________________
पीठिका - [ भा. १६८ ]
क्षायोपशमिकोऽपि भावः प्रतिक्षणमन्यथाऽन्यथा परिणमते ततस्तेषु व्यवस्थितस्य व्याख्यां कुर्वतो भावेष्वनुयोगः ॥ अथ द्रव्य-क्षेत्र - काल-भावानां परस्परं समवतारोऽस्ति ? न वा ? अस्तीति ब्रूमः । कथम् ? इत्याह
[ भा. १६९ ] दव्वे नियमा भावो, न विना ते यावि खित्त- कालेहिं । खित्ते तिण्ह वि भयणा, कालो भयणाय तीसुं पि ॥
४५
वृ-द्रव्ये नियमाद्भावः, भावं विना द्रव्यस्याऽसम्भवात्, नहि तदस्ति द्रव्यं यद्भावशून्यमिति । “न विना ते यावि खित्त कालेहिं" इति न च ' तावपि' द्रव्य - भावौ क्षेत्र - कालाभ्यां विना । तथाहि-क्षेत्रं विना न द्रव्यम्, आधारमन्तरेमाऽऽधेयस्याऽसम्भवात्; ततस्तद्गतो भावोऽपि न क्षेत्रं विना; कालं विना द्रव्य-भावाभावः समयक्षेत्रापेक्षया, नहि समयक्षेत्रे तदस्ति द्रव्यं भावो वा यः कालं विना । अनयत्र तु नैष नियमः, तथा चाह-क्षेत्रे 'त्रयाणामपि द्रव्य-कालभावानां भजना । तत्र कालः समयक्षेत्रे भवति अन्यत्र नेति कालभजना। द्रव्य-भावावपि लोकाकाशे स्तो नाऽलोके । यद्यप्यलोकेऽप्यगुरुलघवः पर्यायाः सन्ति तथापि द्रव्य स्य भावो नाद्रव्यस्य, अलोकाकाशं च क्षेत्रत्वे न विवक्षितमिति भावस्याप्यभाव इति । कालः पुनर्भजनया 'त्रिष्वपि ' द्रव्य-क्षेत्रभावेषु, समयक्षेत्रान्यत्र कालस्यासम्भवात् ॥ साम्प्रतमाधारा-ऽऽधेयभावयोजनामाहआधारो आधेयं, च होई दव्वं तहेव भावो य । खित्तं पुन आधारो, कालो नियमा उ आधेयो ।
[भा. १७०]
वृ-द्रव्यं भावश्चाधार आधेयश्च भवति । तत्र द्रव्यमाधारो भावस्य, आधेयं क्षेत्रस्य । भाव आधारः कालस्य, आधेयो द्रव्यस्य । क्षेत्रं पुनर्नियमादाधारः, तस्याऽन्यस्याऽऽधारस्याऽभावात्, “स्वप्रतिष्ठितमाकाशम्” इति वचनात् । कालो नियमादाधेयः, तस्य द्रव्ये क्षेत्रे भावे चावस्थानात् ।। उक्तोऽनुयोगः, तद्विपरीतोऽननुयोगः । तत्र दृष्टान्तानभिधित्सुराह
[भा. १७१] वत्सग गोणी खुज्जा, सज्झाए चेव बहिरउल्लावे । गाल्लिए य वयणे, सत्तेव य हुंति भावम्मि ।।
वृ-द्रव्यानुयोगे द्रव्याननुयोगे च वत्स-गावावुदाहरणम्-जइ गोदोहगो जो पाडलाए वत्सगो तं बाहुलाए मुयइ, बाहुलेयं वा वत्सगं पाडलाए मुयइ तो अननुयोगो भवइ, दुद्धकज्जस्स य अप्पसिद्धी । एवमिहावि जइ जीवलक्खणेणं दोहयत्थाणीओ साहू अजीवं परूवेइ, अजीवलक्खणेण वा जीवं तो अननुयोगो । तं भावं अन्नहा गिण्हइ, तेन अत्थो विसंवयइ, अत्थे विसंवइए चरणं विसंवयइ, चरणेणं विसंवइएणं मुक्खाभावो, मोक्खाभावे दिक्खा निरत्थिया । जइ पुन जो जाए वत्सगो तं ताए मुयइ तो अनुयोगो भवइ, तस्स य दुद्धकज्जस्स पसिद्धी । एवमिहावि जइ जीवलक्खणेणं जीवं परूवेइ, अजीवरक्खणेणमजीवं तो अनुयोगो भवइ । तस्स य मुक्खलक्खणस्स कजस्स पसिद्धी |
1
क्षेत्रस्याप्यननुयोगोऽनुयोगश्च भवति । तत्राननुयोगे कुज्जोदाहरणम्-पइट्ठाणं नयरं । सालवाहणो राया । सो वरिसे वरिसे भरुयच्छे नहवाहणं रोहेइ । जाहे य वरिसारत्तो भवति ताहे सयं नयरं पडियाइ, एवं कालो वच्चइ । अन्नया तेणं रन्ना रोहगेणं गइल्लएणं अत्थाणियमंडवियाए निच्छूढं । तस्स पडिग्गहधारी खुज्जा। सा चिंतेइ - अपरिभोगा एसाऽऽदिट्ठा, नूनमेस राया जाइउकामो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org