञा तद् द्रव्यशासनं सा द्रव्याज्ञा । द्वे अपिच' शासना-ऽऽज्ञे भावत इदमेवाध्ययनम्। किमुक्तं भवति?-नोआगमतो भावशासनं भावाज्ञा च इदमेव कल्पाख्यमध्ययनम् । तथाहि-य एतस्याज्ञां न करोति सोऽनेकानि मरणादीनि प्राप्नोति ॥
इदानीं वचनद्वारम्, वचनं वागित्येकार्थम्, ततो वाचमधिकृत्याह[भा.१८५] दव्ववती दव्वाइं, जाइंगहियाइँ मुंचइ न ताव ।
आराधनि दव्वस्स वि, दोहि विभावस्स पडिवक्खो ।। वृ-यानि भाषायोग्यानिद्रव्याणि भाषात्वेन गृहीतानि, न तावदद्यापिमुञ्चति सानोआगमतो व्यतिरिक्ता द्रव्यवाक् । अथवा द्रव्यस्य ‘आराधनी' यथास्वरूपप्रतिपादिका सा द्रव्यवाक् । द्वाभ्यामपि प्रकाराभ्यां भावस्य प्रतिपक्षो वक्तव्यः । किमुक्तं भवति? - यानि भाषायोग्यानि द्रव्याणि भाषात्वेन परिणमय्य मुञ्चति सा नोआगमतो भाववाक्, अथवा या जीवस्य भावं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org