SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४४ बृहत्कल्प-छेदसूत्रम् -१ अस्या (अ) क्षरगमनिका-'लिङ्गत्रयम्' इयं स्त्र अयं पुमान् इदं कुलम् । 'वचनत्रिकम्' एकवचनं द्विवचन बहुवचनमिति । 'कालत्रिकम्' अकरोत् करोति करिष्यति च । परोक्षवचनं यथा स इति । प्रत्यक्षवचनम् एष इति । उपनयः-स्तुति अपनयः-निन्दा तयोश्चतुष्कमुपनयाऽपनयचतुष्कम्, यथा-रूपवती स्त्रीत्युपनयवचनम्, कुरूपा स्त्रीत्यपनयवचनम्, रूपवती स्त्री किन्तु दुःशीलेत्युपनया-ऽपनयवचनम्, कुरूपा स्त्री किन्तु सुशीलेत्यपनयोपनयवचनम् । तथा अन्यच्चेतसि निधाय विप्रतारकबुध्द्या अन्य बिभणिषुरपिसहसा यच्चेतसि तदेव यद् वक्तितत् षोडशमध्यात्मवचनम् ॥ [भा.१६५] वयणेणाऽऽयरियाई, इक्केणुत्तो बहूहि वयणेहिं। वयण खओवसमिएष वयणेसु उ नथि अनुओगो।। वृ-वचनेनानुयोगो यथा-कोऽप्याचार्य केनाऽप्याचार्येण भिक्षुणा श्रावकेण वा भणितः 'अनुयोगमिच्छाकारेण कुरु' ततःसोऽनुयोगं करोति । वचनैरनुयोगः बहुभिराचार्यादिभिर्भणितोऽनुयोगंकरोति।अथवावचनेनानुयोगोनाम आचार्यादीनामन्यतमएकेन वचनेनानुयोगं करोति, यथा-समभावःसामायिकमिति। कश्चिद्बहुभिर्वचनैः सविस्तरमिति । वचनेक्षायोपशमिके स्थितस्यानुपयोगो वचनेऽनुयोगः । वचनेष्वनुयोगो नास्ति, क्षयोपशमभावस्य सर्वत्राप्येकत्वेन बहुत्वासम्भवात् । यदि वा व्यक्तिविवक्षया बहुष्वाचारदिषु वचनेषु स्थितस्यानुयोगो बहुवचनेष्वनुयोगः ।। सम्प्रतिभावानुयोगंषट्प्रकारमाह[भा.१६६] भावस्सेगतरस्स उ, अनुयोगो जो जहडिओ भावो। दोमाइसन्निकासे, अनुयोगो होति भावाणं ।। वृ-भावस्यानुयोगः औदयिकादीनां भावानामन्यतमो यो यथास्थितो भावस्तस्यकथनम्। भावानामनुयोगो द्विकादीनां भावानां सन्निकारो-संयोगे यावन्तो भङ्गा भवन्ति तेषां कथनम् ।। [भा.१६७] भावेन संगहाईअन्नयरेणं दुगाइभावेहि । भावम्मिखओवसमे, भावेसुय नत्थि अनुयोगो।। वृ-भावेनानुयोगः सङ्ग्रहादीनां पञ्चानां भावानामन्यतमेन । ते च सङ्गहादयः पञ्च भावा इमे-पंचहिं ठाणेहिं सुयं वाइजा,तंजहा-संगहठ्ठयाए, उवग्गहठ्ठयाए, निजरठ्ठयाए, सुयपज्जवजाएणं, अव्वुच्छित्तीएय। तत्र-कथंममैते शिष्याः सूत्रार्थसङ्ग्राहकाः सम्पत्स्यन्ते? इति सङ्ग्रहार्थता, कथं नुनामगीतार्थाबूत्वा वस्त्राधुत्पादनेन गच्छस्योपग्रहकरा भविष्यन्ति? इत्युपग्रहार्थता, ममाप्येतान् वाचयतःकर्मनिर्जरा विपुला भविष्यतीति निर्जरार्थता, तथा श्रुतपर्यवजातं श्रुतपर्यायराशिर्ममापि वृद्धिंयास्यतीतिचतुर्थं श्रुतपर्यवजातंकारणम्, श्रुतस्य शिष्यपरम्परागतयाअव्यवच्छित्तिर्भूयादिति पञ्चममव्यवच्छित्तिकारणम्॥भावैरनुयोगः एतेषांपञ्चानांभावानां द्वित्रादिभिर्भावः ।भावेऽनुयोगः क्षायोपशमिके। भावेषु त्वनुयोगो नास्ति, क्षायोपशमिकभावस्यैकत्वात् ॥ [भा.१६८] अहवा आयाराइसु, भावेसु उ एस होइ अनुओगो। सामित्तं आसज्ज व, परिणामेसुंबहुविहेसुं। वृ-अथवा भावेष्वप्येषोऽनुयोगो भवति । केषु? इत्याह-आचारादिषु द्वादशस्वङ्गेषु ये भावास्तेषु, अथवा स्वामित्वमासाद्य ये औदयिकादयो बहवः परिणामास्तेषु, यदि वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003322
Book TitleAgam Suttani Satikam Part 18 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy