________________
उद्देशक : १, मूलं -६, [भा. १८०६ ]
४५९
वृ- ‘संविग्नैः’ उद्यतविहारिभि कथना धर्मस्य कर्त्तव्या । कुतः ? इत्याह- इतरे - असंविग्नास्तैर्धर्मकथायां क्रियमाणायां श्रोतॄणामप्रत्ययो भवति, नैते यथा वादिनस्तथा कारिण इति । न च तेषाम् ‘उपशमः’ सम्यग्दर्शनादिप्रतिपत्तिर्भवति । येऽपिच प्रव्रज्याभिमुखाः शैक्षादयो वा अद्याप्यपरिणतजिनवचनास्तेऽपि तेषु व्रजेयुः -शोभनं स्वत्वेतेऽपि धर्मं कथयन्तीति ॥
आह निश्राकृते चैत्ये यदि तदानीमसंविग्ना न भवन्ति ततः को विधिः? इत्याह[भा. १८०७] पूरिंति समोसरणं, अन्नासइ निस्सचेइएसुं पि ।
इहरा लोगविरुद्धं, सद्धाभंगो य सड्डाणं ॥
वृ- ‘अन्येषाम्’ असंविग्नामसति निश्राकृतेष्वपि चैत्येषु समवसरणं पूरयन्ति । इतरथा 'लोकविरुद्धं' लोकापवादो भवति - अहो ! अमी मत्सरिणो यदेवमन्यदीयं चैत्यम् इति कृत्वा नात्रोपविश्य धर्मकथां कुर्वन्ति । श्रद्धाभङ्गश्च श्राद्धानां भवति, तेषामत्यर्थः मभ्यर्थयमानानामपि तत्र धर्मकथाया अकरणात् ॥
अथ भिक्षाचर्यायां यतनामाह
[ भा. १८०८ ]
पुव्वपविट्ठेहि समं, हिंडती तत्थ ते पमाणं तु । साभावि अभिक्खाओ, विदंतऽपुव्वा य ठवियादी ॥
वृ- पूर्वप्रविष्टा नाम - पूर्वं ये क्षेत्रप्रत्युपेक्षणार्थं प्रहितास्तैः समं भिक्षां हिण्डन्ते । तत्र च भिक्षामटतां त एव प्रमाणम, नागन्तुकैस्तत्र शुद्धाशुद्धगवेषणा कर्त्तव्या । ते च पूर्वप्रविष्टा इदं विदन्तियदेताः ‘स्वाभाविकभिक्षाः’ स्वार्थनिष्पादिताः, एतास्तु 'अपूर्वा' संयतार्थं स्थापितनिक्षिप्तादयः ।। स्त्रीसङ्कुलनाटकदर्शनयोर्यतनामाह
[भा. १८०९] वंदेन इंति निंति व, जुव मज्झे थेर इत्थिओ तेनं । ठंति न य नाडएसुं, अह ठंति न पेह रागादी ॥
वृ- स्त्रीसङ्कु ले वृन्देनायान्ति निर्गच्छन्ति च । ये च युवानस्ते मध्ये क्रियन्ते । यतः स्त्रियस्तेन पार्श्वेन 'स्थविरा:' वृद्धा भवन्ति, मा भूवन् भुक्ता-भुक्तसमुत्था दोषा इति । यत्र नाटकानि निरीक्ष्यन्ते तत्र न तिष्ठन्ति । अथ कारणतस्तिष्ठन्ति ततः “न पेह "त्ति नर्त्तक्यादिरूपाणि न प्रेक्षन्ते । सहसा दृष्टिगोचरागतेषु च तेषु रागादीन्न कुर्वन्ति, तेभ्यश्च द्राग् दृष्टिं निवर्त्तयन्ति ॥ तन्तुजालादिषु विधिमाह[भा. १८१०]
सीलेह मंखफलए, इयरे चोयंति तंतुमादीसु । अभिजयंति सवित्तिसु, अनिच्छि फेडंतऽदीसंता ॥
वृ- 'इतरे' असंविग्ना देवकुलिका इत्यर्थः तान् तन्तुजाल-लूतापुटकादिषु सत्सु ते साधवो नोदयन्ति। यथा-‘शीलयत’ परिकर्मयत मङ्खफलकानीव मङ्खफलकानि देवकुलानि । मङ्खो नामचित्रफलकव्यग्रहस्तः, तस्य च यदि फलकमुज्ज्वलं भवति ततो लोकः सर्वोऽपि तं पूजयति, एवं यदि यूयमपि देवकुलानि भूयो भूयः सम्मार्जनादिना सम्यगुज्वालयत ततो भूयान् लोको भवतां पूजा - सत्कारं कुर्यात् । अथ ते देवकुलिकाः सवृत्तिकाः- चैत्यप्रतिबद्धगृह-क्षेत्रादिवृत्तिभोगिनस्ततस्तान् ‘अभोयोजयन्ति' गाढं निर्भर्त्सयन्ति, यथा-एक तावद् देवकुलानां वृत्तिमुपजीवथ द्वितीयमेतेषां सम्मार्जनादिसारामपि न कुरुथ । इत्थमुक्ता अपि यदि तन्तुजालादीन्यपनेतुं नेच्छन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org