________________
बृहत्कल्प-छेदसूत्रम् -१तद्यथापरमाणुर्द्रव्यत एकं द्रव्यम्, क्षेत्रत एकप्रदेशावगाढः, कालतो जघन्यतः स्थिति 'समयादि' एको द्वौ त्रयो वा समयाः, उत्कर्षतः 'असङ्ख्याः' असङ्ख्येया अवसर्पिण्य उत्सर्पिण्यश्च भवन्ति, भावतोऽनन्ता वर्णादिपर्यायाः, तद्यथा - अनन्ता वर्णपर्यवाः, अनन्ता गन्धपर्यवाः, यावदनन्ताः स्पर्शपर्यवाइति । एवं ‘द्विप्रदेशादेरपि' द्विप्रदेशिकस्य त्रिप्रदेशिकस्य यावदनन्तप्रदेशिकस्योपयुज्य वक्तव्यम्, तद्यथा-द्विप्रदेशिकः स्कन्धो द्रव्यत एकं द्रव्यम्, क्षेत्रत एकप्रदेशावगाढो द्विप्रदेशावगाढो वा, कालतो जघन्यतः स्थिति समयादि, उत्कर्षतोऽसङ्घयेया उत्सर्पिण्यव सर्पिण्य इत्यादि । सम्प्रति द्रव्याणामनुयोगमाह
४२
[भा. १५७] दव्वाणं अनुयोगो, जीवमजीवाण पज्जवा नेया । तत्थवि य मग्गणाओ, णेगा सट्टाण परठाणे ॥
वृ- द्रव्याणामनुयोगो द्विधा जीवद्रव्याणामजीवद्रव्याणां च । किंरूपोऽसौ ? इत्याह‘पर्यायाः' प्ररूप्यमाणा ज्ञेयाः, तथाहि - कतिविधा भदन्त ! पर्यायाः प्रज्ञप्ताः ? गौतम ! द्विविधाः, तद्यथा - जीवद्रव्याणामजीवद्रव्याणां च । तत्राप्यनेकाः स्वस्थाने परस्थाने च मार्गणाः, ताश्चैवम्नैरयिकाणामसुरकुमाराणांच । कति पर्यायाः प्रज्ञप्ताः ? गौतम! अनन्ताः । अथ केनार्थेनेदमुच्यते? गौतम! नैरयिकोऽसुरकुमारस्य द्रव्यार्थतया तुल्यः प्रत्येकमेकद्रव्यत्वात्, प्रदेशार्थतयाऽपि तुल्यः प्रत्येकं लोकाकाशप्रदेशतुल्यप्रदेशत्वात् स्थित्या चतुःस्थानपतितः, भावतः षट्स्थानपतितः, ततो भवन्ति नैरयिकाणामसुरकुमाराणां च प्रत्येकं पर्याया अनन्ताः ।
अजीवद्रव्याणांपर्यायेष्वेवं स्वस्थाने परस्थाने च मार्गणा - परमाणुपोग्गलाणं भंते ! दुपएसियाण य खंधाणं केवइया पजवा पन्नत्ता ? गोयमा ! अनंता । से केणट्टेणं भंते ! एवं बुच्चइ ? गोयमा ! परमाणुपोग्गले दुपएसियस्स खंधस्स दव्वट्टयाए तुल्ल पएसट्टयाए हीने, नो तुल्ले नो अहिए, जइ हीने परसहीने ठिईए चउडाणवडिए वण्णादिपज्जवेहिं छट्टाणवडिए । ततो भवन्ति द्वयानामपि प्रत्येकमनन्ताः पर्यायाः । एवमनेकधा जीवद्रव्याणामजीवद्रव्याणां चाऽनुयोगः सूत्रे तत्र तत्र प्रदेशेऽभिहितो भावनीयः ॥ तदेवं द्रव्यस्य द्रव्याणां चेति स्वामित्वं गतम्, इदानीं करणे एकत्व बहुत्वाभ्यामनुयोगमाह
[भा. १५८] वत्तीए अक्खेण व, करंगुलादीण वा वि दव्वेण । अक्खेहि उ दव्वेहिं, अहिगरणे कप्प कप्पेसु ।।
वृ-वर्तिः- नाम खटिका तया कृता शलाका तया, अक्षेण वा कराङ्गुल्यावास आदिशब्दात् प्रलेपकादिना वा यः क्रियतेऽनुयोगः स द्रव्येणाऽनुयोगः । द्रव्यैरनुयोगो यद्बहुभिरक्षैः क्रियतेऽनुयोगः । 'अधिकरणे' एकस्मिन् द्रव्येऽनुयोगः, यदा एकस्मिन् कलपे स्थितोऽनुयोगं करोति । यदा तु बहुषु कल्पेषु स्थितस्तदा द्रव्येष्वनुयोगः । उक्तोद्रव्यानुयोगः षड्भेदः, सम्प्रति क्षेत्रस्य क्षेत्राणां चानुयोगमाह
[भा. १५९] पन्नत्ति जंबुदीवे, खित्तस्सेमादि होइ अनुयोगो । खित्ताणं अनुयोगो, दीवसमुद्दाण पन्नत्ती ॥
वृ- क्षेत्रस्यानुयोगो भवति जम्बूद्वीपस्य प्रज्ञप्ति, आदिशब्दादन्यस्यापि द्विपस्य योऽनुयोगः स क्षेत्रस्यानुयोगः । क्षेत्राणामनुयोगो द्वीपसमुद्राणां प्रज्ञप्ति, द्वीपसागरप्रज्ञप्तिरित्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org