________________
४५६
बृहत्कल्प-छेदसूत्रम् - १-१/६
अथ संज्ञिद्वारं वादिद्वारं चाह
[ भा. १७९२] एमेव य सन्नीण वि, जिणाण पडिमासु पढमपट्टवणे । मा परवाई विग्धं, करिज्ज वाई अओ विसइ ॥
वृ- संज्ञिनः - श्रवकाः केचिद् जिनानां प्रतिमासु प्रथमतः " पट्ठवणे "त्ति प्रतिष्ठापनं कर्तुकामास्तेषामपि 'एवमेव' राज्ञ इव श्रद्धावृध्यादिकं कृतं भवति । तथा मा परवादी प्रस्तुतोत्सवस्य विघ्नं कार्षाद् अतो वादी प्रविशति ॥
परवादिनिग्रहे च क्रियमाणे गुणानुपदर्शयति
[भा. १७९३ ] नवधम्माण थिरत्तं, पभावणा सासणे य बहुमानो । अभिगच्छंति य विदुसा, अविग्ध पूया य सेयाए ॥
वृ-‘नवधर्मणाम्' अभिनवश्रावकाणां 'स्थिरत्वं' स्थिरीकरणम् । शासनस्य च प्रभावना भवति, यथा-अहो ! प्रतपति पारमेश्वरं प्रवचनं यत्रेध्शा वादलब्धिसम्पन्ना इति । बहुमानश्चान्येषामपि शासने भवति । तथा तं वादिनं 'अभिगच्छन्ति' अभ्यायान्ति 'विद्वांसः' सहृदयास्तद्वाग्मिताकौतुकाकृष्टचिताः, तेषां च सर्वविरत्यादिप्रतिपत्या महाँल्लाभो भवति । परवादिना च निगृहीतेन 'अविघ्नं ' निप्रत्यूहं पूजा कृता सती स्वपक्ष-परपक्षयोरिह परत्र च श्रेयसे भवति ।।
अथ क्षपकद्वारमाह
[भा. १७९४]
आयाविंति तवस्सी, ओभावणया परप्पवाईणं । जइ एरिसा वि महिमं, उविंति कारिति सड्ढा य ।।
वृ-तत्र 'तपस्विनः' षष्ठाऽष्टमादिक्षपका आतापयन्ति । ततश्च 'अपभावना' लाघवं 'परप्रवादिनां' परतीर्थिकानां भवति, तेषां मध्ये ईध्शानां तपस्विनामभावात् । श्राद्धाश्च चिन्तयन्ति यदि तावदीशा अपि भगवन्तोऽस्माभि क्रियमाणां 'महिमां' चैत्यपूजां द्रष्टुमायान्ति, तत इत ऊर्ध्वं विशेषत एव तस्यां यत्नं विधास्याम इति प्रवर्द्धमान श्रद्धाका महिमां कुर्वन्ति कारयन्ति च । अथ कथिकद्वारमाह
[ भा. १७९५ ] आय-परसमुत्तारो, तित्थविवडी य होइ कहयंते । अन्नोन्नाभिगमेण य, पूया थिरया य बहुमाणो ।
वृ-क्षीराश्रवादिलब्धिसम्पन्न आक्षेपणी-संवेजनी-निर्वेदनीभेदात् चतुर्विधां धर्मकथां कथयन् धर्मकथीत्युच्यते । तस्मिन् धर्मं कथयति आत्मनः परस्य च संसारसागरात् समुत्तारः- निस्तरणं भवति । तीर्थविवृद्धिश्च भवति, प्रभूतलोकस्य प्रव्रज्याप्रतिपत्तेः । तथा देशनाद्वारेण पूजाफलमुपवर्ण्य ‘अन्यान्याभिगमेन’ अन्यान्यश्रावकबोधनेन पूजायां स्थिरता बहुमानश्च कुतो भवति ।। अथ शङ्कितः पात्रद्वारे व्याख्याति
[ भा. १७९६] निस्संकियं च काहिइ, उभए जं संकियं सुयहरेहिं । अव्वोच्छित्तिकरं वा, लब्भिहि पत्तं दुपक्खाओ ।।
वृ- 'उभये' सूत्रे अर्थे च यत् तस्य शङ्क्तिं तत् तत्र श्रुतधरेभ्यः पार्थ्यान्निः शङ्कितं करिष्यति । अव्यवच्छित्तिकारकं वा पात्रं द्विपक्षाद् लप्स्यते । द्वौ पक्षौ समाह्वतौ द्विपक्षम्, गृहस्थपक्षः संयतपक्षश्चेत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org