________________
पीठिका - [भा. १४९ ]
तेषामेव भेदः । ततः परं सूत्रस्य लक्षणम् । तदनन्तरं तस्य - सूत्रस्य अर्हा - योग्याः । ततः परं परिषत् । ततः सूत्रार्थ । एष द्वारगाथासङ्क्षेपार्थः, व्यासार्थस्तु प्रतिद्वारं वक्ष्यते । तत्र प्रथमतो निक्षेप द्वारमाह
४१
[ भा. १५०] निक्खेवो नासो त्ति य, एगट्ठे सो उ कस्स निक्खेवो । अनुओगस्स भगवओ, तस्स इमे वन्निया भेया ॥
वृ-निक्षेपः न्यास इत्येकार्थम् । पर आह-स निक्षेपः कस्य कर्त्तव्यः ? सूरिराह- अनुयोगस्य भगवतः । ' तस्य च' निक्षेपस्य 'इमे' वक्ष्यमाणा वर्णिता भेदाः ।। तानेवाह
[ भा. १५१] नामं ठवणा दविए, खेत्ते काले य वयण भावे य । एसो अनुऒगस्स उ, निक्खेवो होइ सत्तविहो ।
वृ- नामानुयोगः स्थापनानुयोगो द्रव्यानुयोगः क्षेत्रानुयोगः कालानुयोगो वचनानुयोगो भावानुयोगश्च । एषोऽनुयोगस्य सप्तविधो निक्षेपः ॥ तत्र नाम-स्थापने प्रतीते इति ते अनाहत्य शेषाणां द्रव्याद्यनुयोगानां भेदानाह
[ भा. १५२] सामित्त करण-अहिगरणतो य एगत्त तह पुहत्ते य । नामं वा मोत्तुं इति दव्वादीण छब्भेया ॥
वृ- 'स्वामित्वं' सम्बन्धः 'करणं' साधकतमम् 'अधिकरणं' आधारः, एतैः प्रत्येकमेकत्वेन 'पृथक्त्वेन च ' बहुत्वेन पञ्चानां द्रव्यादीनामनुयोगो वक्तव्यः । 'इति' एवं नाम स्थापनां च मुक्त्वा द्रव्यादीनामनुयोगस्य प्रत्येकं षड् भेदा भवन्ति । तद्यथा - द्रव्यस्य वा १ द्रव्याणां वा २ द्रव्येण वा ३ द्रव्यैर्वा ४ द्रव्ये वा ५ द्रव्येषु वा ६ अनुयोगो द्रव्यानुयोगः । एवं क्षेत्र-कालवचनभावानुयोगानामपि प्रत्येकं षड्भेदताऽवसेया ।। तत्र प्रथमतो द्रव्यस्यानुयोगमाह
[भा. १५३ ] दव्वस्स उ अनुओगो, जीवद्दव्वस्स वा अजीवस्स । एक्केक्कम्मिय भेया, हवंति दव्वाइया चउरो ॥
वृ- द्रव्यस्यानुयोगो द्विधा - जीवद्रव्यस्य वा अजीवद्रव्यस्य वा । एकैकस्मिन्ननुयोगे द्रव्यादिकाश्चत्वारो भेदाः । किमुक्तं भवति ? - जीवद्रव्यानुयोगोऽजीवद्रव्यानुयोगो वा प्रत्येकं द्रव्यतः क्षेत्रतः कालतो भावतश्च भवति । तत्र जीवद्रव्यानुयोगं द्रव्यादित आहदव्वेनिक्कं दव्वं, संखातीतप्पदेसमोगाढं ।
भआ । (१५४ ]
काले अनादिनिहणं, भावे नाणाइयाऽनंता ॥
वृ द्रव्यतो जीवद्रव्यमेकम्, क्षेत्रतोऽसङ्घयेयप्रदेशावगाढम्, कालतोऽनाद्यनिधनम्, भावतो ज्ञानादिकाः पर्याया अनन्ताः, तद्यथा - अनन्ता ज्ञानपर्यायाः, अनन्ता दर्शनपर्यायाः, अनन्ताश्चारित्रपर्यवाः, अनन्ता अगुरुलघुपर्यवाः ।। अधुना द्रव्यादिभिरजीवद्रव्यस्यानुयोगमाह[ भा. १५५ ] एमेव अजीवस्सवि, परमाणू दव्वमेगदव्वं तु । खेत्ते एगपएसे, ओगाढो सो भवे नियमा ॥
[भा. १५६] समयाइ ठिति असंखा, ओसप्पिणीओ हवंति कालम्मि । वण्णादि भावऽनंता, एवं दुपदेसमादी वि ॥
वृ- 'एवमेव' अनेनैव प्रकारेण 'अजीवस्यापि' अजीवद्रव्यस्याप्यनुयोगो वक्तव्यः ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International