________________
पीठिका - [भा. १५९]
क्षेत्रेणानुयोगमाह
।
[भा. १६०] जंबुद्दीवपमाणं, पुढविजियाणं तु पत्थयं काउं । एवं मविजमाणा, हवंति लोगा असंखिज्जा ।।
वृ- जम्बूद्वीपप्रमाणं प्रस्थकं पृथिवीकायिकानां मापनाय कृत्वा जम्बूद्वीपप्रमाणेन प्रस्थकेन ते पृथिवीकायिका माप्यन्ते, मापयित्वा मापयित्वा चालोके प्रक्षिप्यन्ते, एवं माप्यमाना असङ्ख्येया लोका भवन्ति, असङ्ख्येयलोकाकाशप्रमाणलोकखण्डमापूरयन्तीत्यर्थः ॥ क्षेत्रैरनुयोगमाह[भा. १६१] खित्तेहि बहू दीवे, पुढविजियाणं तु पत्थयं काउं । एवं मविजमाणा, हवंति लो असंखिज्जा ।।
वृ- क्षेत्रैरनुयोगो यथा - 'बहून्' त्रिप्रभृतीन् द्वीपान् पृथिवीकायिकानां मापकरणाय प्रस्थकं कृत्वा तेन पृथिवीकायिकान् मापयेत्, मापयित्वा मापयित्वा चालोके प्रक्षिपेत्, ते चैवं माप्यमाना असङ्घयेया लोका भवन्ति ॥ सम्प्रति क्षेत्रे क्षेत्रेषु चानुयोगमाह
४३
[भा. १६२] खित्तम्मि उ अनुयोगो, तिरियंलोगम्मि जम्मि वा खेत्ते । अड्डाइयदीवेसुं, अद्धछवीसाए खित्तेसु ॥
वृ-क्षेत्रेऽनुयोगो यथा तिर्यग्लोकेऽनुयोगो यस्मिन् वा ग्रामे नगरे उपाश्रये वा । क्षेत्रेष्वनुयोगो यथा अर्द्धतृतीयेषु द्वीपेषु यदि वाऽर्द्धषड्विंशतिषु जनपदेषु ।। अधुना कालस्य कालानां कालेन कालैः चानुयोगमाह
[भा. १६३] कालस्स समयरूवण, कालाण तदादि जाव सव्वद्धा । कालेनऽनिलवहारो, कालेहि उ सेसकायाणं ।
वृ- कालस्यानुयोगो यत् समयस्य प्ररूपणा । कालानामनुयोगो यत् समयादीनां समयाSऽवलिकाप्रभृतीनां यावत् सर्वाद्धा तावत् प्ररूपणम् । कालेनानुयोगः अनिलानां वायुकायिकानामपहारः, यथा वायुकायिकवैक्रियशरीराणि बद्धानि पल्योपमस्यासङ्घयेय भागमात्रेण कालेनापह्रियन्ते।कालैरनुयोगः 'शेषकायानां' पृथिवीकायिकादीनाम्, यथा - औदारिकशरीराणि बद्धानि असङ्घयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपह्रियन्त इति ।। अधुना काले कालेषु चानुयोगमाह[भा. १६४/१] कालम्मि बिइयपोरिसि, समासु तिसु दोसु वा वि कालेसु ।
वृ- कालेऽनुयोगः द्वितीयस्यां पौरुष्याम् । कालेष्वनुयोगः अवसर्पिण्यां तिसृषु समासु, तद्यथा- सुषमदुःषमायाः पश्चिमे भागे दुःषमसुषमायां दुःषमायामिति; उत्सर्पिण्यां द्वयोः समयोःदुःषमासुषमायां सुषमादुःषमायां च । उक्तः षट्प्रकारोऽपि कालानुयोगः, सम्प्रति वचनस्य वचनानां चानुयोगमाह
[ भा. १६४ / २] वयणस्सेगवयाई, वयणाणं सोलसहं तु ॥
वृ- "वयणस्से” त्यादि । वचनास्यानुयोगः 'एकवचनादेः' एकवचन द्विवचनबहुवचनानामन्यतमस्य, यथा-ईशमेकवचनमित्यादि । वचनानामनुयोगः त्रयाणामप्येकवचनादीनां स्वरूपकथनं षोडशानां वा वचनानाम् । तानि च षोडश वचनान्यमूनि
लिंगतियं वयणतियं, कालतियं तह परुक्ख पच्चक्खं । उवनय-ऽवणयचउक्कं, अज्झत्थिययं तु सोलसमं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org