________________
४५८
बृहत्कल्प-छेदसूत्रम् -१-१/६ कार्यम् । अथाध्वनिर्गताः-ते अध्वानमतिलच्यसहसैव तत्रप्राप्ताः,आदिशब्दादपूर्वोत्सवादिवक्ष्यमाणकारणपरिग्रहः, एवंविधैः कारणैरप्रत्युपेक्षितेऽपि क्षेत्रे गताः सन्तो यथोक्तां यतनां कुर्वाणा अपियदि लग्नाः' अशुद्धभक्तादिग्रहणदोषमापन्नास्तथापिशुद्धाः । यथा 'क्षपकः' पिण्डनियुक्ती प्रतिपादितचरितः शुद्धं गवेषयन्नपि निगूढबाह्याकारया तथाविधश्राद्धिकया च्छलितः सन्नाधाकर्मण्यपि गृहीते शुद्धः, अशठपरिणामत्वादिति नियुक्तिगाथासमासार्थः ॥
अथैनामेव विवृणोति[भा.१८०२] नाऊण य अइगमणं, गीए पेसिति पेहिउं कज्जे ।
उवसय भिक्खायरिया, बाहिं उब्भामगादीया ।। [भा.१८०३] सब्भाविक इयरे विय, जाणंती मंडवाइणो गीया ।
सेहादीण यथेरा, वंदनजुत्तिं बहिं कहए। वृ-चैत्यपूजादिके कार्ये समुत्पन्नेऽनुयानक्षेत्रं प्रत्युपेक्षितुं गीतार्थान् प्रेषयन्ति । ततो ज्ञात्वा सम्यक् क्षेत्रस्वरूपमतगमनं कर्तव्यम् । किं पुनस्तत्र प्रत्युपेक्ष्यम् ? इत्याह-मौलग्रामे उपाश्रयः, 'बहि' बाह्यग्रामेषुच उद्रामकाख्या भिक्षाचर्या, आदिशब्दात्तस्यांगच्छतामपान्तराले विश्रामस्थानं मौलग्रामे च भिक्षा-विचारभूमिप्रभृतिकं प्रत्युपेक्ष्यम् । तथा सद्भाविकानितराँश्च मण्डपादीन् गीतार्था जानन्ति, यथा-अमी सद्भावतः स्वार्थं मण्डपाः कृताः, अमी तु संयतार्थं परं कैतवप्रयोगेणास्मानित्यं प्रत्याययन्ति, आदिग्रहणात् पीठिकादिपरिग्रहः । इत्थं तैः प्रत्युपेक्षिते सूरयः सबाल-वृद्धगच्छसहिताअनुयानक्षेत्रप्रविशन्ति।स्थविराश्च बहिरेववर्तमानाः शैक्षादीनां 'वन्दनयुक्ति' पार्श्वस्थादिवन्दनविधिं कथयन्ति, मा भूदन्यथा तद्वन्दने तेषां विपरिणाम इति ।
अथ चैत्यवन्दनविधिमाह[भा.१८०४] निस्सकडमनिस्से वा, वि चेइए सव्वहिं थुई तिन्नि ।
वेलं च चेइयाणि य, नाउं एक्किक्किया वा वि॥ वृ-'निश्राकृते' गच्छप्रतिबद्धे 'अनिश्राकृते वा' तद्विपरीते चैत्ये सर्वत्र तिः स्तुतयो दीयन्ते। अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयांसि वा तत्र चैत्यानि, ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैका स्तुतितिव्येति ।।
अथ समवसरणविषयं विधिमाह[भा.१८०५] निस्सकडे ठाइ गुरू, कइवयसहिएयरा वए वसहिं।
जत्थ पुन अनिस्सकडं, पूरिति तहिं समोसरणं । वृ-निश्राकृते चैत्ये 'गुरु' आचार्य कतिपयैः परिणतसाधुभिः सहितश्चैत्यमहिमावलोकनार्थं तिष्ठति, 'इतरे' शैक्षादयस्ते ‘मा पार्श्वस्थादीन् भूयसा लोकेन पूज्यमानान् दृष्टवा तत्र गमनं कार्यु' इति कृत्वा गुरुभिरनुज्ञाता वसतिं व्रजेयुः । यत्र पुनः क्षेत्रे अनिश्राकृतं चैत्यं तत्राचार्या समवसरणं पूरयन्ति, सभामापूर्य धर्मकथां कुर्वन्तीत्यर्थः ॥
आह किं संविग्नस्तत्र धर्मकथा कार्या? आहोश्चिदसंविग्नैरपि? उच्यते[भा.१८०६] संविग्गेहि य कहणा, इयरेहि अपच्चओ न ओवसमो।
पव्वजाभिमुहा विय, तेसु वए सेहमादी वा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org