________________
उद्देशक : १, मूलं-६, [भा. १७९६]
४५७
अथ प्रभावनाद्वारमाह[भा.१७९७] जाइ-कुल-रूव-धण-बलसंपन्ना इड्डिमंतनिक्खंता ।
जयणाजुत्ता य जई, समेच्च तित्थंपभाविंति। वृ- जाति-मातृकः पक्षः, कुलं-पैतृकः पक्षः, रूपम-आकृति, धनं-गणिम-धरिम-मेयपारिच्छेद्यभेदाच्चतुर्द्धा तदतिप्रभूतंगृहस्थावस्थायामासीत, बलं-सहयोधिप्रभृतीनामिवसातिशयं शारीरं वीर्यम्, एतैर्जात्यादिभिर्गुणैः सम्पन्ना ये च 'ऋद्धिमनिष्क्रान्ताः' राजप्रव्रजितादयो ये च 'यतनायुक्ताः' यथोक्तसंयमयोगकलिता यतयस्ते ‘समेत्य' तत्रागत्य तीर्थं प्रभावयन्ति ।।
अपि च[भा.१७९८] जो जेन गुणेनऽहिओ, जेन विमा वा न सिज्झए जंतु।
सो तेण तम्मि कज्जे, सव्वत्थामं न हावेइ ॥ वृ- ‘यः' आचार्यादि 'येन' प्रावनिकत्वादिना गुणेन 'अधिकः' सातिशयः 'येन वा' विद्यासिद्धादिना विनायत् प्रवचनप्रत्यनीकशिक्षणादिकं कार्यन सिध्यति सः 'तेन' गुणेन तस्मिन् कार्ये सर्वस्थाम' सकलमपि वीर्यंनहापयति किन्तुसर्वया शक्त्या तत्र लगित्वा प्रवचनंप्रभावयतीति भावः । उक्तश्च
प्रावचनी धर्मकथी, वादी नैमित्तिकस्तपस्वी च ।
जिनवचनज्ञश्च कवि, प्रवचनमुद्भावयन्त्येते॥ -प्रवृत्तिद्वारमाह[भा.१७९९] साहम्मि-वायगाणं, खेम-सिवाणंच लब्भिइ पवित्तिं ।
गच्छिहिति जहिं ताई, होहिंति न वा विपुच्छइ वा ।। वृ-तत्रान्येषांसाधर्मिकाणांचिरदेशान्तरगतानांवाचकानांवा-आचार्याणां तत्र प्राप्तःप्रवृत्तिं लप्स्यते । तथा क्षेम-परचक्रायुपप्लवाभावः शिवं व्यन्तरकृतोपद्रवाभावः तयोः, उपलक्षणत्वात् सुभिश्र-दुर्भिक्षादीनां चागामिसंवत्सरभाविनां प्रवृत्तिं तत्र नैमित्तिकसाधूनां सकाशाद् लप्स्यते। यदि वा यत्र देशे स्वयं गमिष्यति तत्र तानि क्षेमादीनि भविष्यन्ति न वा ? इति साधर्मिकादीन् पृच्छति॥
कार्योड्डाहद्वारद्वयमाह[भा.१८००] कुलमादीकज्जाइं, साहिस्सं लिंगिणो य सासिस्सं ।
जे लोगविरुद्धाइं, करेंति लोगुत्तराइं च ।। वृ-कालुदीनि-कुल-गण-सङ्घसत्कानि कार्याणि तत्र गतः साधयिष्यामि । लिङ्गिनश्चतत्रगतः 'शासिष्यामि' हितोपदेशदानादिना शियिष्यामि, ये लिङ्गिनोलोकविरुद्धानि लोकोत्तरविरुद्धानि च प्रवचोड्डाहकारीणि कार्याणि कुर्वन्तीति ।।
आह यद्येतानि कारणानि भवन्ति ततः किं कर्त्त-व्यम् ? इत्याह[भा.१८०१] एएहि कारणेहिं, पुव्वं पडिलेहिऊण अइगमणं।
अद्धाणनिग्गयादी, लग्गा सुद्धा जहा खमओ ।। वृ-'एतैः' चैत्यपूजादिभिः कारणैरनुयानं प्रवेष्टव्यमिति निश्चित्य पूर्वं प्रत्युपेक्ष्य ततोऽतिगमनं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org